भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 4

4.1

अभिषिच्याधिराजेन्द्रं पृथुं वैण्यं पितामहः
ततः क्रमेण राज्यानि व्यादेष्टुम् उपचक्रमे ॥

4.2

द्विजानां वीरुधां चैव नक्षत्रग्रहयोस् तथा
यज्ञानां तपसां चैव सोमं राज्ये ऽभ्यषेचयत् ॥

4.3

अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम्
आदित्यानां तथा विष्णुं वसूनाम् अथ पावकम् ॥

4.4

प्रजापतीनां दक्षं तु मरुताम् अथ वासवम्
दैत्यानां दानवानां वै प्रह्रादम् अमितौजसम् ॥

4.5

वैवस्वतं पितॄणां च यमं राज्ये ऽभ्यषेचयत्
यक्षाणां राक्षसानां च पार्थिवानां तथैव च ॥

4.6

सर्वभूतपिशाचानां गिरीशं शूलपाणिनम्
शैलानां हिमवन्तं च नदीनाम् अथ सागरम् ॥

4.7

गन्धर्वाणाम् अधिपतिं चक्रे चित्ररथं प्रभुम्
नागानां वासुकिं चक्रे सर्पाणाम् अथ तक्षकम् ॥

4.8

वारणानां तु राजानम् ऐरावतम् अथादिशत्
उच्चैःश्रवसम् अश्वानां गरुडं चैव पक्षिणाम् ॥

4.9

मृगाणाम् अथ शार्दूलं गोवृषं तु गवां पतिम्
वनस्पतीनां राजानं प्लक्षम् एवाभ्यषेचयत् ॥

4.10

एवं विभज्य राज्यानि क्रमेणैव पितामहः
दिशां पालान् अथ ततः स्थापयाम् आस स प्रभुः ॥

4.11

पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः
दिशः पालं सुधन्वानं राजानं सो ऽभ्यषेचयत् ॥

4.12

दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः
पुत्रं शङ्खपदं नाम राजानं सो ऽभ्यषेचयत् ॥

4.13

पश्चिमस्यां दिशि तथा रजसः पुत्रम् अच्युतम्
केतुमन्तं महात्मानं राजानं सो ऽभ्यषेचयत् ॥

4.14

तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः
उदीच्यां दिशि दुर्धर्षं राजानं सो ऽभ्यषेचयत् ॥

4.15

तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना
यथाप्रदेशम् अद्यापि धर्मेण प्रतिपाल्यते ॥

4.16

राजसूयाभिषिक्तस् तु पृथुर् एतैर् नराधिपैः
वेददृष्टेन विधिना राजा राज्ये नराधिपः ॥

4.17

ततो मन्वन्तरे ऽतीते चाक्षुषे ऽमिततेजसि
वैवस्वताय मनवे पृथिव्यां राज्यम् आदिशत् ॥

4.18

तस्य विस्तरम् आख्यास्ये मनोर् वैवस्वतस्य ह
भवतां चानुकूल्याय यदि श्रोतुम् इहेच्छथ
महद् एतद् अधिष्ठानं पुराणे तद् अधिष्ठितम् ॥

4.19

विस्तरेण पृथोर् जन्म लोमहर्षण कीर्तय
यथा महात्मना तेन दुग्धा वेयं वसुंधरा ॥

4.20

यथा वापि नृभिर् दुग्धा यथा देवैर् महर्षिभिः
यथा दैत्यैश् च नागैश् च यथा यक्षैर् यथा द्रुमैः ॥

4.21

यथा शैलैः पिशाचैश् च गन्धर्वैश् च द्विजोत्तमैः
राक्षसैश् च महासत्त्वैर् यथा दुग्धा वसुंधरा ॥

4.22

तेषां पात्रविशेषांश् च वक्तुम् अर्हसि सुव्रत
वत्सक्षीरविशेषांश् च दोग्धारं चानुपूर्वशः ॥

4.23

यस्माच् च कारणात् पाणिर् वेणस्य मथितः पुरा
क्रुद्धैर् महर्षिभिस् तात कारणं तच् च कीर्तय ॥

4.24

शृणुध्वं कीर्तयिष्यामि पृथोर् वैण्यस्य विस्तरम्
एकाग्राः प्रयताश् चैव पुण्यार्थं वै द्विजर्षभाः ॥

4.25

नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य च
कीर्तयेयम् इदं विप्राः कृतघ्नायाहिताय च ॥

4.26

स्वर्ग्यं यशस्यम् आयुष्यं धन्यं वेदैश् च संमितम्
रहस्यम् ऋषिभिः प्रोक्तं शृणुध्वं वै यथातथम् ॥

4.27

यश् चेमं कीर्तयेन् नित्यं पृथोर् वैण्यस्य विस्तरम्
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतम् ॥

4.28

आसीद् धर्मस्य संगोप्ता पूर्वम् अत्रिसमः प्रभुः
अत्रिवंशे समुत्पन्नस् त्व् अङ्गो नाम प्रजापतिः ॥

4.29

तस्य पुत्रो ऽभवद् वेणो नात्यर्थं धर्मकोविदः
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥

4.30

स मातामहदोषेण तेन कालात्मजात्मजः
स्वधर्मं पृष्ठतः कृत्वा कामलोभेष्व् अवर्तत ॥

4.31

मर्यादां भेदयाम् आस धर्मोपेतां स पार्थिवः
वेदधर्मान् अतिक्रम्य सो ऽधर्मनिरतो ऽभवत् ॥

4.32

निःस्वाध्यायवषट्काराः प्रजास् तस्मिन् प्रजापतौ
प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ॥

4.33

न यष्टव्यं न होतव्यम् इति तस्य प्रजापतेः
आसीत् प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥

4.34

अहम् इज्यश् च यष्टा च यज्ञश् चेति भृगूद्वह
मयि यज्ञो विधातव्यो मयि होतव्यम् इत्य् अपि ॥

4.35

तम् अतिक्रान्तमर्यादम् आददानम् असांप्रतम्
ऊचुर् महर्षयः सर्वे मरीचिप्रमुखास् तदा ॥

4.36

वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान् बहून्
अधर्मं कुरु मा वेण एष धर्मः सनातनः ॥

4.37

निधने ऽत्रेः प्रसूतस् त्वं प्रजापतिर् असंशयम्
प्रजाश् च पालयिष्ये ऽहम् इतीह समयः कृतः ॥

4.38

तांस् तथा ब्रुवतः सर्वान् महर्षीन् अब्रवीत् तदा
वेणः प्रहस्य दुर्बुद्धिर् इमम् अर्थम् अनर्थवित् ॥

4.39

स्रष्टा धर्मस्य कश् चान्यः श्रोतव्यं कस्य वा मया
श्रुतवीर्यतपःसत्यैर् मया वा कः समो भुवि ॥

4.40

प्रभवं सर्वभूतानां धर्माणां च विशेषतः
संमूढा न विदुर् नूनं भवन्तो मां विचेतसः ॥

4.41

इच्छन् दहेयं पृथिवीं प्लावयेयं जलैस् तथा
द्यां वै भुवं च रुन्धेयं नात्र कार्या विचारणा ॥

4.42

यदा न शक्यते मोहाद् अवलेपाच् च पार्थिवः
अपनेतुं तदा वेणस् ततः क्रुद्धा महर्षयः ॥

4.43

तं निगृह्य महात्मानो विस्फुरन्तं महाबलम्
ततो ऽस्य सव्यम् ऊरुं ते ममन्थुर् जातमन्यवः ॥

4.44

तस्मिन् निमथ्यमाने वै राज्ञ ऊरौ तु जज्ञिवान्
ह्रस्वो ऽतिमात्रः पुरुषः कृष्णश् चेति बभूव ह ॥

4.45

स भीतः प्राञ्जलिर् भूत्वा तस्थिवान् द्विजसत्तमाः
तम् अत्रिर् विह्वलं दृष्ट्वा निषीदेत्य् अब्रवीत् तदा ॥

4.46

निषादवंशकर्तासौ बभूव वदतां वराः
धीवरान् असृजच् चापि वेणकल्मषसंभवान् ॥

4.47

ये चान्ये विन्ध्यनिलयास् तथा पर्वतसंश्रयाः
अधर्मरुचयो विप्रास् ते तु वै वेणकल्मषाः ॥

4.48

ततः पुनर् महात्मानः पाणिं वेणस्य दक्षिणम्
अरणीम् इव संरब्धा ममन्थुर् जातमन्यवः ॥

4.49

पृथुस् तस्मात् समुत्पन्नः कराज् ज्वलनसंनिभः
दीप्यमानः स्ववपुषा साक्षाद् अग्निर् इव ज्वलन् ॥

4.50

अथ सो ऽजगवं नाम धनुर् गृह्य महारवम्
शरांश् च दिव्यान् रक्षार्थं कवचं च महाप्रभम् ॥

4.51

तस्मिञ् जाते ऽथ भूतानि संप्रहृष्टानि सर्वशः
समापेतुर् महाभागा वेणस् तु त्रिदिवं ययौ ॥

4.52

समुत्पन्नेन भो विप्राः सत्पुत्रेण महात्मना
त्रातः स पुरुषव्याघ्रः पुंनाम्नो नरकात् तदा ॥

4.53

तं समुद्राश् च नद्यश् च रत्नान्य् आदाय सर्वशः
तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे ॥

4.54

पितामहश् च भगवान् देवैर् आङ्गिरसैः सह
स्थावराणि च भूतानि जङ्गमानि च सर्वशः ॥

4.55

समागम्य तदा वैण्यम् अभ्यषिञ्चन् नराधिपम्
महता राजराजेन प्रजास् तेनानुरञ्जिताः ॥

4.56

सो ऽभिषिक्तो महातेजा विधिवद् धर्मकोविदैः
आधिराज्ये तदा राज्ञां पृथुर् वैण्यः प्रतापवान् ॥

4.57

पित्रापरञ्जितास् तस्य प्रजास् तेनानुरञ्जिताः
अनुरागात् ततस् तस्य नाम राजाभ्यजायत ॥

4.58

आपस् तस्तम्भिरे तस्य समुद्रम् अभियास्यतः
पर्वताश् च ददुर् मार्गं ध्वजभङ्गश् च नाभवत् ॥

4.59

अकृष्टपच्या पृथिवी सिध्यन्त्य् अन्नानि चिन्तनात्
सर्वकामदुघा गावः पुटके पुटके मधु ॥

4.60

एतस्मिन्न् एव काले तु यज्ञे पैतामहे शुभे
सूतः सूत्यां समुत्पन्नः सौत्ये ऽहनि महामतिः ॥

4.61

तस्मिन्न् एव महायज्ञे जज्ञे प्राज्ञो ऽथ मागधः
पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥

4.62

ताव् ऊचुर् ऋषयः सर्वे स्तूयताम् एष पार्थिवः
कर्मैतद् अनुरूपं वां पात्रं चायं नराधिपः ॥

4.63

ताव् ऊचतुस् तदा सर्वांस् तान् ऋषीन् सूतमागधौ
आवां देवान् ऋषींश् चैव प्रीणयावः स्वकर्मभिः ॥

4.64

न चास्य विद्मो वै कर्म नाम वा लक्षणं यशः
स्तोत्रं येनास्य कुर्याव राज्ञस् तेजस्विनो द्विजाः ॥

4.65

ऋषिभिस् तौ नियुक्तौ तु भविष्यैः स्तूयताम् इति
यानि कर्माणि कृतवान् पृथुः पश्चान् महाबलः ॥

4.66

ततः प्रभृति वै लोके स्तवेषु मुनिसत्तमाः
आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः ॥

4.67

तयोः स्तवान्ते सुप्रीतः पृथुः प्रादात् प्रजेश्वरः
अनूपदेशं सूताय मगधं मागधाय च ॥

4.68

तं दृष्ट्वा परमप्रीताः प्रजाः प्रोचुर् मनीषिणः
वृत्तीनाम् एष वो दाता भविष्यति नराधिपः ॥

4.69

ततो वैण्यं महात्मानं प्रजाः समभिदुद्रुवुः
त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात् तदा ॥

4.70

सो ऽभिद्रुतः प्रजाभिस् तु प्रजाहितचिकीर्षया
धनुर् गृह्य पृषत्कांश् च पृथिवीम् आद्रवद् बली ॥

4.71

ततो वैण्यभयत्रस्ता गौर् भूत्वा प्राद्रवन् मही
तां पृथुर् धनुर् आदाय द्रवन्तीम् अन्वधावत ॥

4.72

सा लोकान् ब्रह्मलोकादीन् गत्वा वैण्यभयात् तदा
प्रददर्शाग्रतो वैण्यं प्रगृहीतशरासनम् ॥

4.73

ज्वलद्भिर् निशितैर् बाणैर् दीप्ततेजसम् अन्ततः
महायोगं महात्मानं दुर्धर्षम् अमरैर् अपि ॥

4.74

अलभन्ती तु सा त्राणं वैण्यम् एवान्वपद्यत
कृताञ्जलिपुटा भूत्वा पूज्या लोकैस् त्रिभिस् तदा ॥

4.75

उवाच वैण्यं नाधर्मं स्त्रीवधे परिपश्यसि
कथं धारयिता चासि प्रजा राजन् विना मया ॥

4.76

मयि लोकाः स्थिता राजन् मयेदं धार्यते जगत्
मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥

4.77

न माम् अर्हसि हन्तुं वै श्रेयश् चेत् त्वं चिकीर्षसि
प्रजानां पृथिवीपाल शृणु चेदं वचो मम ॥

4.78

उपायतः समारब्धाः सर्वे सिध्यन्त्य् उपक्रमाः
उपायं पश्य येन त्वं धारयेथाः प्रजाम् इमाम् ॥

4.79

हत्वापि मां न शक्तस् त्वं प्रजानां पोषणे नृप
अनुकूला भविष्यामि यच्छ कोपं महामते ॥

4.80

अवध्यां च स्त्रियं प्राहुस् तिर्यग्योनिगतेष्व् अपि
यद्य् एवं पृथिवीपाल न धर्मं त्यक्तुम् अर्हसि ॥

4.81

एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः
कोपं निगृह्य धर्मात्मा वसुधाम् इदम् अब्रवीत् ॥

4.82

एकस्यार्थे तु यो हन्याद् आत्मनो वा परस्य वा
बहून् वा प्राणिनो ऽनन्तं भवेत् तस्येह पातकम् ॥

4.83

सुखम् एधन्ति बहवो यस्मिंस् तु निहते ऽशुभे
तस्मिन् हते नास्ति भद्रे पातकं चोपपातकम् ॥

4.84

सो ऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुंधरे
यदि मे वचनान् नाद्य करिष्यसि जगद्धितम् ॥

4.85

त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम्
आत्मानं प्रथयित्वाहं प्रजा धारयिता स्वयम् ॥

4.86

सा त्वं शासनम् आस्थाय मम धर्मभृतां वरे
संजीवय प्रजाः सर्वाः समर्था ह्य् असि धारणे ॥

4.87

दुहितृत्वं च मे गच्छ तत एनम् अहं शरम्
नियच्छेयं त्वद्वधार्थम् उद्यन्तं घोरदर्शनम् ॥

4.88

सर्वम् एतद् अहं वीर विधास्यामि न संशयः
वत्सं तु मम संपश्य क्षरेयं येन वत्सला ॥

4.89

समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर
यथा विस्यन्दमानं मे क्षीरं सर्वत्र भावयेत् ॥

4.90

तत उत्सारयाम् आस शैलाञ् शतसहस्रशः
धनुष्कोट्या तदा वैण्यस् तेन शैला विवर्धिताः ॥

4.91

नहि पूर्वविसर्गे वै विषमे पृथिवीतले
संविभागः पुराणां वा ग्रामाणां वाभवत् तदा ॥

4.92

न सस्यानि न गोरक्ष्यं न कृषिर् न वणिक्पथः
नैव सत्यानृतं चासीन् न लोभो न च मत्सरः ॥

4.93

वैवस्वते ऽन्तरे तस्मिन् सांप्रतं समुपस्थिते
वैण्यात् प्रभृति वै विप्राः सर्वस्यैतस्य संभवः ॥

4.94

यत्र यत्र समं त्व् अस्या भूमेर् आसीत् तदा द्विजाः
तत्र तत्र प्रजाः सर्वा निवासं समरोचयन् ॥

4.95

आहारः फलमूलानि प्रजानाम् अभवत् तदा
कृच्छ्रेण महता युक्त इत्य् एवम् अनुशुश्रुम ॥

4.96

स कल्पयित्वा वत्सं तु मनुं स्वायंभुवं प्रभुम्
स्वपाणौ पुरुषव्याघ्रो दुदोह पृथिवीं ततः ॥

4.97

सस्यजातानि सर्वाणि पृथुर् वैण्यः प्रतापवान्
तेनान्नेन प्रजाः सर्वा वर्तन्ते ऽद्यापि सर्वशः ॥

4.98

ऋषयश् च तदा देवाः पितरो ऽथ सरीसृपाः
दैत्या यक्षाः पुण्यजना गन्धर्वाः पर्वता नगाः ॥

4.99

एते पुरा द्विजश्रेष्ठा दुदुहुर् धरणीं किल
क्षीरं वत्सश् च पात्रं च तेषां दोग्धा पृथक् पृथक् ॥

4.100

ऋषीणाम् अभवत् सोमो वत्सो दोग्धा बृहस्पतिः
क्षीरं तेषां तपो ब्रह्म पात्रं छन्दांसि भो द्विजाः ॥

4.101

देवानां काञ्चनं पात्रं वत्सस् तेषां शतक्रतुः
क्षीरम् ओजस्करं चैव दोग्धा च भगवान् रविः ॥

4.102

पितॄणां राजतं पात्रं यमो वत्सः प्रतापवान्
अन्तकश् चाभवद् दोग्धा क्षीरं तेषां सुधा स्मृता ॥

4.103

नागानां तक्षको वत्सः पात्रं चालाबुसंज्ञकम्
दोग्धा त्व् ऐरावतो नागस् तेषां क्षीरं विषं स्मृतम् ॥

4.104

असुराणां मधुर् दोग्धा क्षीरं मायामयं स्मृतम्
विरोचनस् तु वत्सो ऽभूद् आयसं पात्रम् एव च ॥

4.105

यक्षाणाम् आमपात्रं तु वत्सो वैश्रवणः प्रभुः
दोग्धा रजतनाभस् तु क्षीरान्तर्धानम् एव च ॥

4.106

सुमाली राक्षसेन्द्राणां वत्सः क्षीरं च शोणितम्
दोग्धा रजतनाभस् तु कपालं पात्रम् एव च ॥

4.107

गन्धर्वाणां चित्ररथो वत्सः पात्रं च पङ्कजम्
दोग्धा च सुरुचिः क्षीरं तेषां गन्धः शुचिः स्मृतः ॥

4.108

शैलं पात्रं पर्वतानां क्षीरं रत्नौषधीस् तथा
वत्सस् तु हिमवान् आसीद् दोग्धा मेरुर् महागिरिः ॥

4.109

प्लक्षो वत्सस् तु वृक्षाणां दोग्धा शालस् तु पुष्पितः
पालाशपात्रं क्षीरं च च्छिन्नदग्धप्ररोहणम् ॥

4.110

सेयं धात्री विधात्री च पावनी च वसुंधरा
चराचरस्य सर्वस्य प्रतिष्ठा योनिर् एव च ॥

4.111

सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहणी
आसीद् इयं समुद्रान्ता मेदिनी परिविश्रुता ॥

4.112

मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता
तेनेयं मेदिनी देवी उच्यते ब्रह्मवादिभिः ॥

4.113

ततो ऽभ्युपगमाद् राज्ञः पृथोर् वैण्यस्य भो द्विजाः
दुहितृत्वम् अनुप्राप्ता देवी पृथ्वीति चोच्यते ॥

4.114

पृथुना प्रविभक्ता च शोधिता च वसुंधरा
सस्याकरवती स्फीता पुरपत्तनशालिनी ॥

4.115

एवंप्रभावो वैण्यः स राजासीद् राजसत्तमः
नमस्यश् चैव पूज्यश् च भूतग्रामैर् न संशयः ॥

4.116

ब्राह्मणैश् च महाभागैर् वेदवेदाङ्गपारगैः
पृथुर् एव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥

4.117

पार्थिवैश् च महाभागैः पार्थिवत्वम् इहेच्छुभिः
आदिराजो नमस्कार्यः पृथुर् वैण्यः प्रतापवान् ॥

4.118

योधैर् अपि च विक्रान्तैः प्राप्तुकामैर् जयं युधि
आदिराजो नमस्कार्यो योधानां प्रथमो नृपः ॥

4.119

यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम्
स घोररूपात् संग्रामात् क्षेमी भवति कीर्तिमान् ॥

4.120

वैश्यैर् अपि च वित्ताढ्यैर् वैश्यवृत्तिविधायिभिः
पृथुर् एव नमस्कार्यो वृत्तिदाता महायशाः ॥

4.121

तथैव शूद्रैः शुचिभिस् त्रिवर्णपरिचारिभिः
पृथुर् एव नमस्कार्यः श्रेयः परम् इहेप्सुभिः ॥

4.122

एते वत्सविशेषाश् च दोग्धारः क्षीरम् एव च
पात्राणि च मयोक्तानि किं भूयो वर्णयामि वः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc