ब्रह्म पुराण · अध्याय 45
तस्मिन् क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे
किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो ॥
येनासौ नृपतिस् तत्र गत्वा सबलवाहनः
स्थापयाम् आस कृष्णं च रामं भद्रां शुभप्रदाम् ॥
संशयो नो महान् अत्र विस्मयश् च जगत्पते
श्रोतुम् इच्छामहे सर्वं ब्रूहि तत्कारणं च नः ॥
शृणुध्वं पूर्वसंवृत्तां कथां पापप्रणाशिनीम्
प्रवक्ष्यामि समासेन श्रिया पृष्टः पुरा हरिः ॥
सुमेरोः काञ्चने शृङ्गे सर्वाश्चर्यसमन्विते
सिद्धविद्याधरैर् यक्षैः किंनरैर् उपशोभिते ॥
देवदानवगन्धर्वैर् नागैर् अप्सरसां गणैः
मुनिभिर् गुह्यकैः सिद्धैः सौपर्णैः समरुद्गणैः ॥
अन्यैर् देवालयैः साध्यैः कश्यपाद्यैः प्रजेश्वरैः
वालखिल्यादिभिश् चैव शोभिते सुमनोहरे ॥
कर्णिकारवनैर् दिव्यैः सर्वर्तुकुसुमोत्करैः
जातरूपप्रतीकाशैर् भूषिते सूर्यसंनिभैः ॥
अन्यैश् च बहुभिर् वृक्षैः शालतालादिभिर् वनैः
पुंनागाशोकसरल न्यग्रोधाम्रातकार्जुनैः ॥
पारिजाताम्रखदिर नीपबिल्वकदम्बकैः
धवखादिरपालाश शीर्षामलकतिन्दुकैः ॥
नारिङ्गकोलबकुल लोध्रदाडिमदारुकैः
सर्जैश् च कर्णैस् तगरैः शिशिभूर्जवनिम्बकैः ॥
अन्यैश् च काञ्चनैश् चैव फलभारैश् च नामितैः
नानाकुसुमगन्धाढ्यैर् भूषिते पुष्पपादपैः ॥
मालतीयूथिकामल्ली कुन्दबाणकुरुण्टकैः
पाटलागस्त्यकुटज मन्दारकुसुमादिभिः ॥
अन्यैश् च विविधैः पुष्पैर् मनसः प्रीतिदायकैः
नानाविहगसंघैश् च कूजद्भिर् मधुरस्वरैः ॥
पुंस्कोकिलरुतैर् दिव्यैर् मत्तबर्हिणनादितैः
एवं नानाविधैर् वृक्षैः पुष्पैर् नानाविधैस् तथा ॥
खगैर् नानाविधैश् चैव शोभिते सुरसेविते
तत्र स्थितं जगन्नाथं जगत्स्रष्टारम् अव्ययम् ॥
सर्वलोकविधातारं वासुदेवाख्यम् अव्ययम्
प्रणम्य शिरसा देवी लोकानां हितकाम्यया
पप्रच्छेमं महाप्रश्नं पद्मजा तम् अनुत्तमम् ॥
ब्रूहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम्
मर्त्यलोके महाश्चर्ये कर्मभूमौ सुदुर्लभे ॥
लोभमोहग्रहग्रस्ते कामक्रोधमहार्णवे
येन मुच्येत देवेश अस्मात् संसारसागरात् ॥
आचक्ष्व सर्वदेवेश प्रणतां यदि मन्यसे
त्वदृते नास्ति लोके ऽस्मिन् वक्ता संशयनिर्णये ॥
श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः
प्रोवाच परया प्रीत्या परं सारामृतोपमम् ॥
सुखोपास्यः सुसाध्यश् च ऽभिरामश् च सुसत्फलः
आस्ते तीर्थवरे देवि विख्यातः पुरुषोत्तमः ॥
न तेन सदृशः कश्चित् त्रिषु लोकेषु विद्यते
कीर्तनाद् यस्य देवेशि मुच्यते सर्वपातकैः ॥
न विज्ञातो ऽमरैः सर्वैर् न दैत्यैर् न च दानवैः
मरीच्याद्यैर् मुनिवरैर् गोपितं मे वरानने ॥
तत् ते ऽहं संप्रवक्ष्यामि तीर्थराजं च सांप्रतम्
भावेनैकेन सुश्रोणि शृणुष्व वरवर्णिनि ॥
आसीत् कल्पे समुत्पन्ने नष्टे स्थावरजङ्गमे
प्रलीना देवगन्धर्व दैत्यविद्याधरोरगाः ॥
तमोभूतम् इदं सर्वं न प्राज्ञायत किंचन
तस्मिञ् जागर्ति भूतात्मा परमात्मा जगद्गुरुः ॥
श्रीमांस् त्रिमूर्तिकृद् देवो जगत्कर्ता महेश्वरः
वासुदेवेति विख्यातो योगात्मा हरिर् ईश्वरः ॥
सो ऽसृजद् योगनिद्रान्ते नाभ्यम्भोरुहमध्यगम्
पद्मकेशरसंकाशं ब्रह्माणं भूतम् अव्ययम् ॥
तादृग्भूतस् ततो ब्रह्मा सर्वलोकमहेश्वरः
पञ्चभूतसमायुक्तं सृजते च शनैः शनैः ॥
मात्रायोनीनि भूतानि स्थूलसूक्ष्माणि यानि च
चतुर्विधानि सर्वाणि स्थावराणि चराणि च ॥
ततः प्रजापतिर् ब्रह्मा चक्रे सर्वं चराचरम्
संचिन्त्य मनसात्मानं ससर्ज विविधाः प्रजाः ॥
मरीच्यादीन् मुनीन् सर्वान् देवासुरपितॄन् अपि
यक्षविद्याधरांश् चान्यान् गङ्गाद्याः सरितस् तथा ॥
नरवानरसिंहांश् च विविधांश् च विहंगमान्
जरायून् अण्डजान् देवि स्वेदजोद्भेदजांस् तथा ॥
ब्रह्म क्षत्रं तथा वैश्यं शूद्रं चैव चतुष्टयम्
अन्त्यजातांश् च म्लेच्छांश् च ससर्ज विविधान् पृथक् ॥
यत् किंचिज् जीवसंज्ञं तु तृणगुल्मपिपीलिकम्
ब्रह्मा भूत्वा जगत् सर्वं निर्ममे स चराचरम् ॥
दक्षिणाङ्गे तथात्मानं संचिन्त्य पुरुषं स्वयम्
वामे चैव तु नारीं स द्विधा भूतम् अकल्पयत् ॥
ततः प्रभृति लोके ऽस्मिन् प्रजा मैथुनसंभवाः
अधमोत्तममध्याश् च मम क्षेत्राणि यानि च ॥
एवं संचिन्त्य देवो ऽसौ पुरा सलिलयोनिजः
जगाम ध्यानम् आस्थाय वासुदेवात्मिकां तनुम् ॥
ध्यानमात्रेण देवेन स्वयम् एव जनार्दनः
तस्मिन् क्षणे समुत्पन्नः सहस्राक्षः सहस्रपात् ॥
सहस्रशीर्षा पुरुषः पुण्डरीकनिभेक्षणः
सलिलध्वान्तमेघाभः श्रीमाञ् श्रीवत्सलक्षणः ॥
अपश्यत् सहसा तं तु ब्रह्मा लोकपितामहः
आसनैर् अर्घ्यपाद्यैश् च अक्षतैर् अभिनन्द्य च ॥
तुष्टाव परमैः स्तोत्रैर् विरिञ्चिः सुसमाहितः
ततो ऽहम् उक्तवान् देवं ब्रह्माणं कमलोद्भवम्
कारणं वद मां तात मम ध्यानस्य सांप्रतम् ॥
जगद्धिताय देवेश मर्त्यलोकैश् च दुर्लभम्
स्वर्गद्वारस्य मार्गाणि यज्ञदानव्रतानि च ॥
योगः सत्यं तपः श्रद्धा तीर्थानि विविधानि च
विहाय सर्वम् एतेषां सुखं तत्साधनं वद ॥
स्थानं जगत्पते मह्याम् उत्कृष्टं च यद् उच्यते
सर्वेषाम् उत्तमं स्थानं ब्रूहि मे पुरुषोत्तम ॥
विधातुर् वचनं श्रुत्वा ततो ऽहं प्रोक्तवान् प्रिये
शृणु ब्रह्मन् प्रवक्ष्यामि निर्मलं भुवि दुर्लभम् ॥
उत्तमं सर्वक्षेत्राणां धन्यं संसारतारणम्
गोब्राह्मणहितं पुण्यं चातुर्वर्ण्यसुखोदयम् ॥
भुक्तिमुक्तिप्रदं नॄणां क्षेत्रं परमदुर्लभम्
महापुण्यं तु सर्वेषां सिद्धिदं वै पितामहे ॥
तस्माद् आसीत् समुत्पन्नं तीर्थराजं सनातनम्
विख्यातं परमं क्षेत्रं चतुर्युगनिषेवितम् ॥
सर्वेषाम् एव देवानाम् ऋषीणां ब्रह्मचारिणाम्
दैत्यदानवसिद्धानां गन्धर्वोरगरक्षसाम् ॥
नागविद्याधराणां च स्थावरस्य चरस्य च
उत्तमः पुरुषो यस्मात् तस्मात् स पुरुषोत्तमः ॥
दक्षिणस्योदधेस् तीरे न्यग्रोधो यत्र तिष्ठति
दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥
यस् तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे
विनाशं नैवम् अभ्येति स्वयं तत्रैवम् आस्थितः ॥
दृष्टमात्रे वटे तस्मिंश् छायाम् आक्रम्य चासकृत्
ब्रह्महत्यात् प्रमुच्येत पापेष्व् अन्येषु का कथा ॥
प्रदक्षिणा कृता यैस् तु नमस्कारश् च जन्तुभिः
सर्वे विधूतपाप्मानस् ते गताः केशवालयम् ॥
न्यग्रोधस्योत्तरे किंचिद् दक्षिणे केशवस्य तु
प्रासादस् तत्र तिष्ठेत् तु पदं धर्ममयं हि तत् ॥
प्रतिमां तत्र वै दृष्ट्वा स्वयं देवेन निर्मिताम्
अनायासेन वै यान्ति भुवनं मे ततो नराः ॥
गच्छमानांस् तु तान् प्रेक्ष्य एकदा धर्मराट् प्रिये
मदन्तिकम् अनुप्राप्य प्रणम्य शिरसाब्रवीत् ॥
नमस् ते भगवन् देव लोकनाथ जगत्पते
क्षीरोदवासिनं देवं शेषभोगानुशायिनम् ॥
वरं वरेण्यं वरदं कर्तारम् अकृतं प्रभुम्
विश्वेश्वरम् अजं विष्णुं सर्वज्ञम् अपराजितम् ॥
नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम्
सर्वज्ञं निर्गुणं शान्तं जगद्धातारम् अव्ययम् ॥
सर्वलोकविधातारं सर्वलोकसुखावहम्
पुराणं पुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम् ॥
परावराणां स्रष्टारं लोकनाथं जगद्गुरुम्
श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् ॥
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम्
हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम् ॥
सर्वलक्षणसंपूर्णं सर्वेन्द्रियविवर्जितम्
कूटस्थम् अचलं सूक्ष्मं ज्योतीरूपं सनातनम् ॥
भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम्
नमस्यामि जगन्नाथम् ईश्वरं सुखदं प्रभुम् ॥
इत्य् एवं धर्मराजस् तु पुरा न्यग्रोधसंनिधौ
स्तुत्वा नानाविधैः स्तोत्रैः प्रणामम् अकरोत् तदा ॥
तं दृष्ट्वा तु महाभागे प्रणतं प्राञ्जलिस्थितम्
स्तोत्रस्य कारणं देवि पृष्टवान् अहम् अन्तकम् ॥
वैवस्वत महाबाहो सर्वदेवोत्तमो ह्य् असि
किमर्थं स्तुतवान् मां त्वं संक्षेपात् तद् ब्रवीहि मे ॥
अस्मिन्न् आयतने पुण्ये विख्याते पुरुषोत्तमे
इन्द्रनीलमयी श्रेष्ठा प्रतिमा सार्वकामिकी ॥
तां दृष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया
श्वेताख्यं भवनं यान्ति निष्कामाश् चैव मानवाः ॥
अतः कर्तुं न शक्नोमि व्यापारम् अरिसूदन
प्रसीद सुमहादेव संहर प्रतिमां विभो ॥
श्रुत्वा वैवस्वतस्यैतद् वाक्यम् एतद् उवाच ह
यम तां गोपयिष्यामि सिकताभिः समन्ततः ॥
ततः सा प्रतिमा देवि वल्लिभिर् गोपिता मया
यथा तत्र न पश्यन्ति मनुजाः स्वर्गकाङ्क्षिणः ॥
प्रच्छाद्य वल्लिकैर् देवि जातरूपपरिच्छदैः
यमं प्रस्थापयाम् आस स्वां पुरीं दक्षिणां दिशम् ॥
लुप्तायां प्रतिमायां तु इन्द्रनीलस्य भो द्विजाः
तस्मिन् क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे ॥
यो भूतस् तत्र वृत्तान्तो देवदेवो जनार्दनः
तं सर्वं कथयाम् आस स तस्यै भगवान् पुरा ॥
इन्द्रद्युम्नस्य गमनं क्षेत्रसंदर्शनं तथा
क्षेत्रस्य वर्णनं चैव प्रासादकरणं तथा ॥
हयमेधस्य यजनं स्वप्नदर्शनम् एव च
लवणस्योदधेस् तीरे काष्ठस्य दर्शनं तथा ॥
दर्शनं वासुदेवस्य शिल्पिराजस्य च द्विजाः
निर्माणं प्रतिमायास् तु यथावर्णं विशेषतः ॥
स्थापनं चैव सर्वेषां प्रासादे भुवनोत्तमे
यात्राकाले च विप्रेन्द्राः कल्पसंकीर्तनं तथा ॥
मार्कण्डेयस्य चरितं स्थापनं शंकरस्य च
पञ्चतीर्थस्य माहात्म्यं दर्शनं शूलपाणिनः ॥
वटस्य दर्शनं चैव व्युष्टिं तस्य च भो द्विजाः
दर्शनं बलदेवस्य कृष्णस्य च विशेषतः ॥
सुभद्रायाश् च तत्रैव माहात्म्यं चैव सर्वशः
दर्शनं नरसिंहस्य व्युष्टिसंकीर्तनं तथा ॥
अनन्तवासुदेवस्य दर्शनं गुणकीर्तनम्
श्वेतमाधवमाहात्म्यं स्वर्गद्वारस्य दर्शनम् ॥
उदधेर् दर्शनं चैव स्नानं तर्पणम् एव च
समुद्रस्नानमाहात्म्यम् इन्द्रद्युम्नस्य च द्विजाः ॥
पञ्चतीर्थफलं चैव महाज्येष्ठं तथैव च
स्थानं कृष्णस्य हलिनः पर्वयात्राफलं तथा ॥
वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः पुनः
पूर्वं कथितवान् सर्वं तस्यै स पुरुषोत्तमः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0