भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 51

51.1

नाहं देवो न यक्षो वा न दैत्यो न च देवराट्
न ब्रह्मा न च रुद्रो ऽहं विद्धि मां पुरुषोत्तमम् ॥

51.2

अर्तिहा सर्वलोकानाम् अनन्तबलपौरुषः
आराधनीयो भूतानाम् अन्तो यस्य न विद्यते ॥

51.3

पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते
यम् आहुर् ज्ञानगम्येति वासुदेवेति योगिनः ॥

51.4

अहम् एव स्वयं ब्रह्मा अहं विष्णुः शिवो ऽप्य् अहम्
इन्द्रो ऽहं देवराजश् च जगत्संयमनो यमः ॥

51.5

पृथिव्यादीनि भूतानि त्रेताग्निर् हुतभुङ् नृप
वरुणो ऽपां पतिश् चाहं धरित्री च महीधरः ॥

51.6

यत् किंचिद् वाङ्मयं लोके जगत् स्थावरजङ्गमम्
चराचरं च यद् विश्वं मदन्यन् नास्ति किंचन ॥

51.7

प्रीतो ऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत
यद् इष्टं तत् प्रयच्छामि हृदि यत् ते व्यवस्थितम् ॥

51.8

मद्दर्शनम् अपुण्यानां स्वप्नान्ते ऽपि न जायते
त्वं पुनर् दृढभक्तित्वात् प्रत्यक्षं दृष्टवान् असि ॥

51.9

श्रुत्वैवं वासुदेवस्य वचनं तस्य भो द्विजाः
रोमाञ्चिततनुर् भूत्वा इदं स्तोत्रं जगौ नृपः ॥

51.10

श्रियः कान्त नमस् ते ऽस्तु श्रीपते पीतवाससे
श्रीद श्रीश श्रीनिवास नमस् ते श्रीनिकेतन ॥

51.11

आद्यं पुरुषम् ईशानं सर्वेशं सर्वतोमुखम्
निष्कलं परमं देवं प्रणतो ऽस्मि सनातनम् ॥

51.12

शब्दातीतं गुणातीतं भावाभावविवर्जितम्
निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम् ॥

51.13

प्रावृण्मेघप्रतीकाशं गोब्राह्मणहिते रतम्
सर्वेषाम् एव गोप्तारं व्यापिनं सर्वभाविनम् ॥

51.14

शङ्खचक्रधरं देवं गदामुशलधारिणम्
नमस्ये वरदं देवं नीलोत्पलदलच्छविम् ॥

51.15

नागपर्यङ्कशयनं क्षीरोदार्णवशायिनम्
नमस्ये ऽहं हृषीकेशं सर्वपापहरं हरिम् ॥

51.16

पुनस् त्वां देवदेवेशं नमस्ये वरदं विभुम्
सर्वलोकेश्वरं विष्णुं मोक्षकारणम् अव्ययम् ॥

51.17

एवं स्तुत्वा तु तं देवं प्रणिपत्य कृताञ्जलिः
उवाच प्रणतो भूत्वा निपत्य धरणीतले ॥

51.18

प्रीतो ऽसि यदि मे नाथ वृणोमि वरम् उत्तमम्
देवासुराः सगन्धर्वा यक्षरक्षोमहोरगाः ॥

51.19

सिद्धविद्याधराः साध्याः किंनरा गुह्यकास् तथा
ऋषयो ये महाभागा नानाशास्त्रविशारदाः ॥

51.20

परिव्राड्योगयुक्ताश् च वेदतत्त्वार्थचिन्तकाः
मोक्षमार्गविदो ये ऽन्ये ध्यायन्ति परमं पदम् ॥

51.21

निर्गुणं निर्मलं शान्तं यत् पश्यन्ति मनीषिनः
तत् पदं गन्तुम् इच्छामि त्वत्प्रसादात् सुदुर्लभम् ॥

51.22

सर्वं भवतु भद्रं ते यथेष्टं सर्वम् आप्नुहि
भविष्यति यथाकामं मत्प्रसादान् न संशयः ॥

51.23

दश वर्षसहस्राणि तथा नव शतानि च
अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम ॥

51.24

प्रयास्यसि पदं दिव्यं दुर्लभं यत् सुरासुरैः
पूर्णमनोरथं शान्तं गुह्यम् अव्यक्तम् अव्ययम् ॥

51.25

परात् परतरं सूक्ष्मं निर्लेपं निष्कलं ध्रुवम्
चिन्ताशोकविनिर्मुक्तं क्रियाकारणवर्जितम् ॥

51.26

तद् अहं दर्शयिष्यामि ज्ञेयाख्यं परमं पदम्
यं प्राप्य परमानन्दं प्राप्स्यसि परमां गतिम् ॥

51.27

कीर्तिश् च तव राजेन्द्र भवत्य् अत्र महीतले
यावद् घना नभो यावद् यावच् चन्द्रार्कतारकम् ॥

51.28

यावत् समुद्राः सप्तैव यावन् मेर्वादिपर्वताः
तिष्ठन्ति दिवि देवाश् च तावत् सर्वत्र चाव्यया ॥

51.29

इन्द्रद्युम्नसरो नाम तीर्थं यज्ञाङ्गसंभवम्
यत्र स्नात्वा सकृल् लोकः शक्रलोकम् अवाप्नुयात् ॥

51.30

दापयिष्यति यः पिण्डांस् तटे ऽस्मिन् सरसः शुभे
कुलैकविंशम् उद्धृत्य शक्रलोकं गमिष्यति ॥

51.31

पूज्यमानो ऽप्सरोभिश् च गन्धर्वैर् गीतनिस्वनैः
विमानेन वसेत् तत्र यावद् इन्द्राश् चतुर्दश ॥

51.32

सरसो दक्षिणे भागे नैरृत्यां तु समाश्रिते
न्यग्रोधस् तिष्ठते तत्र तत्समीपे तु मण्डपः ॥

51.33

केतकीवनसंछन्नो नानापादपसंकुलः
नारिकेलैर् असंख्येयैश् चम्पकैर् बकुलावृतैः ॥

51.34

अशोकैः कर्णिकारैश् च पुंनागैर् नागकेसरैः
पाटलाम्रातसरलैश् चन्दनैर् देवदारुभिः ॥

51.35

न्यग्रोधाश्वत्थखदिरैः पारिजातैः सहार्जुनैः
हिन्तालैश् चैव तालैश् च शिंशपैर् बदरैस् तथा ॥

51.36

करञ्जैर् लकुचैः प्लक्षैः पनसैर् बिल्वधातुकैः
अन्यैर् बहुविधैर् वृक्षैः शोभितः समलंकृतः ॥

51.37

आषाढस्य सिते पक्षे पञ्चम्यां पितृदैवते
ऋक्षे नेष्यन्ति नस् तत्र नीत्वा सप्त दिनानि वै ॥

51.38

मण्डपे स्थापयिष्यन्ति सुवेश्याभिः सुशोभनैः
क्रीडाविशेषबहुलैर् नृत्यगीतमनोहरैः ॥

51.39

चामरैः स्वर्णदण्डैश् च व्यजनै रत्नभूषणैः
वीजयन्तस् तथास्मभ्यं स्थापयिष्यन्ति मङ्गलाः ॥

51.40

ब्रह्मचारी यतिश् चैव स्नातकाश् च द्विजोत्तमाः
वानप्रस्था गृहस्थाश् च सिद्धाश् चान्ये च ब्राह्मणाः ॥

51.41

नानावर्णपदैः स्तोत्रैर् ऋग्यजुःसामनिस्वनैः
करिष्यन्ति स्तुतिं राजन् रामकेशवयोः पुनः ॥

51.42

ततः स्तुत्वा च दृष्ट्वा च संप्रणम्य च भक्तितः
नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत् ॥

51.43

पूज्यमानो ऽप्सरोभिश् च गन्धर्वैर् गीतनिस्वनैः
हरेर् अनुचरस् तत्र क्रीडते केशवेन वै ॥

51.44

विमानेनार्कवर्णेन रत्नहारेण भ्राजता
सर्वकामैर् महाभोगैस् तिष्ठते भुवनोत्तमे ॥

51.45

तपःक्षयादिहागत्य मनुष्यो ब्राह्मणो भवेत्
कोटीधनपतिः श्रीमांश् चतुर्वेदी भवेद् ध्रुवम् ॥

51.46

एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः
जगामादर्शनं विप्राः सहितो विश्वकर्मणा ॥

51.47

स तु राजा तदा हृष्टो रोमाञ्चिततनूरुहः
कृतकृत्यम् इवात्मानं मेने संदर्शनाद् धरेः ॥

51.48

ततः कृष्णं च रामं च सुभद्रां च वरप्रदाम्
रथैर् विमानसंकाशैर् मणिकाञ्चनचित्रितैः ॥

51.49

संवाह्य तास् तदा राजा महामङ्गलनिःस्वनैः
आनयाम् आस मतिमान् सामात्यः सपुरोहितः ॥

51.50

नानावादित्रनिर्घोषैर् नानावेदस्वनैः शुभैः
संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे ॥

51.51

ततः शुभतिथौ काले नक्षत्रे शुभलक्षणे
प्रतिष्ठां कारयाम् आस सुमुहूर्ते द्विजैः सह ॥

51.52

यथोक्तेन विधानेन विधिदृष्टेन कर्मणा
आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः ॥

51.53

आचार्याय तदा दत्त्वा दक्षिणां विधिवत् प्रभुः
ऋत्विग्भ्यश् च विधानेन तथान्येभ्यो धनं ददौ ॥

51.54

कृत्वा प्रतिष्ठां विधिवत् प्रासादे भवनोत्तमे
स्थापयाम् आस तान् सर्वान् विधिदृष्टेन कर्मणा ॥

51.55

ततः संपूज्य विधिना नानापुष्पैः सुगन्धिभिः
सुवर्णमणिमुक्ताद्यैर् नानावस्त्रैः सुशोभनैः ॥

51.56

रत्नैश् च विविधैर् दिव्यैर् आसनैर् ग्रामपत्तनैः
ददौ चान्यान् स विषयान् पुराणि नगराणि च ॥

51.57

एवं बहुविधं दत्त्वा राज्यं कृत्वा यथोचितम्
इष्ट्वा च विविधैर् यज्ञैर् दत्त्वा दानान्य् अनेकशः ॥

51.58

कृतकृत्यस् ततो राजा त्यक्तसर्वपरिग्रहः
जगाम परमं स्थानं तद् विष्णोः परमं पदम् ॥

51.59

एवं मया मुनिश्रेष्ठाः कथितो वो नृपोत्तमः
क्षेत्रस्य चैव माहात्म्यं किम् अन्यच् छ्रोतुम् इच्छथ ॥

51.60

श्रुत्वैवं वचनं तस्य ब्रह्मणो ऽव्यक्तजन्मनः
आश्चर्यं मेनिरे विप्राः पप्रच्छुश् च पुनर् मुदा ॥

51.61

कस्मिन् काले सुरश्रेष्ठ गन्तव्यं पुरुषोत्तमम्
विधिना केन कर्तव्यं पञ्चतीर्थम् इति प्रभो ॥

51.62

एकैकस्य च तीर्थस्य स्नानदानस्य यत् फलम्
देवताप्रेक्षणे चैव ब्रूहि सर्वं पृथक् पृथक् ॥

51.63

निराहारः कुरुक्षेत्रे पादेनैकेन यस् तपेत्
जितेन्द्रियो जितक्रोधः सप्तसंवत्सरायुतम् ॥

51.64

दृष्ट्वा सदा ज्येष्ठशुक्ल द्वादश्यां पुरुषोत्तमम्
कृतोपवासः प्राप्नोति ततो ऽधिकतरं फलम् ॥

51.65

तस्माज् ज्येष्ठे मुनिश्रेष्ठाः प्रयत्नेन सुसंयतैः
स्वर्गलोकेप्सुविप्राद्यैर् द्रष्टव्यः पुरुषोत्तमः ॥

51.66

पञ्चतीर्थं तु विधिवत् कृत्वा ज्येष्ठे नरोत्तमः
शुक्लपक्षस्य द्वादश्यां पश्येत् तं पुरुषोत्तमम् ॥

51.67

ये पश्यन्त्य् अव्ययं देवं द्वादश्यां पुरुषोत्तमम्
ते विष्णुलोकम् आसाद्य न च्यवन्ते कदाचन ॥

51.68

तस्माज् ज्येष्ठे प्रयत्नेन गन्तव्यं भो द्विजोत्तमाः
कृत्वा तस्मिन् पञ्चतीर्थं द्रष्टव्यः पुरुषोत्तमः ॥

51.69

सुदूरस्थो ऽपि यो भक्त्या कीर्तयेत् पुरुषोत्तमम्
अहन्य् अहनि शुद्धात्मा सो ऽपि विष्णुपुरं व्रजेत् ॥

51.70

यात्रां करोति कृष्णस्य श्रद्धया यः समाहितः
सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन् नरः ॥

51.71

चक्रं दृष्ट्वा हरेर् दूरात् प्रासादोपरि संस्थितम्
सहसा मुच्यते पापान् नरो भक्त्या प्रणम्य तत् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc