भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 49

49.1

वासुदेव नमस् ते ऽस्तु नमस् ते मोक्षकारण
त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ॥

49.2

निर्मलाम्बरसंकाश नमस् ते पुरुषोत्तम
संकर्षण नमस् ते ऽस्तु त्राहि मां धरणीधर ॥

49.3

नमस् ते हेमगर्भाभ नमस् ते मकरध्वज
रतिकान्त नमस् ते ऽस्तु त्राहि मां संवरान्तक ॥

49.4

नमस् ते ऽञ्जनसंकाश नमस् ते भक्तवत्सल
अनिरुद्ध नमस् ते ऽस्तु त्राहि मां वरदो भव ॥

49.5

नमस् ते विबुधावास नमस् ते विबुधप्रिय
नारायण नमस् ते ऽस्तु त्राहि मां शरणागतम् ॥

49.6

नमस् ते बलिनां श्रेष्ठ नमस् ते लाङ्गलायुध
चतुर्मुख जगद्धाम त्राहि मां प्रपितामह ॥

49.7

नमस् ते नीलमेघाभ नमस् ते त्रिदशार्चित
त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे ॥

49.8

प्रलयानलसंकाश नमस् ते दितिजान्तक
नरसिंह महावीर्य त्राहि मां दीप्तलोचन ॥

49.9

यथा रसातलाद् उर्वी त्वया दंष्ट्रोद्धृता पुरा
तथा महावराहस् त्वं त्राहि मां दुःखसागरात् ॥

49.10

तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया
तवेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः ॥

49.11

अङ्गानि तव देवेश गरुत्माद्यास् तथा प्रभो
दिक्पालाः सायुधाश् चैव केशवाद्यास् तथाच्युत ॥

49.12

ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः
ते ऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन ॥

49.13

मयार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः
प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ॥

49.14

भेदास् ते कीर्तिता ये तु हरे संकर्षणादयः
तव पूजार्थसंभूतास् ततस् त्वयि समाश्रिताः ॥

49.15

न भेदस् तव देवेश विद्यते परमार्थतः
विविधं तव यद् रूपम् उक्तं तद् उपचारतः ॥

49.16

अद्वैतं त्वां कथं द्वैतं वक्तुं शक्नोति मानवः
एकस् त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः ॥

49.17

परमं तव यद् रूपं भावाभावविवर्जितम्
निर्लेपं निर्गुणं श्रेष्ठं कूटस्थम् अचलं ध्रुवम् ॥

49.18

सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम्
तद् देवाश् च न जानन्ति कथं जानाम्य् अहं प्रभो ॥

49.19

अपरं तव यद् रूपं पीतवस्त्रं चतुर्भुजम्
शङ्खचक्रगदापाणि मुकुटाङ्गदधारिणम् ॥

49.20

श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम्
तद् अर्चयन्ति विबुधा ये चान्ये तव संश्रयाः ॥

49.21

देवदेव सुरश्रेष्ठ भक्तानाम् अभयप्रद
त्राहि मां पद्मपत्त्राक्ष मग्नं विषयसागरे ॥

49.22

नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे
त्वाम् ऋते कमलाकान्त प्रसीद मधुसूदन ॥

49.23

जराव्याधिशतैर् युक्तो नानादुःखैर् निपीडितः
हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः ॥

49.24

पतितो ऽहं महारौद्रे घोरे संसारसागरे
विषमोदकदुष्पारे रागद्वेषझषाकुले ॥

49.25

इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसंकुले
निराश्रये निरालम्बे निःसारे ऽत्यन्तचञ्चले ॥

49.26

मायया मोहितस् तत्र भ्रमामि सुचिरं प्रभो
नानाजातिसहस्रेषु जायमानः पुनः पुनः ॥

49.27

मया जन्मान्य् अनेकानि सहस्राण्य् अयुतानि च
विविधान्य् अनुभूतानि संसारे ऽस्मिञ् जनार्दन ॥

49.28

वेदाः साङ्गा मयाधीताः शास्त्राणि विविधानि च
इतिहासपुराणानि तथा शिल्पान्य् अनेकशः ॥

49.29

असंतोषाश् च संतोषाः संचयापचया व्ययाः
मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः ॥

49.30

भार्यारिमित्रबन्धूनां वियोगाः संगमास् तथा
पितरो विविधा दृष्टा मातरश् च तथा मया ॥

49.31

दुःखानि चानुभूतानि यानि सौख्यान्य् अनेकशः
प्राप्ताश् च बान्धवाः पुत्रा भ्रातरो ज्ञातयस् तथा ॥

49.32

मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छले
गर्भवासे महादुःखम् अनुभूतं तथा प्रभो ॥

49.33

दुःखानि यान्य् अनेकानि बाल्ययौवनगोचरे
वार्धके च हृषीकेश तानि प्राप्तानि वै मया ॥

49.34

मरणे यानि दुःखानि यममार्गे यमालये
मया तान्य् अनुभूतानि नरके यातनास् तथा ॥

49.35

कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम्
महिषोष्ट्रगवां चैव तथान्येषां वनौकसाम् ॥

49.36

द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु
धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम् ॥

49.37

नृपाणां नृपभृत्यानां तथान्येषां च देहिनाम्
गृहेषु तेषाम् उत्पन्नो देव चाहं पुनः पुनः ॥

49.38

गतो ऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम्
दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः ॥

49.39

हतो मया हताश् चान्ये घातितो घातितास् तथा
दत्तं ममान्यैर् अन्येभ्यो मया दत्तम् अनेकशः ॥

49.40

पितृमातृसुहृद्भ्रातृ कलत्राणां कृतेन च
धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम् ॥

49.41

उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन
देवतिर्यङ्मनुष्येषु स्थावरेषु चरेषु च ॥

49.42

न विद्यते तथा स्थानं यत्राहं न गतः प्रभो
कदा मे नरके वासः कदा स्वर्गे जगत्पते ॥

49.43

कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च
जलयन्त्रे यथा चक्रे घटी रज्जुनिबन्धना ॥

49.44

याति चोर्ध्वम् अधश् चैव कदा मध्ये च तिष्ठति
तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमावृतः ॥

49.45

अधश् चोर्ध्वं तथा मध्ये भ्रमन् गच्छामि योगतः
एवं संसारचक्रे ऽस्मिन् भैरवे रोमहर्षणे ॥

49.46

भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित्
न जाने किं करोम्य् अद्य हरे व्याकुलितेन्द्रियः ॥

49.47

शोकतृष्णाभिभूतो ऽहं कांदिशीको विचेतनः
इदानीं त्वाम् अहं देव विह्वलः शरणं गतः ॥

49.48

त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे
कृपां कुरु जगन्नाथ भक्तं मां यदि मन्यसे ॥

49.49

त्वदृते नास्ति मे बन्धुर् यो ऽसौ चिन्तां करिष्यति
देव त्वां नाथम् आसाद्य न भयं मे ऽस्ति कुत्रचित् ॥

49.50

जीविते मरणे चैव योगक्षेमे ऽथवा प्रभो
ये तु त्वां विधिवद् देव नार्चयन्ति नराधमाः ॥

49.51

सुगतिस् तु कथं तेषां भवेत् संसारबन्धनात्
किं तेषां कुलशीलेन विद्यया जीवितेन च ॥

49.52

येषां न जायते भक्तिर् जगद्धातरि केशवे
प्रकृतिं त्व् आसुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः ॥

49.53

पतन्ति नरके घोरे जायमानाः पुनः पुनः
न तेषां निष्कृतिस् तस्माद् विद्यते नरकार्णवात् ॥

49.54

ये दूषयन्ति दुर्वृत्तास् त्वां देव पुरुषाधमाः
यत्र यत्र भवेज् जन्म मम कर्मनिबन्धनात् ॥

49.55

तत्र तत्र हरे भक्तिस् त्वयि चास्तु दृढा सदा
आराध्य त्वां सुरा दैत्या नराश् चान्ये ऽपि संयताः ॥

49.56

अवापुः परमां सिद्धिं कस् त्वां देव न पूजयेत्
न शक्नुवन्ति ब्रह्माद्याः स्तोतुं त्वां त्रिदशा हरे ॥

49.57

कथं मानुषबुद्ध्याहं स्तौमि त्वां प्रकृतेः परम्
तथा चाज्ञानभावेन संस्तुतो ऽसि मया प्रभो ॥

49.58

तत् क्षमस्वापराधं मे यदि ते ऽस्ति दया मयि
कृतापराधे ऽपि हरे क्षमां कुर्वन्ति साधवः ॥

49.59

तस्मात् प्रसीद देवेश भक्तस्नेहं समाश्रितः
स्तुतो ऽसि यन् मया देव भक्तिभावेन चेतसा
साङ्गं भवतु तत् सर्वं वासुदेव नमो ऽस्तु ते ॥

49.60

इत्थं स्तुतस् तदा तेन प्रसन्नो गरुडध्वजः
ददौ तस्मै मुनिश्रेष्ठाः सकलं मनसेप्सितम् ॥

49.61

यः संपूज्य जगन्नाथं प्रत्यहं स्तौति मानवः
स्तोत्रेणानेन मतिमान् स मोक्षं लभते ध्रुवम् ॥

49.62

त्रिसंध्यं यो जपेद् विद्वान् इदं स्तोत्रवरं शुचिः
धर्मं चार्थं च कामं च मोक्षं च लभते नरः ॥

49.63

यः पठेच् छृणुयाद् वापि श्रावयेद् वा समाहितः
स लोकं शाश्वतं विष्णोर् याति निर्धूतकल्मषः ॥

49.64

धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम्
गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्यचित् ॥

49.65

न नास्तिकाय मूर्खाय न कृतघ्नाय मानिने
न दुष्टमतये दद्यान् नाभक्ताय कदाचन ॥

49.66

दातव्यं भक्तियुक्ताय गुणशीलान्विताय च
विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशालिने ॥

49.67

इदं समस्ताघविनाशहेतुः कारुण्यसंज्ञं सुखमोक्षदं च
अशेषवाञ्छाफलदं वरिष्ठं स्तोत्रं मयोक्तं पुरुषोत्तमस्य

49.68

ये तं सुसूक्ष्मं विमला मुरारिं ध्यायन्ति नित्यं पुरुषं पुराणम्
ते मुक्तिभाजः प्रविशन्ति विष्णुं मन्त्रैर् यथाज्यं हुतम् अध्वराग्नौ

49.69

एकः स देवो भवदुःखहन्ता परः परेषां न ततो ऽस्ति चान्यत्
द्रष्टा स पाता स तु नाशकर्ता विष्णुः समस्ताखिलसारभूतः

49.70

किं विद्यया किं स्वगुणैश् च तेषां यज्ञैश् च दानैश् च तपोभिर् उग्रैः
येषां न भक्तिर् भवतीह कृष्णे जगद्गुरौ मोक्षसुखप्रदे च

49.71

लोके स धन्यः स शुचिः स विद्वान् मखैस् तपोभिः स गुणैर् वरिष्ठः
ज्ञाता स दाता स तु सत्यवक्ता यस्यास्ति भक्तिः पुरुषोत्तमाख्ये

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc