भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 43

43.1

पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः
बभूव नृपतिः श्रीमान् इन्द्रद्युम्न इति श्रुतः ॥

43.2

सत्यवादी शुचिर् दक्षः सर्वशास्त्रविशारदः
रूपवान् सुभगः शूरो दाता भोक्ता प्रियंवदः ॥

43.3

यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसंगरः
धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती ॥

43.4

वल्लभो नरनारीणां पौर्णमास्यां यथा शशी
आदित्य इव दुष्प्रेक्ष्यः शत्रुसंघभयंकरः ॥

43.5

वैष्णवः सत्त्वसंपन्नो जितक्रोधो जितेन्द्रियः
अध्येता योगसांख्यानां मुमुक्षुर् धर्मतत्परः ॥

43.6

एवं स पालयन् पृथ्वीं राजा सर्वगुणाकरः
तस्य बुद्धिः समुत्पन्ना हरेर् आराधनं प्रति ॥

43.7

कथम् आराधयिष्यामि देवदेवं जनार्दनम्
कस्मिन् क्षेत्रे ऽथवा तीर्थे नदीतीरे तथाश्रमे ॥

43.8

एवं चिन्तापरः सो ऽथ निरीक्ष्य मनसा महीम्
आलोक्य सर्वतीर्थानि क्षेत्राण्य् अथ पुराण्य् अपि ॥

43.9

तानि सर्वाणि संत्यज्य जगामायतनं पुनः
विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥

43.10

स गत्वा तत् क्षेत्रवरं समृद्धबलवाहनः
अयजच् चाश्वमेधेन विधिवद् भूरिदक्षिणः ॥

43.11

कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम्
तत्र संकर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान् ॥

43.12

पञ्चतीर्थं च विधिवत् कृत्वा तत्र महीपतिः
स्नानं दानं तपो होमं देवताप्रेक्षणं तथा ॥

43.13

भक्त्या चाराध्य विधिवत् प्रत्यहं पुरुषोत्तमम्
प्रसादाद् देवदेवस्य ततो मोक्षम् अवाप्तवान् ॥

43.14

मार्कण्डेयं च कृष्णं च दृष्ट्वा रामं च भो द्विजाः
सागरे चेन्द्रद्युम्नाख्ये स्नात्वा मोक्षं लभेद् ध्रुवम् ॥

43.15

कस्मात् स नृपतिः पूर्वम् इन्द्रद्युम्नो जगत्पतिः
जगाम परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥

43.16

गत्वा तत्र सुरश्रेष्ठ कथं स नृपसत्तमः
वाजिमेधेन विधिवद् इष्टवान् पुरुषोत्तमम् ॥

43.17

कथं स सर्वफलदे क्षेत्रे परमदुर्लभे
प्रासादं कारयाम् आस चेष्टं त्रैलोक्यविश्रुतम् ॥

43.18

कथं स कृष्णं रामं च सुभद्रां च प्रजापते
निर्ममे राजशार्दूलः क्षेत्रं रक्षितवान् कथम् ॥

43.19

कथं तत्र महीपालः प्रासादे भुवनोत्तमे
स्थापयाम् आस मतिमान् कृष्णादींस् त्रिदशार्चितान् ॥

43.20

एतत् सर्वं सुरश्रेष्ठ विस्तरेण यथातथम्
वक्तुम् अर्हस्य् अशेषेण चरितं तस्य धीमतः ॥

43.21

न तृप्तिम् अधिगच्छामस् तव वाक्यामृतेन वै
श्रोतुम् इच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥

43.22

साधु साधु द्विजश्रेष्ठा यत् पृच्छध्वं पुरातनम्
सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं शुभम् ॥

43.23

वक्ष्यामि तस्य चरितं यथावृत्तं कृते युगे
शृणुध्वं मुनिशार्दूलाः प्रयताः संयतेन्द्रियाः ॥

43.24

अवन्ती नाम नगरी मालवे भुवि विश्रुता
बभूव तस्य नृपतेः पृथिवी ककुदोपमा ॥

43.25

हृष्टपुष्टजनाकीर्णा दृढप्राकारतोरणा
दृढयन्त्रार्गलद्वारा परिखाभिर् अलंकृता ॥

43.26

नानावणिक्समाकीर्णा नानाभाण्डसुविक्रिया
रथ्यापणवती रम्या सुविभक्तचतुष्पथा ॥

43.27

गृहगोपुरसंबाधा वीथीभिः समलंकृता
राजहंसनिभैः शुभ्रैश् चित्रग्रीवैर् मनोहरैः ॥

43.28

अनेकशतसाहस्रैः प्रासादैः समलंकृता
यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना ॥

43.29

नानावर्णपताकाभिर् ध्वजैश् च समलंकृता
हस्त्यश्वरथसंकीर्णा पदातिगणसंकुला ॥

43.30

नानायोधसमाकीर्णा नानाजनपदैर् युता
ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् चैव द्विजातिभिः ॥

43.31

समृद्धा सा मुनिश्रेष्ठा विद्वद्भिः समलंकृता
न तत्र मलिनाः सन्ति न मूर्खा नापि निर्धनाः ॥

43.32

न रोगिणो न हीनाङ्गा न द्यूतव्यसनान्विताः
सदा हृष्टाः सुमनसो दृश्यन्ते पुरुषाः स्त्रियः ॥

43.33

क्रीडन्ति स्म दिवा रात्रौ हृष्टास् तत्र पृथक् पृथक्
सुवेषाः पुरुषास् तत्र दृश्यन्ते मृष्टकुण्डलाः ॥

43.34

सुरूपाः सुगुणाश् चैव दिव्यालंकारभूषिताः
कामदेवप्रतीकाशाः सर्वलक्षणलक्षिताः ॥

43.35

सुकेशाः सुकपोलाश् च सुमुखाः श्मश्रुधारिणः
ज्ञातारः सर्वशास्त्राणां भेत्तारः शत्रुवाहिनीम् ॥

43.36

दातारः सर्वरत्नानां भोक्तारः सर्वसंपदाम्
स्त्रियस् तत्र मुनिश्रेष्ठा दृश्यन्ते सुमनोहराः ॥

43.37

हंसवारणगामिन्यः प्रफुल्लाम्भोजलोचनाः
सुमध्यमाः सुजघनाः पीनोन्नतपयोधराः ॥

43.38

सुकेशाश् चारुवदनाः सुकपोलाः स्थिरालकाः
हावभावानतग्रीवाः कर्णाभरणभूषिताः ॥

43.39

बिम्बौष्ठ्यो रञ्जितमुखास् ताम्बूलेन विराजिताः
सुवर्णाभरणोपेताः सर्वालंकारभूषिताः ॥

43.40

श्यामावदाताः सुश्रोण्यः काञ्चीनूपुरनादिताः
दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥

43.41

विदग्धाः सुभगाः कान्ताश् चार्वङ्ग्यः प्रियदर्शनाः
रूपलावण्यसंयुक्ताः सर्वाः प्रहसिताननाः ॥

43.42

क्रीडन्त्यश् च मदोन्मत्ताः सभासु चत्वरेषु च
गीतवाद्यकथालापै रमयन्त्यश् च ताः स्त्रियः ॥

43.43

वारमुख्याश् च दृश्यन्ते नृत्यगीतविशारदाः
प्रेक्षणालापकुशलाः सर्वयोषिद्गुणान्विताः ॥

43.44

अन्याश् च तत्र दृश्यन्ते गुणाचार्याः कुलस्त्रियः
पतिव्रताश् च सुभगा गुणैः सर्वैर् अलंकृताः ॥

43.45

वनैश् चोपवनैः पुण्यैर् उद्यानैश् च मनोरमैः
देवतायतनैर् दिव्यैर् नानाकुसुमशोभितैः ॥

43.46

शालैस् तालैस् तमालैश् च बकुलैर् नागकेसरैः
पिप्पलैः कर्णिकारैश् च चन्दनागुरुचम्पकैः ॥

43.47

पुंनागैर् नारिकेरैश् च पनसैः सरलद्रुमैः
नारङ्गैर् लकुचैर् लोध्रैः सप्तपर्णैः शुभाञ्जनैः ॥

43.48

चूतबिल्वकदम्बैश् च शिंशपैर् धवखादिरैः
पाटलाशोकतगरैः करवीरैः सितेतरैः ॥

43.49

पीतार्जुनकभल्लातैः सिद्धैर् आम्रातकैस् तथा
न्यग्रोधाश्वत्थकाश्मर्यैः पलाशैर् देवदारुभिः ॥

43.50

मन्दारैः पारिजातैश् च तिन्तिडीकविभीतकैः
प्राचीनामलकैः प्लक्षैर् जम्बूशिरीषपादपैः ॥

43.51

कालेयैः काञ्चनारैश् च मधुजम्बीरतिन्दुकैः
खर्जूरागस्त्यबकुलैः शाखोटकहरीतकैः ॥

43.52

कङ्कोलैर् मुचुकुन्दैश् च हिन्तालैर् बीजपूरकैः
केतकीवनखण्डैश् च अतिमुक्तैः सकुब्जकैः ॥

43.53

मल्लिकाकुन्दबाणैश् च कदलीखण्डमण्डितैः
मातुलुङ्गैः पूगफलैः करुणैः सिन्धुवारकैः ॥

43.54

बहुवारैः कोविदारैर् बदरैः सकरञ्जकैः
अन्यैश् च विविधैः पुष्प वृक्षैश् चान्यैर् मनोहरैः ॥

43.55

लतागुल्मैर् वितानैश् च उद्यानैर् नन्दनोपमैः
सदा कुसुमगन्धाढ्यैः सदा फलभरानतैः ॥

43.56

नानापक्षिरुतै रम्यैर् नानामृगगणावृतैः
चकोरैः शतपत्त्रैश् च भृङ्गारैः प्रियपुत्रकैः ॥

43.57

कलविङ्कैर् मयूरैश् च शुकैः कोकिलकैस् तथा
कपोतैः खञ्जरीटैश् च श्येनैः पारावतैस् तथा ॥

43.58

खगैश् चान्यैर् बहुविधैः श्रोत्ररम्यैर् मनोरमैः
सरितः पुष्करिण्यश् च सरांसि सुबहूनि च ॥

43.59

अन्यैर् जलाशयैः पुण्यैः कुमुदोत्पलमण्डितैः
पद्मैः सितेतरैः शुभ्रैः कह्लारैश् च सुगन्धिभिः ॥

43.60

अन्यैर् बहुविधैः पुष्पैर् जलजैः सुमनोहरैः
गन्धामोदकरैर् दिव्यैः सर्वर्तुकुसुमोज्ज्वलैः ॥

43.61

हंसकारण्डवाकीर्णैश् चक्रवाकोपशोभितैः
सारसैश् च बलाकैश् च कूर्मैर् मत्स्यैः सनक्रकैः ॥

43.62

जलपादैः कदम्बैश् च प्लवैश् च जलकुक्कुटैः
खगैर् जलचरैश् चान्यैर् नानारवविभूषितैः ॥

43.63

नानावर्णैः सदा हृष्टैर् अञ्चितानि समन्ततः
एवं नानाविधैः पुष्पैर् विविधैश् च जलाशयैः ॥

43.64

विविधैः पादपैः पुण्यैर् उद्यानैर् विविधैस् तथा
जलस्थलचरैश् चैव विहगैश् चार्वधिष्ठितैः ॥

43.65

देवतायतनैर् दिव्यैः शोभिता सा महापुरी
तत्रास्ते भगवान् देवस् त्रिपुरारिस् त्रिलोचनः ॥

43.66

महाकालेति विख्यातः सर्वकामप्रदः शिवः
शिवकुण्डे नरः स्नात्वा विधिवत् पापनाशने ॥

43.67

देवान् पितॄन् ऋषींश् चैव संतर्प्य विधिवद् बुधः
गत्वा शिवालयं पश्चात् कृत्वा तं त्रिः प्रदक्षिणम् ॥

43.68

प्रविश्य संयतो भूत्वा धौतवासा जितेन्द्रियः
स्नानैः पुष्पैस् तथा गन्धैर् धूपैर् दीपैश् च भक्तितः ॥

43.69

नैवेद्यैर् उपहारैश् च गीतवाद्यैः प्रदक्षिणैः
दण्डवत्प्रणिपातैश् च नृत्यैः स्तोत्रैश् च शंकरम् ॥

43.70

संपूज्य विधिवद् भक्त्या महाकालं सकृच् छिवम्
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥

43.71

पापैः सर्वैर् विनिर्मुक्तो विमानैः सार्वकामिकैः
आरुह्य त्रिदिवं याति यत्र शंभोर् निकेतनम् ॥

43.72

दिव्यरूपधरः श्रीमान् दिव्यालंकारभूषितः
भुङ्क्ते तत्र वरान् भोगान् यावद् आभूतसंप्लवम् ॥

43.73

शिवलोके मुनिश्रेष्ठा जरामरणवर्जितः
पुण्यक्षयाद् इहायातः प्रवरे ब्राह्मणे कुले ॥

43.74

चतुर्वेदी भवेद् विप्रः सर्वशास्त्रविशारदः
योगं पाशुपतं प्राप्य ततो मोक्षम् अवाप्नुयात् ॥

43.75

आस्ते तत्र नदी पुण्या शिप्रा नामेति विश्रुता
तस्यां स्नातस् तु विधिवत् संतर्प्य पितृदेवताः ॥

43.76

सर्वपापविनिर्मुक्तो विमानवरम् आस्थितः
भुङ्क्ते बहुविधान् भोगान् स्वर्गलोके नरोत्तमः ॥

43.77

आस्ते तत्रैव भगवान् देवदेवो जनार्दनः
गोविन्दस्वामिनामासौ भुक्तिमुक्तिप्रदो हरिः ॥

43.78

तं दृष्ट्वा मुक्तिम् आप्नोति त्रिसप्तकुलसंयुतः
विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥

43.79

सर्वकामसमृद्धेन कामगेनास्थिरेण च
उपगीयमानो गन्धर्वैर् विष्णुलोके महीयते ॥

43.80

भुङ्क्ते च विविधान् कामान् निरातङ्को गतज्वरः
आभूतसंप्लवं यावत् सुरूपः सुभगः सुखी ॥

43.81

कालेनागत्य मतिमान् ब्राह्मणः स्यान् महीतले
प्रवरे योगिनां गेहे वेदशास्त्रार्थतत्त्ववित् ॥

43.82

वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात्
विक्रमस्वामिनामानं विष्णुं तत्रैव भो द्विजाः ॥

43.83

दृष्ट्वा नरो वा नारी वा फलं पूर्वोदितं लभेत्
अन्ये ऽपि तत्र तिष्ठन्ति देवाः शक्रपुरोगमाः ॥

43.84

मातरश् च मुनिश्रेष्ठाः सर्वकामफलप्रदाः
दृष्ट्वा तान् विधिवद् भक्त्या संपूज्य प्रणिपत्य च ॥

43.85

सर्वपापविनिर्मुक्तो नरो याति त्रिविष्टपम्
एवं सा नगरी रम्या राजसिंहेन पालिता ॥

43.86

नित्योत्सवप्रमुदिता यथेन्द्रस्यामरावती
पुराष्टादशसंयुक्ता सुविस्तीर्णचतुष्पथा ॥

43.87

धनुर्ज्याघोषनिनदा सिद्धसंगमभूषिता
विद्यावद्गणभूयिष्ठा वेदनिर्घोषनादिता ॥

43.88

इतिहासपुराणानि शास्त्राणि विविधानि च
काव्यालापकथाश् चैव श्रूयन्ते ऽहर्निशं द्विजाः ॥

43.89

एवं मया गुणाढ्या सा तदुयिनी?? समुदाहृता
यस्यां राजाभवत् पूर्वम् इन्द्रद्युम्नो महामतिः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc