भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 41

41.1

श्रुत्वैवं वै मुनिश्रेष्ठाः कथां पापप्रणाशिनीम्
रुद्रक्रोधोद्भवां पुण्यां व्यासस्य वदतो द्विजाः ॥

41.2

पार्वत्याश् च तथा रोषं क्रोधं शंभोश् च दुःसहम्
उत्पत्तिं वीरभद्रस्य भद्रकाल्याश् च संभवम् ॥

41.3

दक्षयज्ञविनाशं च वीर्यं शंभोस् तथाद्भुतम्
पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः ॥

41.4

यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः
हृष्टा बभूवुः संप्रीता विस्मिताश् च पुनः पुनः ॥

41.5

पप्रच्छुश् च पुनर् व्यासं कथाशेषं तथा द्विजाः
पृष्टः प्रोवाच तान् व्यासः क्षेत्रम् एकाम्रकं पुनः ॥

41.6

ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुंगवाः
प्रशशंसुस् तदा हृष्टा रोमाञ्चिततनूरुहाः ॥

41.7

अहो देवस्य माहात्म्यं त्वया शंभोः प्रकीर्तितम्
दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा ॥

41.8

एकाम्रकं क्षेत्रवरं वक्तुम् अर्हसि सांप्रतम्
श्रोतुम् इच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥

41.9

तेषां तद् वचनं श्रुत्वा लोकनाथश् चतुर्मुखः
प्रोवाच शंभोस् तत् क्षेत्रं भूतले दुष्कृतच्छदम् ॥

41.10

शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः
सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम् ॥

41.11

लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम्
एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम् ॥

41.12

एकाम्रवृक्षस् तत्रासीत् पुरा कल्पे द्विजोत्तमाः
नाम्ना तस्यैव तत् क्षेत्रम् एकाम्रकम् इति श्रुतम् ॥

41.13

हृष्टपुष्टजनाकीर्णं नरनारीसमन्वितम्
विद्वांसगण भूयिष्ठं धनधान्यादिसंयुतम् ॥

41.14

गृहगोपुरसंबाधं त्रिकचाद्वारभूषितम्
नानावणिक्समाकीर्णं नानारत्नोपशोभितम् ॥

41.15

पुराट्टालकसंयुक्तं रथिभिः समलंकृतम्
राजहंसनिभैः शुभ्रैः प्रासादैर् उपशोभितम् ॥

41.16

मार्गगद्वारसंयुक्तं सितप्राकारशोभितम्
रक्षितं शस्त्रसंघैश् च परिखाभिर् अलंकृतम् ॥

41.17

सितरक्तैस् तथा पीतैः कृष्णश्यामैश् च वर्णकैः
समीरणोद्धताभिश् च पताकाभिर् अलंकृतम् ॥

41.18

नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः
वीणावेणुमृदङ्गैश् च क्षेपणीभिर् अलंकृतम् ॥

41.19

देवतायतनैर् दिव्यैः प्राकारोद्यानमण्डितैः
पूजाविचित्ररचितैः सर्वत्र समलंकृतम् ॥

41.20

स्त्रियः प्रमुदितास् तत्र दृश्यन्ते तनुमध्यमाः
हारैर् अलंकृतग्रीवाः पद्मपत्त्रायतेक्षणाः ॥

41.21

पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः
स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः ॥

41.22

सुकेश्यश् चारुजघनाः कर्णान्तायतलोचनाः
सर्वलक्षणसंपन्नाः सर्वाभरणभूषिताः ॥

41.23

दिव्यवस्त्रधराः शुभ्राः काश्चित् काञ्चनसंनिभाः
हंसवारणगामिन्यः कुचभारावनामिताः ॥

41.24

दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः
मदालसाश् च सुश्रोण्यो नित्यं प्रहसिताननाः ॥

41.25

ईषद्विस्पष्टदशना बिम्बौष्ठा मधुरस्वराः
ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः ॥

41.26

सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः
दिव्यवस्त्रधराः सर्वाः सदा चारित्रमण्डिताः ॥

41.27

क्रीडन्ति ताः सदा तत्र स्त्रियश् चाप्सरसोपमाः
स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः ॥

41.28

पुरुषास् तत्र दृश्यन्ते रूपयौवनगर्विताः
सर्वलक्षणसंपन्नाः सुमृष्टमणिकुण्डलाः ॥

41.29

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च मुनिसत्तमाः
स्वधर्मनिरतास् तत्र निवसन्ति सुधार्मिकाः ॥

41.30

अन्याश् च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः
घृताचीमेनकातुल्यास् तथा समतिलोत्तमाः ॥

41.31

उर्वशीसदृशाश् चैव विप्रचित्तिनिभास् तथा
विश्वाचीसहजन्याभाः प्रम्लोचासदृशास् तथा ॥

41.32

सर्वास् ताः प्रियवादिन्यः सर्वा विहसिताननाः
कलाकौशलसंयुक्ताः सर्वास् ता गुणसंयुताः ॥

41.33

एवं पण्यस्त्रियस् तत्र नृत्यगीतविशारदाः
निवसन्ति मुनिश्रेष्ठाः सर्वस्त्रीगुणगर्विताः ॥

41.34

प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः
न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः ॥

41.35

यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः
न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः ॥

41.36

न रोगिणो न मलिना न कदर्या न मायिनः
न रूपहीना दुर्वृत्ता न परद्रोहकारिणः ॥

41.37

तिष्ठन्ति मानवास् तत्र क्षेत्रे जगति विश्रुते
सर्वत्र सुखसंचारं सर्वसत्त्वसुखावहम् ॥

41.38

नानाजनसमाकीर्णं सर्वसस्यसमन्वितम्
कर्णिकारैश् च पनसैश् चम्पकैर् नागकेसरैः ॥

41.39

पाटलाशोकबकुलैः कपित्थैर् बहुलैर् धवैः
चूतनिम्बकदम्बैश् च तथान्यैः पुष्पजातिभिः ॥

41.40

नीपकैर् धवखदिरैर् लताभिश् च विराजितम्
शालैस् तालैस् तमालैश् च नारिकेलैः शुभाञ्जनैः ॥

41.41

अर्जुनैः समपर्णैश् च कोविदारैः सपिप्पलैः
लकुचैः सरलैर् लोध्रैर् हिन्तालैर् देवदारुभिः ॥

41.42

पलाशैर् मुचुकुन्दैश् च पारिजातैः सकुब्जकैः
कदलीवनखण्डैश् च जम्बूपूगफलैस् तथा ॥

41.43

केतकीकरवीरैश् च अतिमुक्तैश् च किंशुकैः
मन्दारकुन्दपुष्पैश् च तथान्यैः पुष्पजातिभिः ॥

41.44

नानापक्षिरुतैः सेव्यैर् उद्यानैर् नन्दनोपमैः
फलभारानतैर् वृक्षैः सर्वर्तुकुसुमोत्करैः ॥

41.45

चकोरैः शतपत्त्रैश् च भृङ्गराजैश् च कोकिलैः
कलविङ्कैर् मयूरैश् च प्रियपुत्रैः शुकैस् तथा ॥

41.46

जीवंजीवकहारीतैश् चातकैर् वनवेष्टितैः
नानापक्षिगणैश् चान्यैः कूजद्भिर् मधुरस्वरैः ॥

41.47

दीर्घिकाभिस् तडागैश् च पुष्करिणीभिश् च वापिभिः
नानाजलाशयैश् चान्यैः पद्मिनीखण्डमण्डितैः ॥

41.48

कुमुदैः पुण्डरीकैश् च तथा नीलोत्पलैः शुभैः
कादम्बैश् चक्रवाकैश् च तथैव जलकुक्कुटैः ॥

41.49

कारण्डवैः प्लवैर् हंसैस् तथान्यैर् जलचारिभिः
एवं नानाविधैर् वृक्षैः पुष्पैर् नानाविधैर् वरैः ॥

41.50

नानाजलाशयैः पुण्यैः शोभितं तत् समन्ततः
आस्ते तत्र स्वयं देवः कृत्तिवासा वृषध्वजः ॥

41.51

हिताय सर्वलोकस्य भुक्तिमुक्तिप्रदः शिवः
पृथिव्यां यानि तीर्थानि सरितश् च सरांसि च ॥

41.52

पुष्करिण्यस् तडागानि वाप्यः कूपाश् च सागराः
तेभ्यः पूर्वं समाहृत्य जलबिन्दून् पृथक् पृथक् ॥

41.53

सर्वलोकहितार्थाय रुद्रः सर्वसुरैः सह
तीर्थं बिन्दुसरो नाम तस्मिन् क्षेत्रे द्विजोत्तमाः ॥

41.54

चकार ऋषिभिः सार्धं तेन बिन्दुसरः स्मृतम्
अष्टम्यां बहुले पक्षे मार्गशीर्षे द्विजोत्तमाः ॥

41.55

यस् तत्र यात्रां कुरुते विषुवे विजितेन्द्रियः
विधिवद् बिन्दुसरसि स्नात्वा श्रद्धासमन्वितः ॥

41.56

देवान् ऋषीन् मनुष्यांश् च पितॄन् संतर्प्य वाग्यतः
तिलोदकेन विधिना नामगोत्रविधानवित् ॥

41.57

स्नात्वैवं विधिवत् तत्र सो ऽश्वमेधफलं लभेत्
ग्रहोपरागे विषुवे संक्रान्त्याम् अयने तथा ॥

41.58

युगादिषु षडशीत्यां तथान्यत्र शुभे तिथौ
ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम् ॥

41.59

अन्यतीर्थाच् छतगुणं फलं ते प्राप्नुवन्ति वै
पिण्डं ये संप्रयच्छन्ति पितृभ्यः सरसस् तटे ॥

41.60

पितॄणाम् अक्षयां तृप्तिं ते कुर्वन्ति न संशयः
ततः शंभोर् गृहं गत्वा वाग्यतः संयतेन्द्रियः ॥

41.61

प्रविश्य पूजयेच् छर्वं कृत्वा तं त्रिः प्रदक्षिणम्
घृतक्षीरादिभिः स्नानं कारयित्वा भवं शुचिः ॥

41.62

चन्दनेन सुगन्धेन विलिप्य कुङ्कुमेन च
ततः संपूजयेद् देवं चन्द्रमौलिम् उमापतिम् ॥

41.63

पुष्पैर् नानाविधैर् मेध्यैर् बिल्वार्ककमलादिभिः
आगमोक्तेन मन्त्रेण वेदोक्तेन च शंकरम् ॥

41.64

अदीक्षितस् तु नाम्नैव मूलमन्त्रेण चार्चयेत्
एवं संपूज्य तं देवं गन्धपुष्पानुरागिभिः ॥

41.65

धूपदीपैश् च नैवेद्यैर् उपहारैस् तथा स्तवैः
दण्डवत्प्रणिपातैश् च गीतैर् वाद्यैर् मनोहरैः ॥

41.66

नृत्यजप्यनमस्कारैर् जयशब्दैः प्रदक्षिणैः
एवं संपूज्य विधिवद् देवदेवम् उमापतिम् ॥

41.67

सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः
कुलैकविंशम् उद्धृत्य दिव्याभरणभूषिताः ॥

41.68

सौवर्णेन विमानेन किङ्किणीजालमालिना
उपगीयमानो गन्धर्वैर् अप्सरोभिर् अलंकृतः ॥

41.69

उद्द्योतयन् दिशः सर्वाः शिवलोकं स गच्छति
भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम् ॥

41.70

तल्लोकवासिभिः सार्धं यावद् आभूतसंप्लवम्
ततस् तस्माद् इहायातः पृथिव्यां पुण्यसंक्षये ॥

41.71

जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः
योगं पाशुपतं प्राप्य ततो मोक्षम् अवाप्नुयात् ॥

41.72

शयनोत्थापने चैव संक्रान्त्याम् अयने तथा
अशोकाख्यां तथाष्टम्यां पवित्रारोपणे तथा ॥

41.73

ये च पश्यन्ति तं देवं कृत्तिवाससम् उत्तमम्
विमानेनार्कवर्णेन शिवलोकं व्रजन्ति ते ॥

41.74

सर्वकाले ऽपि तं देवं ये पश्यन्ति सुमेधसः
ते ऽपि पापविनिर्मुक्ताः शिवलोकं व्रजन्ति वै ॥

41.75

देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा
योजनद्वितयं सार्धं क्षेत्रं तद् भुक्तिमुक्तिदम् ॥

41.76

तस्मिन् क्षेत्रवरे लिङ्गं भास्करेश्वरसंज्ञितम्
पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम् ॥

41.77

आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम्
सर्वपापविनिर्मुक्ता विमानवरम् आस्थिताः ॥

41.78

उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते
तिष्ठन्ति तत्र मुदिताः कल्पम् एकं द्विजोत्तमाः ॥

41.79

भुक्त्वा तु विपुलान् भोगाञ् शिवलोके मनोरमान्
पुण्यक्षयाद् इहायाता जायन्ते प्रवरे कुले ॥

41.80

अथवा योगिनां गेहे वेदवेदाङ्गपारगाः
उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः ॥

41.81

मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः
योगं शंभोर् वरं प्राप्य ततो मोक्षं व्रजन्ति ते ॥

41.82

तस्मिन् क्षेत्रवरे पुण्ये लिङ्गं यद् दृश्यते द्विजाः
पूज्यापूज्यं च सर्वत्र वने रथ्यान्तरे ऽपि वा ॥

41.83

चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति
दृष्ट्वा तल् लिङ्गम् अव्यग्रः श्रद्धया सुसमाहितः ॥

41.84

स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर् मनोहरैः
धूपैर् दीपैः सनैवेद्यैर् नमस्कारैस् तथा स्तवैः ॥

41.85

दण्डवत्प्रणिपातैश् च नृत्यगीतादिभिस् तथा
संपूज्यैवं विधानेन शिवलोकं व्रजेन् नरः ॥

41.86

नारी वा द्विजशार्दूलाः संपूज्य श्रद्धयान्विता
पूर्वोक्तं फलम् आप्नोति नात्र कार्या विचारणा ॥

41.87

कः शक्नोति गुणान् वक्तुं समग्रान् मुनिसत्तमाः
तस्य क्षेत्रवरस्याथ ऋते देवान् महेश्वरात् ॥

41.88

तस्मिन् क्षेत्रोत्तमे गत्वा श्रद्धयाश्रद्धयापि वा
माधवादिषु मासेषु नरो वा यदि वाङ्गना ॥

41.89

यस्मिन् यस्मिंस् तिथौ विप्राः स्नात्वा बिन्दुसरोम्भसि
पश्येद् देवं विरूपाक्षं देवीं च वरदां शिवाम् ॥

41.90

गणं चण्डं कार्त्तिकेयं गणेशं वृषभं तथा
कल्पद्रुमं च सावित्रीं शिवलोकं स गच्छति ॥

41.91

स्नात्वा च कापिले तीर्थे विधिवत् पापनाशने
प्राप्नोत्य् अभिमतान् कामाञ् शिवलोकं स गच्छति ॥

41.92

यः स्तम्भ्यं तत्र विधिवत् करोति नियतेन्द्रियः
कुलैकविंशम् उद्धृत्य शिवलोकं स गच्छति ॥

41.93

एकाम्रके शिवक्षेत्रे वाराणसीसमे शुभे
स्नानं करोति यस् तत्र मोक्षं स लभते ध्रुवम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc