ब्रह्म पुराण · अध्याय 46
श्रोतुम् इच्छामहे देव कथाशेषं महीपतेः
तस्मिन् क्षेत्रवरे गत्वा किं चकार नराधिपः ॥
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः
क्षेत्रसंदर्शनं चैव कृत्यं तस्य च भूपतेः ॥
गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते
ददर्श रमणीयानि स्थानानि सरितस् तथा ॥
नदी तत्र महापुण्या विन्ध्यपादविनिर्गता
स्वित्त्रोपलेति विख्याता सर्वपापहरा शिवा ॥
गङ्गातुल्या महास्रोता दक्षिणार्णवगामिनी
महानदीति नाम्ना सा पुण्यतोया सरिद्वरा ॥
दक्षिणस्योदधेर् गर्भं गतावर्तातिशोभिता
उभयोस् तटयोर् यस्या ग्रामाश् च नगराणि च ॥
दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः
हृष्टपुष्टजनाकीर्णा वस्त्रालंकारभूषिताः ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास् तत्र पृथक् पृथक्
स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः ॥
ताम्बूलपूर्णवदना मालादामविभूषिताः
वेदपूर्णमुखा विप्राः सषडङ्गपदक्रमाः ॥
अग्निहोत्ररताः केचित् केचिद् औपासनक्रियाः
सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः ॥
चत्वारे राजमार्गेषु वनेषूपवनेषु च
सभामण्डलहर्म्येषु देवतायतनेषु च ॥
इतिहासपुराणानि वेदाः साङ्गाः सुलक्षणाः
काव्यशास्त्रकथास् तत्र श्रूयन्ते च महाजनैः ॥
स्त्रियस् तद्देशवासिन्यो रूपयौवनगर्विताः
संपूर्णलक्षणोपेता विस्तीर्णश्रोणिमण्डलाः ॥
सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः
पीनोन्नतस्तनाः सर्वाः समृद्ध्या चारुदर्शनाः ॥
सौवर्णवलयाक्रान्ता दिव्यैर् वस्त्रैर् अलंकृताः
कदलीगर्भसंकाशाः पद्मकिञ्जल्कसप्रभाः ॥
बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः
सुमुखाश् चारुकेशाश् च हावभावावनामिताः ॥
काश्चित् पद्मपलाशाक्ष्यः काश्चिद् इन्दीवरेक्षणाः
विद्युद्विस्पष्टदशनास् तन्वङ्ग्यश् च तथापराः ॥
कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः
ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः ॥
कुण्डलै रत्नसंयुक्तैः कर्णपूरैर् मनोहरैः
देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः ॥
दिव्यगीतवरैर् धन्यैः क्रीडमाना वराङ्गनाः
वीणावेणुमृदङ्गैश् च पणवैश् चैव गोमुखैः ॥
शङ्खदुन्दुभिनिर्घोषैर् नानावाद्यैर् मनोहरैः
क्रीडन्त्यस् ताः सदा हृष्टा विलासिन्यः परस्परम् ॥
एवमादि तथानेक गीतवाद्यविशारदाः
दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः ॥
भिक्षुवैखानसैः सिद्धैः स्नातकैर् ब्रह्मचारिभिः
मन्त्रसिद्धैस् तपःसिद्धैर् यज्ञसिद्धैर् निषेवितम् ॥
इत्य् एवं ददृशे राजा क्षेत्रं परमशोभनम्
अत्रैवाराधयिष्यामि भगवन्तं सनातनम् ॥
जगद्गुरुं परं देवं परं पारं परं पदम्
सर्वेश्वरेश्वरं विष्णुम् अनन्तम् अपराजितम् ॥
इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम्
कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति ॥
प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता
न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा ॥
तथा यत्नं करिष्यामि यथा देवो जगत्पतिः
प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः ॥
यज्ञैर् दानैस् तपोभिश् च होमैर् ध्यानैस् तथार्चनैः
उपवासैश् च विधिवच् चरेयं व्रतम् उत्तमम् ॥
अनन्यमनसा चैव तन्मना नान्यमानसः
विष्ण्वायतनविन्यासे प्रारम्भं च करोम्य् अहम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0