भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 55

55.1

स निष्क्रम्योदरात् तस्य बालस्य मुनिसत्तमाः
पुनश् चैकार्णवाम् उर्वीम् अपश्यज् जनवर्जिताम् ॥

55.2

पूर्वदृष्टं च तं देवं ददर्श शिशुरूपिणम्
शाखायां वटवृक्षस्य पर्यङ्कोपरि संस्थितम् ॥

55.3

श्रीवत्सवक्षसं देवं पीतवस्त्रं चतुर्भुजम्
जगद् आदाय तिष्ठन्तं पद्मपत्त्रायतेक्षणम् ॥

55.4

सो ऽपि तं मुनिम् आयान्तं प्लवमानम् अचेतनम्
दृष्ट्वा मुखाद् विनिष्क्रान्तं प्रोवाच प्रहसन्न् इव ॥

55.5

कच्चित् त्वयोषितं वत्स विश्रान्तं च ममोदरे
भ्रममाणश् च किं तत्र आश्चर्यं दृष्टवान् असि ॥

55.6

भक्तो ऽसि मे मुनिश्रेष्ठ श्रान्तो ऽसि च ममाश्रितः
तेन त्वाम् उपकाराय संभाषे पश्य माम् इह ॥

55.7

श्रुत्वा स वचनं तस्य संप्रहृष्टतनूरुहः
ददर्श तं सुदुष्प्रेक्षं रत्नैर् दिव्यैर् अलंकृतम् ॥

55.8

प्रसन्ना निर्मला दृष्टिर् मुहूर्तात् तस्य भो द्विजाः
प्रसादात् तस्य देवस्य प्रादुर्भूता पुनर् नवा ॥

55.9

रक्ताङ्गुलितलौ पादौ ततस् तस्य सुरार्चितौ
प्रणम्य शिरसा विप्रा हर्षगद्गदया गिरा ॥

55.10

कृताञ्जलिस् तदा हृष्टो विस्मितश् च पुनः पुनः
दृष्ट्वा तं परमात्मानं संस्तोतुम् उपचक्रमे ॥

55.11

देवदेव जगन्नाथ मायाबालवपुर्धर
त्राहि मां चारुपद्माक्ष दुःखितं शरणागतम् ॥

55.12

संतप्तो ऽस्मि सुरश्रेष्ठ संवर्ताख्येन वह्निना
अङ्गारवर्षभीतं च त्राहि मां पुरुषोत्तम ॥

55.13

शोषितश् च प्रचण्डेन वायुना जगदायुना
विह्वलो ऽहं तथा श्रान्तस् त्राहि मां पुरुषोत्तम ॥

55.14

तापितश् च तशामात्यैः प्रलयावर्तकादिभिः
न शान्तिम् अधिगच्छामि त्राहि मां पुरुषोत्तम ॥

55.15

तृषितश् च क्षुधाविष्टो दुःखितश् च जगत्पते
त्रातारं नात्र पश्यामि त्राहि मां पुरुषोत्तम ॥

55.16

अस्मिन्न् एकार्णवे घोरे विनष्टे सचराचरे
न चान्तम् अधिगच्छामि त्राहि मां पुरुषोत्तम ॥

55.17

तवोदरे च देवेश मया दृष्टं चराचरम्
विस्मितो ऽहं विषण्णश् च त्राहि मां पुरुषोत्तम ॥

55.18

संसारे ऽस्मिन् निरालम्बे प्रसीद पुरुषोत्तम
प्रसीद विबुधश्रेष्ठ प्रसीद विबुधप्रिय ॥

55.19

प्रसीद विबुधां नाथ प्रसीद विबुधालय
प्रसीद सर्वलोकेश जगत्कारणकारण ॥

55.20

प्रसीद सर्वकृद् देव प्रसीद मम भूधर
प्रसीद सलिलावास प्रसीद मधुसूदन ॥

55.21

प्रसीद कमलाकान्त प्रसीद त्रिदशेश्वर
प्रसीद कंसकेशीघ्न प्रसीदारिष्टनाशन ॥

55.22

प्रसीद कृष्ण दैत्यघ्न प्रसीद दनुजान्तक
प्रसीद मथुरावास प्रसीद यदुनन्दन ॥

55.23

प्रसीद शक्रावरज प्रसीद वरदाव्यय
त्वं मही त्वं जलं देव त्वम् अग्निस् त्वं समीरणः ॥

55.24

त्वं नभस् त्वं मनश् चैव त्वम् अहंकार एव च
त्वं बुद्धिः प्रकृतिश् चैव सत्त्वाद्यास् त्वं जगत्पते ॥

55.25

पुरुषस् त्वं जगद्व्यापी पुरुषाद् अपि चोत्तमः
त्वम् इन्द्रियाणि सर्वाणि शब्दाद्या विषयाः प्रभो ॥

55.26

त्वं दिक्पालाश् च धर्माश् च वेदा यज्ञाः सदक्षिणाः
त्वम् इन्द्रस् त्वं शिवो देवस् त्वं हविस् त्वं हुताशनः ॥

55.27

त्वं यमः पितृराट् देव त्वं रक्षोधिपतिः स्वयम्
वरुणस् त्वम् अपां नाथ त्वं वायुस् त्वं धनेश्वरः ॥

55.28

त्वम् ईशानस् त्वम् अनन्तस् त्वं गणेशश् च षण्मुखः
वसवस् त्वं तथा रुद्रास् त्वम् आदित्याश् च खेचराः ॥

55.29

दानवास् त्वं तथा यक्षास् त्वं दैत्याः समरुद्गणाः
सिद्धाश् चाप्सरसो नागा गन्धर्वास् त्वं सचारणाः ॥

55.30

पितरो वालखिल्याश् च प्रजानां पतयो ऽच्युत
मुनयस् त्वम् ऋषिगणास् त्वम् अश्विनौ निशाचराः ॥

55.31

अन्याश् च जातयस् त्वं हि यत् किंचिज् जीवसंज्ञितम्
किं चात्र बहुनोक्तेन ब्रह्मादिस्तम्बगोचरम् ॥

55.32

भूतं भव्यं भविष्यं च त्वं जगत् सचराचरम्
यत् ते रूपं परं देव कूटस्थम् अचलं ध्रुवम् ॥

55.33

ब्रह्माद्यास् तन् न जानन्ति कथम् अन्ये ऽल्पमेधसः
देव शुद्धस्वभावो ऽसि नित्यस् त्वं प्रकृतेः परः ॥

55.34

अव्यक्तः शाश्वतो ऽनन्तः सर्वव्यापी महेश्वरः
त्वम् आकाशः परः शान्तो अजस् त्वं विभुर् अव्ययः ॥

55.35

एवं त्वां निर्गुणं स्तोतुं कः शक्नोति निरञ्जनम्
स्तुतो ऽसि यन् मया देव विकलेनाल्पचेतसा
तत् सर्वं देवदेवेश क्षन्तुम् अर्हसि चाव्यय ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc