भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 47

47.1

एवं स पृथिवीपालश् चिन्तयित्वा द्विजोत्तमाः
प्रासादार्थं हरेस् तत्र प्रारम्भम् अकरोत् तदा ॥

47.2

आनाय्य गणकान् सर्वान् आचार्याञ् शास्त्रपारगान्
भूमिं संशोध्य यत्नेन राजा तु परया मुदा ॥

47.3

ब्राह्मणैर् ज्ञानसंपन्नैर् वेदशास्त्रार्थपारगैः
अमात्यैर् मन्त्रिभिश् चैव वास्तुविद्याविशारदैः ॥

47.4

तैः सार्धं स समालोच्य सुमुहूर्ते शुभे दिने
सुचन्द्रतारासंयोगे ग्रहानुकूल्यसंयुते ॥

47.5

जयमङ्गलशब्दैश् च नानावाद्यैर् मनोहरैः
वेदाध्ययननिर्घोषैर् गीतैः सुमधुरस्वरैः ॥

47.6

पुष्पलाजाक्षतैर् गन्धैः पूर्णकुम्भैः सदीपकैः
ददाव् अर्घ्यं ततो राजा श्रद्धया सुसमाहितः ॥

47.7

दत्त्वैवम् अर्घ्यं विधिवद् आनाय्य स महीपतिः
कलिङ्गाधिपतिं शूरम् उत्कलाधिपतिं तथा
कोशलाधिपतिं चैव तान् उवाच तदा नृपः ॥

47.8

गच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः
गृहीत्वा शिल्पिमुख्यांश् च शिलाकर्मविशारदान् ॥

47.9

विन्ध्याचलं सुविस्तीर्णं बहुकन्दरशोभितम्
निरूप्य सर्वसानूनि च्छेदयित्वा शिलाः शुभाः
संवाह्यन्तां च शकटैर् नौकाभिर् मा विलम्बथ ॥

47.10

एवं गन्तुं समादिश्य तान् नृपान् स महीपतिः
पुनर् एवाब्रवीद् वाक्यं सामात्यान् सपुरोहितान् ॥

47.11

गच्छन्तु दूताः सर्वत्र ममाज्ञां प्रवदन्तु वै
यत्र तिष्ठन्ति राजानः पृथिव्यां तान् सुशीघ्रगाः ॥

47.12

हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः
गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात् ॥

47.13

एवं दूताः समाज्ञाता राज्ञा तेन महात्मना
गत्वा तदा नृपान् ऊचुर् वचनं तस्य भूपतेः ॥

47.14

श्रुत्वा तु ते तथा सर्वे दूतानां वचनं नृपाः
आजग्मुस् त्वरिताः सर्वे स्वसैन्यैः परिवारिताः ॥

47.15

ये नृपाः सर्वदिग्भागे ये च दक्षिणतः स्थिताः
पश्चिमायां स्थिता ये च उत्तरापथसंस्थिताः ॥

47.16

प्रत्यन्तवासिनो ये ऽपि ये च संनिधिवासिनः
पार्वतीयाश् च ये केचित् तथा द्वीपनिवासिनः ॥

47.17

रथैर् नागैः पदातैश् च वाजिभिर् धनविस्तरैः
संप्राप्ता बहुशो विप्राः श्रुत्वेन्द्रद्युम्नशासनम् ॥

47.18

तान् आगतान् नृपान् दृष्ट्वा सामात्यान् सपुरोहितान्
प्रोवाच राजा हृष्टात्मा कार्यम् उद्दिश्य सादरम् ॥

47.19

शृणुध्वं नृपशार्दूला यथा किंचिद् ब्रवीम्य् अहम्
अस्मिन् क्षेत्रवरे पुण्ये भुक्तिमुक्तिप्रदे शिवे ॥

47.20

हयमेधं महायज्ञं प्रासादं चैव वैष्णवम्
कथं शक्नोम्य् अहं कर्तुम् इति चिन्ताकुलं मनः ॥

47.21

भवद्भिः सुसहायैस् तु सर्वम् एतत् करोम्य् अहम्
यदि यूयं सहाया मे भवध्वं नृपसत्तमाः ॥

47.22

इत्य् एवं वदमानस्य राजराजस्य धीमतः
सर्वे प्रमुदिता हृष्टा भूपास् ते तस्य शासनात् ॥

47.23

ववृषुर् धनरत्नैश् च सुवर्णमणिमौक्तिकैः
कम्बलाजिनरत्नैश् च राङ्कवास्तरणैः शुभैः ॥

47.24

वज्रवैदूर्यमाणिक्यैः पद्मरागेन्द्रनीलकैः
गजैर् अश्वैर् धनैश् चान्यै रथैश् चैव करेणुभिः ॥

47.25

असंख्येयैर् बहुविधैर् द्रव्यैर् उच्चावचैस् तथा
शालिव्रीहियवैश् चैव माषमुद्गतिलैस् तथा ॥

47.26

सिद्धार्थचणकैश् चैव गोधूमैर् मसुरादिभिः
श्यामाकैर् मधुकैश् चैव नीवारैः सकुलत्थकैः ॥

47.27

अन्यैश् च विविधैर् धान्यैर् ग्राम्यारण्यैः सहस्रशः
बहुधान्यसहस्राणां तण्डुलानां च राशिभिः ॥

47.28

गव्यस्य हविषः कुम्भैः शतशो ऽथ सहस्रशः
तथान्यैर् विविधैर् द्रव्यैर् भक्ष्यभोज्यानुलेपनैः ॥

47.29

राजानः पूरयाम् आसुर् यत् किंचिद् द्रव्यसंभवैः
तान् दृष्ट्वा यज्ञसंभारान् सर्वसंपत्समन्वितान् ॥

47.30

यज्ञकर्मविदो विप्रान् वेदवेदाङ्गपारगान्
शास्त्रेषु निपुणान् दक्षान् कुशलान् सर्वकर्मसु ॥

47.31

ऋषींश् चैव महर्षींश् च देवर्षींश् चैव तापसान्
ब्रह्मचारिगृहस्थांश् च वानप्रस्थान् यतींस् तथा ॥

47.32

स्नातकान् ब्राह्मणांश् चान्यान् अग्निहोत्रे सदा स्थितान्
आचार्योपाध्यायवरान् स्वाध्यायतपसान्वितान् ॥

47.33

सदस्याञ् शास्त्रकुशलांस् तथान्यान् पावकान् बहून्
दृष्ट्वा तान् नृपतिः श्रीमान् उवाच स्वं पुरोहितम् ॥

47.34

ततः प्रयान्तु विद्वांसो ब्राह्मणा वेदपारगाः
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥

47.35

इत्य् उक्तः स तथा चक्रे वचनं तस्य भूपतेः
हृष्टः स मन्त्रिभिः सार्धं तदा राजपुरोहितः ॥

47.36

ततो ययौ पुरोधाश् च प्राज्ञः स्थपतिभिः सह
ब्राह्मणान् अग्रतः कृत्वा कुशलान् यज्ञकर्मणि ॥

47.37

तं देशं धीवरग्रामं सप्रतोलिविटङ्किनम्
कारयाम् आस विप्रो ऽसौ यज्ञवाटं यथाविधि ॥

47.38

प्रासादशतसंबाधं मणिप्रवरशोभितम्
इन्द्रसद्मनिभं रम्यं हेमरत्नविभूषितम् ॥

47.39

स्तम्भान् कनकचित्रांश् च तोरणानि बृहन्ति च
यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥

47.40

अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम्
कारयाम् आस धर्मात्मा तत्र तत्र यथाविधि ॥

47.41

ब्राह्मणानां च वैश्यानां नानादेशसमीयुषाम्
कारयाम् आस विधिवच् छालास् तत्राप्य् अनेकशः ॥

47.42

प्रियार्थं तस्य नृपतेर् आययुर् नृपसत्तमाः
रत्नान्य् अनेकान्य् आदाय स्त्रियश् चाययुर् उत्सवे ॥

47.43

तेषां निर्विशतां स्वेषु शिबिरेषु महात्मनाम्
नदतः सागरस्येव दिविस्पृग् अभवद् ध्वनिः ॥

47.44

तेषाम् अभ्यागतानां च स राजा मुनिसत्तमाः
व्यादिदेशायतनानि शय्याश् चाप्य् उपचारतः ॥

47.45

भोजनानि विचित्राणि शालीक्षुयवगोरसैः
उपेत्य नृपतिश्रेष्ठो व्यादिदेश स्वयं तदा ॥

47.46

तथा तस्मिन् महायज्ञे बहवो ब्रह्मवादिनः
ये च द्विजातिप्रवरास् तत्रासन् द्विजसत्तमाः ॥

47.47

समाजग्मुः सशिष्यास् तान् प्रतिजग्राह पार्थिवः
सर्वांश् च तान् अनुययौ यावद् आवसथान् इति ॥

47.48

स्वयम् एव महातेजा दम्भं त्यक्त्वा नृपोत्तमः
ततः कृत्वा स्वशिल्पं च शिल्पिनो ऽन्ये च ये तदा ॥

47.49

कृत्स्नं यज्ञविधिं राज्ञे तदा तस्मै न्यवेदयन्
ततः श्रुत्वा नृपश्रेष्ठः कृतं सर्वम् अतन्द्रितः
हृष्टरोमाभवद् राजा सह मन्त्रिभिर् अच्युतः ॥

47.50

तस्मिन् यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिभिः
हेतुवादान् बहून् आहुः परस्परजिगीषवः ॥

47.51

देवेन्द्रस्येव विहितं राजसिंहेन भो द्विजाः
ददृशुस् तोरणान्य् अत्र शातकुम्भमयानि च ॥

47.52

शय्यासनविकारांश् च सुबहून् रत्नसंचयान्
घटपात्रीकटाहानि कलशान् वर्धमानकान् ॥

47.53

नहि कश्चिद् असौवर्णम् अपश्यद् वसुधाधिपः
यूपांश् च शास्त्रपठितान् दारवान् हेमभूषितान् ॥

47.54

उपक्षिप्तान् यथाकालं विधिवद् भूरिवर्चसः
स्थलजा जलजा ये च पशवः केचन द्विजाः ॥

47.55

सर्वान् एव समानीतान् अपश्यंस् तत्र ते नृपाः
गाश् चैव महिषीश् चैव तथा वृद्धस्त्रियो ऽपि च ॥

47.56

औदकानि च सत्त्वानि श्वापदानि वयांसि च
जरायुजाण्डजातानि स्वेदजान्य् उद्भिदानि च ॥

47.57

पर्वतान्य् उपधान्यानि भूतानि ददृशुश् च ते
एवं प्रमुदितं सर्वं पशुतो धनधान्यतः ॥

47.58

यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं गताः
ब्राह्मणानां विशां चैव बहुमिष्टान्नम् ऋद्धिमत् ॥

47.59

पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम्
दुन्दुभिर् मेघनिर्घोषान् मुहुर्मुहुर् अथाकरोत् ॥

47.60

विननादासकृच् चापि दिवसे दिवसे गते
एवं स ववृधे यज्ञस् तस्य राज्ञस् तु धीमतः ॥

47.61

अन्नस्य सुबहून् विप्रा उत्सर्गान् निर्गतोपमान्
दधिकुल्याश् च ददृशुः पयसश् च ह्रदांस् तथा ॥

47.62

जम्बूद्वीपो हि सकलो नानाजनपदैर् युतः
द्विजाश् च तत्र दृश्यन्ते राज्ञस् तस्य महामखे ॥

47.63

तत्र यानि सहस्राणि पुरुषाणां ततस् ततः
गृहीत्वा भाजनं जग्मुर् बहूनि द्विजसत्तमाः ॥

47.64

श्राविणश् चापि ते सर्वे सुमृष्टमणिकुण्डलाः
पर्यवेषयन् द्विजातीञ् शतशो ऽथ सहस्रशः ॥

47.65

विविधान्य् अनुपानानि पुरुषा ये ऽनुयायिनः
ते वै नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः सह ॥

47.66

समागतान् वेदविदो राज्ञश् च पृथिवीश्वरान्
पूजां चक्रे तदा तेषां विधिवद् भूरिदक्षिणः ॥

47.67

दिग्देशाद् आगतान् राज्ञो महासंग्रामशालिनः
नटनर्तककादींश् च गीतस्तुतिविशारदान् ॥

47.68

पत्न्यो मनोरमास् तस्य पीनोन्नतपयोधराः
इन्दीवरपलाशाक्ष्यः शरच्चन्द्रनिभाननाः ॥

47.69

कुलशीलगुणोपेताः सहस्रैकं शताधिकम्
एवं तद्भूपपरम पत्नीगणसमन्वितम् ॥

47.70

रत्नमालाकुलं दिव्यं पताकाध्वजसेवितम्
रत्नहारयुतं रम्यं चन्द्रकान्तिसमप्रभम् ॥

47.71

करिणः पर्वताकारान् मदसिक्तान् महाबलान्
शतशः कोटिसंघातैर् दन्तिभिर् दन्तभूषणैः ॥

47.72

वातवेगजवैर् अश्वैः सिन्धुजातैः सुशोभनैः
श्वेताश्वैः श्यामकर्णैश् च कोट्यनेकैर् जवान्वितैः ॥

47.73

संनद्धबद्धकक्षैश् च नानाप्रहरणोद्यतैः
असंख्येयैः पदातैश् च देवपुत्रोपमैस् तथा ॥

47.74

इत्य् एवं ददृशे राजा यज्ञसंभारविस्तरम्
मुदं लेभे तदा राजा संहृष्टो वाक्यम् अब्रवीत् ॥

47.75

आनयध्वं हयश्रेष्ठं सर्वलक्षणलक्षितम्
चारयध्वं पृथिव्यां वै राजपुत्राः सुसंयताः ॥

47.76

विद्वद्भिर् धर्मविद्भिश् च अत्र होमो विधीयताम्
कृष्णच्छागं च महिषं कृष्णसारमृगं द्विजान् ॥

47.77

अनड्वाहं च गाश् चैव सर्वांश् च पशुपालकान्
इष्टयश् च प्रवर्तन्तां प्रासादं वैष्णवं ततः ॥

47.78

सर्वम् एतच् च विप्रेभ्यो दीयतां मनसेप्सितम्
स्त्रियश् च रत्नकोट्यश् च ग्रामाश् च नगराणि च ॥

47.79

सम्यक् समृद्धभूम्यश् च विषयाश् चैवम् अर्थिनाम्
अन्यानि द्रव्यजातानि मनोज्ञानि बहूनि च ॥

47.80

सर्वेषां याचमानानां नास्ति ह्य् एतन् न भाषयेत्
तावत् प्रवर्ततां यज्ञो यावद् देवः पुरा त्व् इह
प्रत्यक्षं मम चाभ्येति यज्ञस्यास्य समीपतः ॥

47.81

एवम् उक्त्वा तदा विप्रा राजसिंहो महाभुजः
ददौ सुवर्णसंघातं कोटीनां चैव भूषणम् ॥

47.82

करेणुशतसाहस्रं वाजिनो नियुतानि च
अर्बुदं चैव वृषभं स्वर्णशृङ्गीश् च धेनुकाः ॥

47.83

सुरूपाः सुरभीश् चैव कांस्यदोहाः पयस्विनीः
प्रायच्छत् स तु विप्रेभ्यो वेदविद्भ्यो मुदा युतः ॥

47.84

वासांसि च महार्हाणि राङ्कवास्तरणानि च
सुशुक्लानि च शुभ्राणि प्रवालमणिम् उत्तमम् ॥

47.85

अददात् स महायज्ञे रत्नानि विविधानि च ॥

47.86

वज्रवैदूर्यमाणिक्य मुक्तिकाद्यानि यानि च
अलंकारवतीः शुभ्राः कन्या राजीवलोचनाः ॥

47.87

शतानि पञ्च विप्रेभ्यो राजा हृष्टः प्रदत्तवान्
स्त्रियः पीनपयोभाराः कञ्चुकैः स्वस्तनावृताः ॥

47.88

मध्यहीनाश् च सुश्रोण्यः पद्मपत्त्रायतेक्षणाः
हावभावान्वितग्रीवा बह्व्यो वलयभूषिताः ॥

47.89

पादनूपुरसंयुक्ताः पट्टदुकूलवाससः
एकैकशो ऽददात् तस्मिन् काम्याश् च कामिनीर् बहूः ॥

47.90

अर्थिभ्यो ब्राह्मणादिभ्यो हयमेधे द्विजोत्तमाः
भक्ष्यं भोज्यं च संपूर्णं नानासंभारसंयुतम् ॥

47.91

खण्डकाद्यान्य् अनेकानि स्विन्नपक्वांश् च पिष्टकान्
अन्नान्य् अन्यानि मेध्यांश् च घृतपूरांश् च खाण्डवान् ॥

47.92

मधुरांस् तर्जितान् पूपान् अन्नं मृष्टं सुपाकिकम्
प्रीत्यर्थं सर्वसत्त्वानां दीयते ऽन्नं पुनः पुनः ॥

47.93

दत्तस्य दीयमानस्य धनस्यान्तो न विद्यते
एवं दृष्ट्वा महायज्ञं देवदैत्याः सवारणाः ॥

47.94

गन्धर्वाप्सरसः सिद्धा ऋषयश् च प्रजेश्वराः
विस्मयं परमं याता दृष्ट्वा क्रतुवरं शुभम् ॥

47.95

पुरोधा मन्त्रिणो राजा हृष्टास् तत्रैव सर्वशः
न तत्र मलिनः कश्चिन् न दीनो न क्षुधान्वितः ॥

47.96

न वोपसर्गो न ग्लानिर् नाधयो व्याधयस् तथा
नाकालमरणं तत्र न दंशो न ग्रहा विषम् ॥

47.97

हृष्टपुष्टजनाः सर्वे तस्मिन् राज्ञो महोत्सवे
ये च तत्र तपःसिद्धा मुनयश् चिरजीविनः ॥

47.98

न जातं तादृशं यज्ञं धनधान्यसमन्वितम्
एवं स राजा विधिवद् वाजिमेधं द्विजोत्तमाः
क्रतुं समापयाम् आस प्रासादं वैष्णवं तथा ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc