भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 5

5.1

मन्वन्तराणि सर्वाणि विस्तरेण महामते
तेषां पूर्वविसृष्टिं च लोमहर्षण कीर्तय ॥

5.2

यावन्तो मनवश् चैव यावन्तं कालम् एव च
मन्वन्तराणि भोः सूत श्रोतुम् इच्छाम तत्त्वतः ॥

5.3

न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैर् अपि
मन्वन्तराणां सर्वेषां संक्षेपाच् छृणुत द्विजाः ॥

5.4

स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिषस् तथा
उत्तमस् तामसश् चैव रैवतश् चाक्षुषस् तथा ॥

5.5

वैवस्वतश् च भो विप्राः सांप्रतं मनुर् उच्यते
सावर्णिश् च मनुस् तद्वद् रैभ्यो रौच्यस् तथैव च ॥

5.6

तथैव मेरुसावर्ण्यश् चत्वारो मनवः स्मृताः
अतीता वर्तमानाश् च तथैवानागता द्विजाः ॥

5.7

कीर्तिता मनवस् तुभ्यं मयैवैते यथा श्रुताः
ऋषींस् त्व् एषां प्रवक्ष्यामि पुत्रान् देवगणांस् तथा ॥

5.8

मरीचिर् अत्रिर् भगवान् अङ्गिराः पुलहः क्रतुः
पुलस्त्यश् च वसिष्ठश् च सप्तैते ब्रह्मणः सुताः ॥

5.9

उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस् तथा
आग्निइध्रश् चाग्निबाहुश् च मेध्यो मेधातिथिर् वसुः ॥

5.10

ज्योतिष्मान् द्युतिमान् हव्यः सवलः पुत्रसंज्ञकः
मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः ॥

5.11

एतद् वै प्रथमं विप्रा मन्वन्तरम् उदाहृतम्
और्वो वसिष्ठपुत्रश् च स्तम्बः कश्यप एव च ॥

5.12

प्राणो बृहस्पतिश् चैव दत्तो ऽत्रिच्च्यवनस् तथा
एते महर्षयो विप्रा वायुप्रोक्ता महाव्रताः ॥

5.13

देवाश् च तुषिता नाम स्मृताः स्वारोचिषे ऽन्तरे
हविघ्नः सुकृतिर् ज्योतिर् आपो मूर्तिर् अपि स्मृतः ॥

5.14

प्रतीतश् च नभस्यश् च नभ ऊर्जस् तथैव च
स्वारोचिषस्य पुत्रास् ते मनोर् विप्रा महात्मनः ॥

5.15

कीर्तिताः पृथिवीपाला महावीर्यपराक्रमाः
द्वितीयम् एतत् कथितं विप्रा मन्वन्तरं मया ॥

5.16

इदं तृतीयं वक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः
वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ॥

5.17

हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः
ऋषयो ऽत्र मया प्रोक्ताः कीर्त्यमानान् निबोधत ॥

5.18

औत्तमेयान् मुनिश्रेष्ठा दश पुत्रान् मनोर् इमान्
इष ऊर्जस् तनूर्जस् तु मधुर् माधव एव च ॥

5.19

शुचिः शुक्रः सहश् चैव नभस्यो नभ एव च
भानवस् तत्र देवाश् च मन्वन्तरम् उदाहृतम् ॥

5.20

मन्वन्तरं चतुर्थं वः कथयिष्यामि सांप्रतम्
काव्यः पृथुस् तथैवाग्निर् जह्नुर् धाता द्विजोत्तमाः ॥

5.21

कपीवान् अकपीवांश् च तत्र सप्तर्षयो द्विजाः
पुराणे कीर्तिता विप्राः पुत्राः पौत्राश् च भो द्विजाः ॥

5.22

तथा देवगणाश् चैव तामसस्यान्तरे मनोः
द्युतिस् तपस्यः सुतपास् तपोभूतः सनातनः ॥

5.23

तपोरतिर् अकल्माषस् तन्वी धन्वी परंतपः
तामसस्य मनोर् एते दश पुत्राः प्रकीर्तिताः ॥

5.24

वायुप्रोक्ता मुनिश्रेष्ठाश् चतुर्थं चैतद् अन्तरम्
देवबाहुर् यदुध्रश् च मुनिर् वेदशिरास् तथा ॥

5.25

हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश् च सोमजः
सत्यनेत्रस् तथात्रेय एते सप्तर्षयो ऽपरे ॥

5.26

देवाश् चाभूतरजसस् तथा प्रकृतयः स्मृताः
वारिप्लवश् च रैभ्यश् च मनोर् अन्तरम् उच्यते ॥

5.27

अथ पुत्रान् इमांस् तस्य बुध्यध्वं गदतो मम
धृतिमान् अव्ययो युक्तस् तत्त्वदर्शी निरुत्सुकः ॥

5.28

आरण्यश् च प्रकाशश् च निर्मोहः सत्यवाक् कृती
रैवतस्य मनोः पुत्राः पञ्चमं चैतद् अन्तरम् ॥

5.29

षष्ठं तु संप्रवक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः
भृगुर् नभो विवस्वांश् च सुधामा विरजास् तथा ॥

5.30

अतिनामा सहिष्णुश् च सप्तैते च महर्षयः
चाक्षुषस्यान्तरे विप्रा मनोर् देवास् त्व् इमे स्मृताः ॥

5.31

आबालप्रथितास् ते वै पृथक्त्वेन दिवौकसः
लेखाश् च नामतो विप्राः पञ्च देवगणाः स्मृताः ॥

5.32

ऋषेर् अङ्गिरसः पुत्रा महात्मानो महौजसः
नाड्वलेया मुनिश्रेष्ठा दश पुत्रास् तु विश्रुताः ॥

5.33

रुरुप्रभृतयो विप्राश् चाक्षुषस्यान्तरे मनोः
षष्ठं मन्वन्तरं प्रोक्तं सप्तमं तु निबोधत ॥

5.34

अत्रिर् वसिष्ठो भगवान् कश्यपश् च महान् ऋषिः
गौतमो ऽथ भरद्वाजो विश्वामित्रस् तथैव च ॥

5.35

तथैव पुत्रो भगवान् ऋचीकस्य महात्मनः
सप्तमो जमदग्निश् च ऋषयः सांप्रतं दिवि ॥

5.36

साध्या रुद्राश् च विश्वे च वसवो मरुतस् तथा
आदित्याश् चाश्विनौ चापि देवौ वैवस्वतौ स्मृतौ ॥

5.37

मनोर् वैवस्वतस्यैते वर्तन्ते सांप्रते ऽन्तरे
इक्ष्वाकुप्रमुखाश् चैव दश पुत्रा महात्मनः ॥

5.38

एतेषां कीर्तितानां तु महर्षीणां महौजसाम्
तेषां पुत्राश् च पौत्राश् च दिक्षु सर्वासु भो द्विजाः ॥

5.39

मन्वन्तरेषु सर्वेषु प्राग् आसन् सप्त सप्तकाः
लोके धर्मव्यवस्थार्थं लोकसंरक्षणाय च ॥

5.40

मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः
कृत्वा कर्म दिवं यान्ति ब्रह्मलोकम् अनामयम् ॥

5.41

ततो ऽन्ये तपसा युक्ताः स्थानं तत् पूरयन्त्य् उत
अतीता वर्तमानाश् च क्रमेणैतेन भो द्विजाः ॥

5.42

अनागताश् च सप्तैते स्मृता दिवि महर्षयः
मनोर् अन्तरम् आसाद्य सावर्णस्येह भो द्विजाः ॥

5.43

रामो व्यासस् तथात्रेयो दीप्तिमन्तो बहुश्रुताः
भारद्वाजस् तथा द्रौणिर् अश्वत्थामा महाद्युतिः ॥

5.44

गौतमश् चाजरश् चैव शरद्वान् नाम गौतमः
कौशिको गालवश् चैव और्वः काश्यप एव च ॥

5.45

एते सप्त महात्मानो भविष्या मुनिसत्तमाः
वैरी चैवाध्वरीवांश् च शमनो धृतिमान् वसुः ॥

5.46

अरिष्टश् चाप्य् अधृष्टश् च वाजी सुमतिर् एव च
सावर्णस्य मनोः पुत्रा भविष्या मुनिसत्तमाः ॥

5.47

एतेषां कल्यम् उत्थाय कीर्तनात् सुखम् एधते
यशश् चाप्नोति सुमहद् आयुष्मांश् च भवेन् नरः ॥

5.48

एतान्य् उक्तानि भो विप्राः सप्त सप्त च तत्त्वतः
मन्वन्तराणि संक्षेपाच् छृणुतानागतान्य् अपि ॥

5.49

सावर्णा मनवो विप्राः पञ्च तांश् च निबोधत
एको वैवस्वतस् तेषां चत्वारस् तु प्रजापतेः ॥

5.50

परमेष्ठिसुता विप्रा मेरुसावर्ण्यतां गताः
दक्षस्यैते हि दौहित्राः प्रियायास् तनया नृपाः ॥

5.51

महता तपसा युक्ता मेरुपृष्ठे महौजसः
रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः ॥

5.52

भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः
अनागताश् च सप्तैते कल्पे ऽस्मिन् मनवः स्मृताः ॥

5.53

तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना
पूर्णं युगसहस्रं तु परिपाल्या द्विजोत्तमाः ॥

5.54

प्रजापतिश् च तपसा संहारं तेषु नित्यशः
युगानि सप्ततिस् तानि साग्राणि कथितानि च ॥

5.55

कृतत्रेतादियुक्तानि मनोर् अन्तरम् उच्यते
चतुर्दशैते मनवः कथिताः कीर्तिवर्धनाः ॥

5.56

वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः
प्रजानां पतयो विप्रा धन्यम् एषां प्रकीर्तनम् ॥

5.57

मन्वन्तरेषु संहाराः संहारान्तेषु संभवाः
न शक्यते ऽन्तस् तेषां वै वक्तुं वर्षशतैर् अपि ॥

5.58

विसर्गस्य प्रजानां वै संहारस्य च भो द्विजाः
मन्वन्तरेषु संहाराः श्रूयन्ते द्विजसत्तमाः ॥

5.59

सशेषास् तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह
तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः ॥

5.60

पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते
तत्र भूतानि सर्वाणि दग्धान्य् आदित्यरश्मिभिः ॥

5.61

ब्रह्माणम् अग्रतः कृत्वा सहादित्यगणैर् द्विजाः
प्रविशन्ति सुरश्रेष्ठं हरिनारायणं प्रभुम् ॥

5.62

स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनः पुनः
अव्यक्तः शाश्वतो देवस् तस्य सर्वम् इदं जगत् ॥

5.63

अत्र वः कीर्तयिष्यामि मनोर् वैवस्वतस्य वै
विसर्गं मुनिशार्दूलाः सांप्रतस्य महाद्युतेः ॥

5.64

अत्र वंशप्रसङ्गेन कथ्यमानं पुरातनम्
यत्रोत्पन्नो महात्मा स हरिर् वृष्णिकुले प्रभुः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc