भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 42

42.1

विरजे विरजा माता ब्रह्माणी संप्रतिष्ठिता
यस्याः संदर्शनान् मर्त्यः पुनात्य् आसप्तमं कुलम् ॥

42.2

सकृद् दृष्ट्वा तु तां देवीं भक्त्यापूज्य प्रणम्य च
नरः स्ववंशम् उद्धृत्य मम लोकं स गच्छति ॥

42.3

अन्याश् च तत्र तिष्ठन्ति विरजे लोकमातरः
सर्वपापहरा देव्यो वरदा भक्तिवत्सलाः ॥

42.4

आस्ते वैतरणी तत्र सर्वपापहरा नदी
यस्यां स्नात्वा नरश्रेष्ठः सर्वपापैः प्रमुच्यते ॥

42.5

आस्ते स्वयंभूस् तत्रैव क्रोडरूपी हरिः स्वयम्
दृष्ट्वा प्रणम्य तं भक्त्या परं विष्णुं व्रजन्ति ते ॥

42.6

कापिले गोग्रहे सोमे तीर्थे चालाबुसंज्ञिते
मृत्युंजये क्रोडतीर्थे वासुके सिद्धकेश्वरे ॥

42.7

तीर्थेष्व् एतेषु मतिमान् विरजे संयतेन्द्रियः
गत्वाष्टतीर्थं विधिवत् स्नात्वा देवान् प्रणम्य च ॥

42.8

सर्वपापविनिर्मुक्तो विमानवरम् आस्थितः
उपगीयमानो गन्धर्वैर् मम लोके महीयते ॥

42.9

विरजे यो मम क्षेत्रे पिण्डदानं करोति वै
स करोत्य् अक्षयां तृप्तिं पितॄणां नात्र संशयः ॥

42.10

मम क्षेत्रे मुनिश्रेष्ठा विरजे ये कलेवरम्
परित्यजन्ति पुरुषास् ते मोक्षं प्राप्नुवन्ति वै ॥

42.11

स्नात्वा यः सागरे मर्त्यो दृष्ट्वा च कपिलं हरिम्
पश्येद् देवीं च वाराहीं स याति त्रिदशालयम् ॥

42.12

सन्ति चान्यानि तीर्थानि पुण्यान्य् आयतनानि च
तत्काले तु मुनिश्रेष्ठा वेदितव्यानि तानि वै ॥

42.13

समुद्रस्योत्तरे तीरे तस्मिन् देशे द्विजोत्तमाः
आस्ते गुह्यं परं क्षेत्रं मुक्तिदं पापनाशनम् ॥

42.14

सर्वत्र वालुकाकीर्णं पवित्रं सर्वकामदम्
दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥

42.15

अशोकार्जुनपुंनागैर् बकुलैः सरलद्रुमैः
पनसैर् नारिकेलैश् च शालैस् तालैः कपित्थकैः ॥

42.16

चम्पकैः कर्णिकारैश् च चूतबिल्वैः सपाटलैः
कदम्बैः कोविदारैश् च लकुचैर् नागकेसरैः ॥

42.17

प्राचीनामलकैर् लोध्रैर् नारङ्गैर् धवखादिरैः
सर्जभूर्जाश्वकर्णैश् च तमालैर् देवदारुभिः ॥

42.18

मन्दारैः पारिजातैश् च न्यग्रोधागुरुचन्दनैः
खर्जूराम्रातकैः सिद्धैर् मुचुकुन्दैः सकिंशुकैः ॥

42.19

अश्वत्थैः सप्तपर्णैश् च मधुधारशुभाञ्जनैः
शिंशपामलकैर् नीपैर् निम्बतिन्दुविभीतकैः ॥

42.20

सर्वर्तुफलगन्धाढ्यैः सर्वर्तुकुसुमोज्ज्वलैः
मनोह्लादकरैः शुभ्रैर् नानाविहगनादितैः ॥

42.21

श्रोत्ररम्यैः सुमधुरैर् बलनिर्मदनेरितैः
मनसः प्रीतिजनकैः शब्दैः खगमुखेरितैः ॥

42.22

चकोरैः शतपत्त्रैश् च भृङ्गराजैस् तथा शुकैः
कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः ॥

42.23

प्रियपुत्रैश् चातकैश् च तथान्यैर् मधुरस्वरैः
श्रोत्ररम्यैः प्रियकरैः कूजद्भिश् चार्वधिष्ठितैः ॥

42.24

केतकीवनखण्डैश् च अतिमुक्तैः सकुब्जकैः
मालतीकुन्दबाणैश् च करवीरैः सितेतरैः ॥

42.25

जम्बीरकरुणाङ्कोलैर् दाडिमैर् बीजपूरकैः
मातुलुङ्गैः पूगफलैर् हिन्तालैः कदलीवनैः ॥

42.26

अन्यैश् च विविधैर् वृक्षैः पुष्पैश् चान्यैर् मनोहरैः
लतावितानगुल्मैश् च विविधैश् च जलाशयैः ॥

42.27

दीर्घिकाभिस् तडागैश् च पुष्करिणीभिश् च वापिभिः
नानाजलाशयैः पुण्यैः पद्मिनीखण्डमण्डितैः ॥

42.28

सरांसि च मनोज्ञानि प्रसन्नसलिलानि च
कुमुदैः पुण्डरीकैश् च तथा नीलोत्पलैः शुभैः ॥

42.29

कह्लारैः कमलैश् चापि आचितानि समन्ततः
कादम्बैश् चक्रवाकैश् च तथैव जलकुक्कुटैः ॥

42.30

कारण्डवैः प्लवैर् हंसैः कूर्मैर् मत्स्यैश् च मद्गुभिः
दात्यूहसारसाकीर्णैः कोयष्टिबकशोभितैः ॥

42.31

एतैश् चान्यैश् च कूजद्भिः समन्ताज् जलचारिभिः
खगैर् जलचरैश् चान्यैः कुसुमैश् च जलोद्भवैः ॥

42.32

एवं नानाविधैर् वृक्षैः पुष्पैः स्थलजलोद्भवैः
ब्रह्मचारिगृहस्थैश् च वानप्रस्थैश् च भिक्षुभिः ॥

42.33

स्वधर्मनिरतैर् वर्णैस् तथान्यैः समलंकृतम्
हृष्टपुष्टजनाकीर्णं नरनारीसमाकुलम् ॥

42.34

अशेषविद्यानिलयं सर्वधर्मगुणाकरम्
एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम् ॥

42.35

आस्ते तत्र मुनिश्रेष्ठा विख्यातः पुरुषोत्तमः
यावद् उत्कलमर्यादा दिक् क्रमेण प्रकीर्तिता ॥

42.36

तावत् कृष्णप्रसादेन देशः पुण्यतमो हि सः
यत्र तिष्ठति विश्वात्मा देशे स पुरुषोत्तमः ॥

42.37

जगद्व्यापी जगन्नाथस् तत्र सर्वं प्रतिष्ठितम्
अहं रुद्रश् च शक्रश् च देवाश् चाग्निपुरोगमाः ॥

42.38

निवसामो मुनिश्रेष्ठास् तस्मिन् देशे सदा वयम्
गन्धर्वाप्सरसः सर्वाः पितरो देवमानुषाः ॥

42.39

यक्षा विद्याधराः सिद्धा मुनयः संशितव्रताः
ऋषयो वालखिल्याश् च कश्यपाद्याः प्रजेश्वराः ॥

42.40

सुपर्णाः किंनरा नागास् तथान्ये स्वर्गवासिनः
साङ्गाश् च चतुरो वेदाः शास्त्राणि विविधानि च ॥

42.41

इतिहासपुराणानि यज्ञाश् च वरदक्षिणाः
नद्यश् च विविधाः पुण्यास् तीर्थान्य् आयतनानि च ॥

42.42

सागराश् च तथा शैलास् तस्मिन् देशे व्यवस्थिताः
एवं पुण्यतमे देशे देवर्षिपितृसेविते ॥

42.43

सर्वोपभोगसहिते वासः कस्य न रोचते
श्रेष्ठत्वं कस्य देशस्य किं चान्यद् अधिकं ततः ॥

42.44

आस्ते यत्र स्वयं देवो मुक्तिदः पुरुषोत्तमः
धन्यास् ते विबुधप्रख्या ये वसन्त्य् उत्कले नराः ॥

42.45

तीर्थराजजले स्नात्वा पश्यन्ति पुरुषोत्तमम्
स्वर्गे वसन्ति ते मर्त्या न ते यान्ति यमालये ॥

42.46

ये वसन्त्य् उत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे
सफलं जीवितं तेषाम् उत्कलानां सुमेधसाम् ॥

42.47

ये पश्यन्ति सुरश्रेष्ठं प्रसन्नायतलोचनम्
चारुभ्रूकेशमुकुटं चारुकर्णावतंसकम् ॥

42.48

चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितम्
सुनासं सुकपोलं च सुललाटं सुलक्षणम् ॥

42.49

त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc