भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 52

52.1

आसीत् कल्पे मुनिश्रेष्ठाः संप्रवृत्ते महाक्षये
नष्टे ऽर्कचन्द्रे पवने नष्टे स्थावरजङ्गमे ॥

52.2

उदिते प्रलयादित्ये प्रचण्डे घनगर्जिते
विद्युदुत्पातसंघातैः संभग्ने तरुपर्वते ॥

52.3

लोके च संहृते सर्वे महदुल्कानिबर्हणे
शुष्केषु सर्वतोयेषु सरःसु च सरित्सु च ॥

52.4

ततः संवर्तको वह्निर् वायुना सह भो द्विजाः
लोकं तु प्राविशत् सर्वम् आदित्यैर् उपशोभितम् ॥

52.5

पश्चात् स पृथिवीं भित्त्वा प्रविश्य च रसातलम्
देवदानवयक्षाणां भयं जनयते महत् ॥

52.6

निर्दहन् नागलोकं च यच् च किंचित् क्षिताव् इह
अधस्तान् मुनिशार्दूलाः सर्वं नाशयते क्षणात् ॥

52.7

ततो योजनविंशानां सहस्राणि शतानि च
निर्दहत्य् आशुगो वायुः स च संवर्तको ऽनलः ॥

52.8

सदेवासुरगन्धर्वं सयक्षोरगराक्षसम्
ततो दहति संदीप्तः सर्वम् एव जगत् प्रभुः ॥

52.9

प्रदीप्तो ऽसौ महारौद्रः कल्पाग्निर् इति संश्रुतः
महाज्वालो महार्चिष्मान् संप्रदीप्तमहास्वनः ॥

52.10

सूर्यकोटिप्रतीकाशो ज्वलन्न् इव स तेजसा
त्रैलोक्यं चादहत् तूर्णं ससुरासुरमानुषम् ॥

52.11

एवंविधे महाघोरे महाप्रलयदारुणे
ऋषिः परमधर्मात्मा ध्यानयोगपरो ऽभवत् ॥

52.12

एकः संतिष्ठते विप्रा मार्कण्डेयेति विश्रुतः
मोहपाशैर् निबद्धो ऽसौ क्षुत्तृष्णाकुलितेन्द्रियाः ॥

52.13

स दृष्ट्वा तं महावह्निं शुष्ककण्ठौष्ठतालुकः
तृष्णार्तः प्रस्खलन् विप्रास् तदासौ भयविह्वलः ॥

52.14

बभ्राम पृथिवीं सर्वां कांदिशीको विचेतनः
त्रातारं नाधिगच्छन् वै इतश् चेतश् च धावति ॥

52.15

न लेभे च तदा शर्म यत्र विश्राम्यता द्विजाः
करोमि किं न जानामि यस्याहं शरणं व्रजे ॥

52.16

कथं पश्यामि तं देवं पुरुषेशं सनातनम्
इति संचिन्तयन् देवम् एकाग्रेण सनातनम् ॥

52.17

प्राप्तवांस् तत् पदं दिव्यं महाप्रलयकारणम्
पुरुषेशम् इति ख्यातं वटराजं सनातनम् ॥

52.18

त्वरायुक्तो मुनिश् चासौ न्यग्रोधस्यान्तिकं ययौ
आसाद्य तं मुनिश्रेष्ठास् तस्य मूले समाविशत् ॥

52.19

न कालाग्निभयं तत्र न चाङ्गारप्रवर्षणम्
न संवर्तागमस् तत्र न च वज्राशनिस् तथा ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc