ब्रह्म पुराण · अध्याय 50
स्तुत्वैवं मुनिशार्दूलाः प्रणम्य च सनातनम्
वासुदेवं जगन्नाथं सर्वकामफलप्रदम् ॥
चिन्ताविष्टो महीपालः कुशान् आस्तीर्य भूतले
वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले ॥
कथं प्रत्यक्षम् अभ्येति देवदेवो जनार्दनः
मम चार्तिहरो देवस् तदासाव् इति चिन्तयन् ॥
सुप्तस्य तस्य नृपतेर् वासुदेवो जगद्गुरुः
आत्मानं दर्शयाम् आस शङ्खचक्रगदाभृतम् ॥
स ददर्श तु सप्रेम देवदेवं जगद्गुरुम्
शङ्खचक्रधरं देवं गदाचक्रोग्रपाणिनम् ॥
शार्ङ्गबाणधरं देवं ज्वलत्तेजोतिमण्डलम्
युगान्तादित्यवर्णाभं नीलवैदूर्यसंनिभम् ॥
सुपर्णांसे तम् आसीनं षोडशार्धभुजं शुभम्
स चास्मै प्राब्रवीद् धीराः साधु राजन् महामते ॥
क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया
तुष्टो ऽस्मि ते महीपाल वृथा किम् अनुशोचसि ॥
यद् अत्र प्रतिमा राजञ् जगत्पूज्या सनातनी
यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते ॥
गतायाम् अद्य शर्वर्यां निर्मले भास्करोदिते
सागरस्य जलस्यान्ते नानाद्रुमविभूषिते ॥
जलं तथैव वेलायां दृश्यते तत्र वै महत्
लवणस्योदधे राजंस् तरङ्गैः समभिप्लुतम् ॥
कूलान्ते हि महावृक्षः स्थितः स्थलजलेषु च
वेलाभिर् हन्यमानश् च न चासौ कम्पते द्रुमः ॥
परशुम् आदाय हस्तेन ऊर्मेर् अन्तस् ततो व्रज
एकाकी विहरन् राजन् स त्वं पश्यसि पादपम् ॥
ईदृक् चिह्नं समालोक्य छेदय त्वम् अशङ्कितः
छेद्यमानं तु तं वृक्षं प्रातर् अद्भुतदर्शनम् ॥
दृष्ट्वा तेनैव संचिन्त्य ततो भूपाल दर्शनात्
कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम् ॥
एवम् उक्त्वा महाभागो जगामादर्शनं हरिः
स चापि स्वप्नम् आलोक्य परं विस्मयम् आगतः ॥
तां निशां स समुद्वीक्ष्य स्थितस् तद्गतमानसः
व्याहरन् वैष्णवान् मन्त्रान् सूक्तं चैव तदात्मकम् ॥
प्रगतायां रजन्यां तु उत्थितो नान्यमानसः
स स्नात्वा सागरे सम्यग् यथावद् विधिना ततः ॥
दत्त्वा दानं च विप्रेभ्यो ग्रामांश् च नगराणि च
कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः ॥
न चाश्वो न पदातिश् च न गजो न च सारथिः
एकाकी स महावेलां प्रविवेश महीपतिः ॥
तं ददर्श महावृक्षं तेजस्वन्तं महाद्रुमम्
महातिगमहारोहं पुण्यं विपुलम् एव च ॥
महोत्सेधं महाकायं प्रसुप्तं च जलान्तिके
सान्द्रमाञ्जिष्ठवर्णाभं नामजातिविवर्जितम् ॥
नरनाथस् तदा विप्रा द्रुमं दृष्ट्वा मुदान्वितः
परशुना शातयाम् आस निशितेन दृढेन च ॥
द्वैधीकर्तुमनास् तत्र बभूवेन्द्रसखः स च
निरीक्ष्यमाणे काष्ठे तु बभूवाद्भुतदर्शनम् ॥
विश्वकर्मा च विष्णुश् च विप्ररूपधराव् उभौ
आजग्मतुर् महाभागौ तदा तुल्याग्रजन्मनौ ॥
ज्वलमानौ स्वतेजोभिर् दिव्यस्रगनुलेपनौ
अथ तौ तं समागम्य नृपम् इन्द्रसखं तदा ॥
ताव् ऊचतुर् महाराज किम् अत्र त्वं करिष्यसि
किमर्थं च महाबाहो शातितश् च वनस्पतिः ॥
असहायो महादुर्गे निर्जने गहने वने
महासिन्धुतटे चैव कथं वै शातितो द्रुमः ॥
तयोः श्रुत्वा वचो विप्राः स तु राजा मुदान्वितः
बभाषे वचनं ताभ्यां मृदुलं मधुरं तथा ॥
दृष्ट्वा तौ ब्राह्मणौ तत्र चन्द्रसूर्याव् इवागतौ
नमस्कृत्य जगन्नाथाव् अवाङ्मुखम् अवस्थितः ॥
देवदेवम् अनाद्यन्तम् अनन्तं जगतां पतिम्
आराधयितुं प्रतिमां करोमीति मतिर् मम ॥
अहं स देवदेवेन परमेण महात्मना
स्वप्नान्ते च समुद्दिष्टो भवद्भ्यां श्रावितं मया ॥
राज्ञस् तु वचनं श्रुत्वा देवेन्द्रप्रतिमस्य च
प्रहस्य तस्मै विश्वेशस् तुष्टो वचनम् अब्रवीत् ॥
साधु साधु महीपाल यद् एतन् मतम् उत्तमम्
संसारसागरे घोरे कदलीदलसंनिभे ॥
निःसारे दुःखबहुले कामक्रोधसमाकुले
इन्द्रियावर्तकलिले दुस्तरे रोमहर्षणे ॥
नानाव्याधिशतावर्ते जलबुद्बुदसंनिभे
यतस् ते मतिर् उत्पन्ना विष्णोर् आराधनाय वै ॥
धन्यस् त्वं नृपशार्दूल गुणैः सर्वैर् अलंकृतः
सप्रजा पृथिवी धन्या सशैलवनकानना ॥
सपुरग्रामनगरा चतुर्वर्णैर् अलंकृता
यत्र त्वं नृपशार्दूल प्रजाः पालयिता प्रभुः ॥
एह्य् एहि सुमहाभाग द्रुमे ऽस्मिन् सुखशीतले
आवाभ्यां सह तिष्ठ त्वं कथाभिर् धर्मसंश्रितः ॥
अयं मम सहायस् तु आगतः शिल्पिनां वरः
विश्वकर्मसमः साक्षान् निपुणः सर्वकर्मसु
मयोद्दिष्टां तु प्रतिमां करोत्य् एष तटं त्यज ॥
श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः
सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः ॥
तस्थौ स नृपतिश्रेष्ठो वृक्षच्छाये सुशीतले
ततस् तस्मै स विश्वात्मा ददाव् आज्ञां द्विजाकृतिः ॥
शिल्पिमुख्याय विप्रेन्द्राः कुरुष्व प्रतिमा इति
कृष्णरूपं परं शान्तं पद्मपत्त्रायतेक्षणम् ॥
श्रीवत्सकौस्तुभधरं शङ्खचक्रगदाधरम्
गौराङ्गं क्षीरवर्णाभं द्वितीयं स्वस्तिकाङ्कितम् ॥
लाङ्गलास्त्रधरं देवम् अनन्ताख्यं महाबलम्
देवदानवगन्धर्व यक्षविद्याधरोरगैः ॥
न विज्ञातो हि तस्यान्तस् तेनानन्त इति स्मृतः
भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनाम् ॥
तृतीयां वै सुभद्रां च सर्वलक्षणलक्षिताम् ॥
श्रुत्वैतद् वचनं तस्य विश्वकर्मा सुकर्मकृत्
तत्क्षणात् कारयाम् आस प्रतिमाः शुभलक्षणाः ॥
प्रथमं शुक्लवर्णाभं शारदेन्दुसमप्रभम्
आरक्ताक्षं महाकायं स्फटाविकटमस्तकम् ॥
नीलाम्बरधरं चोग्रं बलं बलमदोद्धतम्
कुण्डलैकधरं दिव्यं गदामुशलधारिणम् ॥
द्वितीयं पुण्डरीकाक्षं नीलजीमूतसंनिभम्
अतसीपुष्पसंकाशं पद्मपत्त्रायतेक्षणम् ॥
पीतवाससम् अत्युग्रं शुभं श्रीवत्सलक्षणम्
चक्रपूर्णकरं दिव्यं सर्वपापहरं हरिम् ॥
तृतीयां स्वर्णवर्णाभां पद्मपत्त्रायतेक्षणाम्
विचित्रवस्त्रसंछन्नां हारकेयूरभूषिताम् ॥
विचित्राभरणोपेतां रत्नहारावलम्बिताम्
पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे ॥
स तु राजाद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः
दिव्यवस्त्रयुगच्छन्ना नानारत्नैर् अलंकृताः ॥
सर्वलक्षणसंपन्नाः प्रतिमाः सुमनोहराः
विस्मयं परमं गत्वा इदं वचनम् अब्रवीत् ॥
किं देवौ समनुप्राप्तौ द्विजरूपधराव् उभौ
उभौ चाद्भुतकर्माणौ देववृत्ताव् अमानुषौ ॥
देवौ वा मानुषौ वापि यक्षविद्याधरौ युवाम्
किं नु ब्रह्महृषीकेशौ किं वसू किम् उताश्विनौ ॥
न वेद्मि सत्यसद्भावौ मायारूपेण संस्थितौ
युवां गतो ऽस्मि शरणम् आत्मा तु मे प्रकाश्यताम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0