भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 44

44.1

तस्यां स नृपतिः पूर्वं कुर्वन् राज्यम् अनुत्तमम्
पालयाम् आस मतिमान् प्रजाः पुत्रान् इवौरसान् ॥

44.2

सत्यवादी महाप्राज्ञः शूरः सर्वगुणाकरः
मतिमान् धर्मसंपन्नः सर्वशस्त्रभृतां वरः ॥

44.3

सत्यवाञ् शीलवान् दान्तः श्रीमान् परपुरंजयः
आदित्य इव तेजोभी रूपैर् आश्विनयोर् इव ॥

44.4

वर्धमानसुराश्चर्यः शक्रतुल्यपराक्रमः
शारदेन्दुर् इवाभाति लक्षणैः समलंकृतः ॥

44.5

आहर्ता सर्वयज्ञानां हयमेधादिकृत् तथा
दानैर् यज्ञैस् तपोभिश् च तत्तुल्यो नास्ति भूपतिः ॥

44.6

सुवर्णमणिमुक्तानां गजाश्वानां च भूपतिः
प्रददौ विप्रमुख्येभ्यो यागे यागे महाधनम् ॥

44.7

हस्त्यश्वरथमुख्यानां कम्बलाजिनवाससाम्
रत्नानां धनधान्यानाम् अन्तस् तस्य न विद्यते ॥

44.8

एवं सर्वधनैर् युक्तो गुणैः सर्वैर् अलंकृतः
सर्वकामसमृद्धात्मा कुर्वन् राज्यम् अकण्टकम् ॥

44.9

तस्येयं मतिर् उत्पन्ना सर्वयोगेश्वरं हरिम्
कथम् आराधयिष्यामि भुक्तिमुक्तिप्रदं प्रभुम् ॥

44.10

विचार्य सर्वशास्त्राणि तन्त्राण्य् आगमविस्तरम्
इतिहासपुराणानि वेदाङ्गानि च सर्वशः ॥

44.11

धर्मशास्त्राणि सर्वाणि नियमान् ऋषिभाषितान्
वेदाङ्गानि च शास्त्राणि विद्यास्थानानि यानि च ॥

44.12

गुरुं संसेव्य यत्नेन ब्राह्मणान् वेदपारगान्
आधाय परमां काष्ठां कृतकृत्यो ऽभवत् तदा ॥

44.13

संप्राप्य परमं तत्त्वं वासुदेवाख्यम् अव्ययम्
भ्रान्तिज्ञानाद् अतीतस् तु मुमुक्षुः संयतेन्द्रियः ॥

44.14

कथम् आराधयिष्यामि देवदेवं सनातनम्
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥

44.15

वनमालावृतोरस्कं पद्मपत्त्रायतेक्षणम्
श्रीवत्सोरःसमायुक्तं मुकुटाङ्गदशोभितम् ॥

44.16

स्वपुरात् स तु निष्क्रान्त उज्जयिन्याः प्रजापतिः
बलेन महता युक्तः सभृत्यः सपुरोहितः ॥

44.17

अनुजग्मुस् तु तं सर्वे रथिनः शस्त्रपाणयः
रथैर् विमानसंकाशैः पताकाध्वजसेवितैः ॥

44.18

सादिनश् च तथा सर्वे प्रासतोमरपाणयः
अश्वैः पवनसंकाशैर् अनुजग्मुस् तु तं नृपम् ॥

44.19

हिमवत्संभवैर् मत्तैर् वारणैः पर्वतोपमैः
ईषादन्तैः सदा मत्तैः प्रचण्डैः षष्टिहायनैः ॥

44.20

हेमकक्षैः सपताकैर् घण्टारवविभूषितैः
अनुजग्मुश् च तं सर्वे गजयुद्धविशारदाः ॥

44.21

असंख्येयाश् च पादाता धनुष्प्रासासिपाणयः
दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥

44.22

अनुजग्मुश् च तं सर्वे युवानो मृष्टकुण्डलाः
सर्वास्त्रकुशलाः शूराः सदा संग्रामलालसाः ॥

44.23

अन्तःपुरनिवासिन्यः स्त्रियः सर्वाः स्वलंकृताः
बिम्बौष्ठचारुदशनाः सर्वाभरणभूषिताः ॥

44.24

दिव्यवस्त्रधराः सर्वा दिव्यमाल्यविभूषिताः
दिव्यगन्धानुलिप्ताङ्गाः शरच्चन्द्रनिभाननाः ॥

44.25

सुमध्यमाश् चारुवेषाश् चारुकर्णालकाञ्चिताः
ताम्बूलरञ्जितमुखा रक्षिभिश् च सुरक्षिताः ॥

44.26

यानैर् उच्चावचैः शुभ्रैर् मणिकाञ्चनभूषितैः
उपगीयमानास् ताः सर्वा गायनैः स्तुतिपाठकैः ॥

44.27

वेष्टिताः शस्त्रहस्तैश् च पद्मपत्त्रायतेक्षणाः
ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुश् च तं नृपम् ॥

44.28

वणिग्ग्रामगणाः सर्वे नानापुरनिवासिनः
धनै रत्नैः सुवर्णैश् च सदाराः सपरिच्छदाः ॥

44.29

अस्त्रविक्रयकाश् चैव ताम्बूलपण्यजीविनः
तृणविक्रयकाश् चैव काष्ठविक्रयकारकाः ॥

44.30

रङ्गोपजीविनः सर्वे मांसविक्रयिणस् तथा
तैलविक्रयकाश् चैव वस्त्रविक्रयकास् तथा ॥

44.31

फलविक्रयिणश् चैव पत्त्रविक्रयिणस् तथा
तथा जवसहाराश् च रजकाश् च सहस्रशः ॥

44.32

गोपाला नापिताश् चैव तथान्ये वस्त्रसूचकाः
मेषपालाश् चाजपाला मृगपालाश् च हंसकाः ॥

44.33

धान्यविक्रयिणश् चैव सक्तुविक्रयिणश् च ये
गुडविक्रयिकाश् चैव तथा लवणजीविनः ॥

44.34

गायना नर्तकाश् चैव तथा मङ्गलपाठकाः
शैलूषाः कथकाश् चैव पुराणार्थविशारदाः ॥

44.35

कवयः काव्यकर्तारो नानाकाव्यविशारदाः
विषघ्ना गारुडाश् चैव नानारत्नपरीक्षकाः ॥

44.36

व्योकारास् ताम्रकाराश् च कांस्यकाराश् च रूठकाः
कौषकाराश् चित्रकाराः कुन्दकाराश् च पावकाः ॥

44.37

दण्डकाराश् चासिकाराः सुराधूतोपजीविनः
मल्ला दूताश् च कायस्था ये चान्ये कर्मकारिणः ॥

44.38

तन्तुवाया रूपकारा वार्तिकास् तैलपाठकाः
लावजीवास् तैत्तिरिका मृगपक्ष्युपजीविनः ॥

44.39

गजवैद्याश् च वैद्याश् च नरवैद्याश् च ये नराः
वृक्षवैद्याश् च गोवैद्या ये चान्ये छेददाहकाः ॥

44.40

एते नागरकाः सर्वे ये चान्ये नानुकीर्तिताः
अनुजग्मुस् तु राजानं समस्तपुरवासिनः ॥

44.41

यथा व्रजन्तं पितरं ग्रामान्तरं समुत्सुकाः
अनुयान्ति यथा पुत्रास् तथा तं ते ऽपि नागराः ॥

44.42

एवं स नृपतिः श्रीमान् वृतः सर्वैर् महाजनैः
हस्त्यश्वरथपादातैर् जगाम च शनैः शनैः ॥

44.43

एवं गत्वा स नृपतिर् दक्षिणस्योदधेस् तटम्
सर्वैस् तैर् दीर्घकालेन बलैर् अनुगतः प्रभुः ॥

44.44

ददर्श सागरं रम्यं नृत्यन्तम् इव च स्थितम्
अनेकशतसाहस्रैर् ऊर्मिभिश् च समाकुलम् ॥

44.45

नानारत्नालयं पूर्णं नानाप्राणिसमाकुलम्
वीचीतरङ्गबहुलं महाश्चर्यसमन्वितम् ॥

44.46

तीर्थराजं महाशब्दम् अपारं सुभयंकरम्
मेघवृन्दप्रतीकाशम् अगाधं मकरालयम् ॥

44.47

मत्स्यैः कूर्मैश् च शङ्खैश् च शुक्तिकानक्रशङ्कुभिः
शिंशुमारैः कर्कटैश् च वृतं सर्पैर् महाविषैः ॥

44.48

लवणोदं हरेः स्थानं शयनस्य नदीपतिम्
सर्वपापहरं पुण्यं सर्ववाञ्छाफलप्रदम् ॥

44.49

अनेकावर्तगम्भीरं दानवानां समाश्रयम्
अमृतस्यारणिं दिव्यं देवयोनिम् अपां पतिम् ॥

44.50

विशिष्टं सर्वभूतानां प्राणिनां जीवधारणम्
सुपवित्रं पवित्राणां मङ्गलानां च मङ्गलम् ॥

44.51

तीर्थानाम् उत्तमं तीर्थम् अव्ययं यादसां पतिम्
चन्द्रवृद्धिक्षयस्येव यस्य मानं प्रतिष्ठितम् ॥

44.52

अभेद्यं सर्वभूतानां देवानाम् अमृतालयम्
उत्पत्तिस्थितिसंहार हेतुभूतं सनातनम् ॥

44.53

उपजीव्यं च सर्वेषां पुण्यं नदनदीपतिम्
दृष्ट्वा तं नृपतिश्रेष्ठो विस्मयं परमं गतः ॥

44.54

निवासम् अकरोत् तत्र वेलाम् असाद्य सागरीम्
पुण्ये मनोहरे देशे सर्वभूमिगुणैर् युते ॥

44.55

वृतं शालैः कदम्बैश् च पुंनागैः सरलद्रुमैः
पनसैर् नारिकेलैश् च बकुलैर् नागकेसरैः ॥

44.56

तालैः पिप्पलैः खर्जूरैर् नारङ्गैर् बीजपूरकैः
शालैर् आम्रातकैर् लोध्रैर् बकुलैर् बहुवारकैः ॥

44.57

कपित्थैः कर्णिकारैश् च पाटलाशोकचम्पकैः
दाडिमैश् च तमालैश् च पारिजातैस् तथार्जुनैः ॥

44.58

प्राचीनामलकैर् बिल्वैः प्रियङ्गुवटखादिरैः
इङ्गुदीसप्तपर्णैश् च अश्वत्थागस्त्यजम्बुकैः ॥

44.59

मधुकैः कर्णिकारैश् च बहुवारैः सतिन्दुकैः
पलाशबदरैर् नीपैः सिद्धनिम्बशुभाञ्जनैः ॥

44.60

वारकैः कोविदारैश् च भल्लातामलकैस् तथा
इति हिन्तालकाङ्कोलैः करञ्जैः सविभीतकैः ॥

44.61

ससर्जमधुकाश्मर्यैः शाल्मलीदेवदारुभिः
शाखोठकैर् निम्बवटैः कुम्भीकौष्ठहरीतकैः ॥

44.62

गुग्गुलैश् चन्दनैर् वृक्षैस् तथैवागुरुपाटलैः
जम्बीरकरुणैर् वृक्षैस् तिन्तिडीरक्तचन्दनैः ॥

44.63

एवं नानाविधैर् वृक्षैस् तथान्यैर् बहुपादपैः
कल्पद्रुमैर् नित्यफलैः सर्वर्तुकुसुमोत्करैः ॥

44.64

नानापक्षिरुतैर् दिव्यैर् मत्तकोकिलनादितैः
मयूरवरसंघुष्टैः शुकसारिकसंकुलैः ॥

44.65

हारीतैर् भृङ्गराजैश् च चातकैर् बहुपुत्रकैः
जीवंजीवककाकोलैः कलविङ्कैः कपोतकैः ॥

44.66

खगैर् नानाविधैश् चान्यैः श्रोत्ररम्यैर् मनोहरैः
पुष्पिताग्रेषु वृक्षेषु कूजद्भिश् चार्वधिष्ठितैः ॥

44.67

केतकीवनखण्डैश् च सदा पुष्पधरैः सितैः
मल्लिकाकुन्दकुसुमैर् यूथिकातगरैस् तथा ॥

44.68

कुटजैर् बाणपुष्पैश् च अतिमुक्तैः सकुब्जकैः
मालतीकरवीरैश् च तथा कदलकाञ्चनैः ॥

44.69

अन्यैर् नानाविधैः पुष्पैः सुगन्धैश् चारुदर्शनैः
वनोद्यानोपवनजैर् नानावर्णैः सुगन्धिभिः ॥

44.70

विद्याधरगणाकीर्णैः सिद्धचारणसेवितैः
गन्धर्वोरगरक्षोभिर् भूताप्सरसकिंनरैः ॥

44.71

मुनियक्षगणाकीर्णैर् नानासत्त्वनिषेवितैः
मृगैः शाखामृगैः सिंहैर् वराहमहिषाकुलैः ॥

44.72

तथान्यैः कृष्णसाराद्यैर् मृगैः सर्वत्र शोभितैः
शार्दूलैर् दीप्तमातङ्गैस् तथान्यैर् वनचारिभिः ॥

44.73

एवं नानाविधैर् वृक्षैर् उद्यानैर् नन्दनोपमैः
लतागुल्मवितानैश् च विविधैश् च जलाशयैः ॥

44.74

हंसकारण्डवाकीर्णैः पद्मिनीखण्डमण्डितैः
कादम्बैश् च प्लवैर् हंसैश् चक्रवाकोपशोभितैः ॥

44.75

कमलैः शतपत्त्रैश् च कह्लारैः कुमुदोत्पलैः
खगैर् जलचरैश् चान्यैः पुष्पैर् जलसमुद्भवैः ॥

44.76

पर्वतैर् दीप्तशिखरैश् चारुकन्दरमण्डितैः
नानावृक्षसमाकीर्णैर् नानाधातुविभूषितैः ॥

44.77

सर्वाश्चर्यमयैः शृङ्गैः सर्वभूतालयैः शुभैः
सर्वौषधिसमायुक्तैर् विपुलैश् चित्रसानुभिः ॥

44.78

एवं सर्वैः समुदितैः शोभितं सुमनोहरैः
ददर्श स महीपालः स्थानं त्रैलोक्यपूजितम् ॥

44.79

दशयोजनविस्तीर्णं पञ्चयोजनम् आयतम्
नानाश्चर्यसमायुक्तं क्षेत्रं परमदुर्लभम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc