भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 3

3.1

देवानां दानवानां च गन्धर्वोरगरक्षसाम्
उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्तय ॥

3.2

प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा
यथा ससर्ज भूतानि तथा शृणुत भो द्विजाः ॥

3.3

मानसान्य् एव भूतानि पूर्वम् एवासृजत् प्रभुः
ऋषीन् देवान् सगन्धर्वान् असुरान् यक्षराक्षसान् ॥

3.4

यदास्य मानसी विप्रा न व्यवर्धत वै प्रजा
तदा संचिन्त्य धर्मात्मा प्रजाहेतोः प्रजापतिः ॥

3.5

स मैथुनेन धर्मेण सिसृक्षुर् विविधाः प्रजाः
असिक्नीम् आवहत् पत्नीं वीरणस्य प्रजापतेः ॥

3.6

सुतां सुतपसा युक्तां महतीं लोकधारिणीम्
अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान् ॥

3.7

असिक्न्यां जनयाम् आस दक्ष एव प्रजापतिः
तांस् तु दृष्ट्वा महाभागान् संविवर्धयिषून् प्रजाः ॥

3.8

देवर्षिः प्रियसंवादो नारदः प्राब्रवीद् इदम्
नाशाय वचनं तेषां शापायैवात्मनस् तथा ॥

3.9

यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत्
दक्षस्य वै दुहितरि दक्षशापभयान् मुनिः ॥

3.10

पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः
असिक्न्याम् अथ वैरण्यां भूयो देवर्षिसत्तमः ॥

3.11

तं भूयो जनयाम् आस पितेव मुनिपुंगवम्
तेन दक्षस्य वै पुत्रा हर्यश्वा इति विश्रुताः ॥

3.12

निर्मथ्य नाशिताः सर्वे विधिना च न संशयः
तस्योद्यतस् तदा दक्षो नाशायामितविक्रमः ॥

3.13

ब्रह्मर्षीन् पुरतः कृत्वा याचितः परमेष्ठिना
ततो ऽभिसंधिश् चक्रे वै दक्षस्य परमेष्ठिना ॥

3.14

कन्यायां नारदो मह्यं तव पुत्रो भवेद् इति
ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने
स तस्यां नारदो जज्ञे भूयः शापभयाद् ऋषिः ॥

3.15

कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा
प्रजापतेः सूतवर्य श्रोतुम् इच्छाम तत्त्वतः ॥

3.16

दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः
समागता महावीर्या नारदस् तान् उवाच ह ॥

3.17

बालिशा बत यूयं वै नास्या जानीत वै भुवः
प्रमाणं स्रष्टुकामा वै प्रजाः प्राचेतसात्मजाः ॥

3.18

अन्तर् ऊर्ध्वम् अधश् चैव कथं सृजथ वै प्रजाः
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशः ॥

3.19

अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः
हर्यश्वेष्व् अथ नष्टेषु दक्षः प्राचेतसः पुनः ॥

3.20

वैरण्याम् अथ पुत्राणां सहस्रम् असृजत् प्रभुः
विवर्धयिषवस् ते तु शबलाश्वास् तथा प्रजाः ॥

3.21

पूर्वोक्तं वचनं ते तु नारदेन प्रचोदिताः
अन्योन्यम् ऊचुस् ते सर्वे सम्यग् आह महान् ऋषिः ॥

3.22

भ्रातॄणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः
ज्ञात्वा प्रमाणं पृथ्व्याश् च सुखं स्रक्ष्यामहे प्रजाः ॥

3.23

ते ऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम्
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥

3.24

तदा प्रभृति वै भ्राता भ्रातुर् अन्वेषणे द्विजाः
प्रयातो नश्यति क्षिप्रं तन् न कार्यं विपश्चिता ॥

3.25

तांश् चैव नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः
षष्टिं ततो ऽसृजत् कन्या वैरण्याम् इति नः श्रुतम् ॥

3.26

तास् तदा प्रतिजग्राह भार्यार्थं कश्यपः प्रभुः
सोमो धर्मश् च भो विप्रास् तथैवान्ये महर्षयः ॥

3.27

ददौ स दश धर्माय कश्यपाय त्रयोदश
सप्तविंशति सोमाय चतस्रो ऽरिष्टनेमिने ॥

3.28

द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥

3.29

अरुन्धती वसुर् यामी लम्बा भानुर् मरुत्वती
संकल्पा च मुहूर्ता च साध्या विश्वा च भो द्विजाः ॥

3.30

धर्मपत्न्यो दश त्व् एतास् तास्व् अपत्यानि बोधत
विश्वेदेवास् तु विश्वायाः साध्या साध्यान् व्यजायत ॥

3.31

मरुत्वत्यां मरुत्वन्तो वसोस् तु वसवः सुताः
भानोस् तु भानवः पुत्रा मुहूर्तास् तु मुहूर्तजाः ॥

3.32

लम्बायाश् चैव घोषो ऽथ नागवीथी च यामिजा
पृथिवी विषयं सर्वम् अरुन्धत्यां व्यजायत ॥

3.33

संकल्पायास् तु विश्वात्मा जज्ञे संकल्प एव हि
नागवीथ्यां च यामिन्यां वृषलश् च व्यजायत ॥

3.34

परा याः सोमपत्नीश् च दक्षः प्राचेतसो ददौ
सर्वा नक्षत्रनाम्न्यस् ता ज्योतिषे परिकीर्तिताः ॥

3.35

ये त्व् अन्ये ख्यातिमन्तो वै देवा ज्योतिष्पुरोगमाः
वसवो ऽष्टौ समाख्यातास् तेषां वक्ष्यामि विस्तरम् ॥

3.36

आपो ध्रुवश् च सोमश् च धवश् चैवानिलो ऽनलः
प्रत्यूषश् च प्रभासश् च वसवो नामभिः स्मृताः ॥

3.37

आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो मुनिस् तथा
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ॥

3.38

सोमस्य भगवान् वर्चा वर्चस्वी येन जायते
धवस्य पुत्रो द्रविणो हुतहव्यवहस् तथा
मनोहरायाः शिशिरः प्राणो ऽथ रमणस् तथा ॥

3.39

अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः
अविज्ञातगतिश् चैव द्वौ पुत्राव् अनिलस्य च ॥

3.40

अग्निपुत्रः कुमारस् तु शरस्तम्बे श्रिया वृतः
तस्य शाखो विशाखश् च नैगमेयश् च पृष्ठजः ॥

3.41

अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः
प्रत्यूषस्य विदुः पुत्रम् ऋषिं नाम्नाथ देवलम् ॥

3.42

द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ
बृहस्पतेस् तु भगिनी वरस्त्री ब्रह्मवादिनी ॥

3.43

योगसिद्धा जगत् कृत्स्नम् असक्ता विचचार ह
प्रभासस्य तु सा भार्या वसूनाम् अष्टमस्य तु ॥

3.44

विश्वकर्मा महाभागो यस्यां जज्ञे प्रजापतिः
कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ॥

3.45

भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः
यः सर्वेषां विमानानि दैवतानां चकार ह ॥

3.46

मानुषाश् चोपजीवन्ति यस्य शिल्पं महात्मनः
सुरभी कश्यपाद् रुद्रान् एकादश विनिर्ममे ॥

3.47

महादेवप्रसादेन तपसा भाविता सती
अजैकपाद् अहिर्बुध्न्यस् त्वष्टा रुद्रश् च वीर्यवान् ॥

3.48

हरश् च बहुरूपश् च त्र्यम्बकश् चापराजितः
वृषाकपिश् च शंभुश् च कपर्दी रैवतस् तथा ॥

3.49

मृगव्याधश् च शर्वश् च कपाली च द्विजोत्तमाः
एकादशैते विख्याता रुद्रास् त्रिभुवनेश्वराः ॥

3.50

शतं त्व् एवं समाख्यातं रुद्राणाम् अमितौजसाम्
पुराणे मुनिशार्दूला यैर् व्याप्तं सचराचरम् ॥

3.51

दाराञ् शृणुध्वं विप्रेन्द्राः कश्यपस्य प्रजापतेः
अदितिर् दितिर् दनुश् चैव अरिष्टा सुरसा खसा ॥

3.52

सुरभिर् विनता चैव ताम्रा क्रोधवशा इरा
कद्रुर् मुनिश् च भो विप्रास् तास्व् अपत्यानि बोधत ॥

3.53

पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः
तुषिता नाम ते ऽन्योन्यम् ऊचुर् वैवस्वते ऽन्तरे ॥

3.54

उपस्थिते ऽतियशसश् चाक्षुषस्यान्तरे मनोः
हितार्थं सर्वलोकानां समागम्य परस्परम् ॥

3.55

आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै
मन्वन्तरे प्रसूयामस् तन् नः श्रेयो भविष्यति ॥

3.56

एवम् उक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः
मारीचात् कश्यपाज् जातास् त्व् अदित्या दक्षकन्यया ॥

3.57

तत्र विष्णुश् च शक्रश् च जज्ञाते पुनर् एव हि
अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥

3.58

विवस्वान् सविता चैव मित्रो वरुण एव च
अंशो भगश् चातितेजा आदित्या द्वादश स्मृताः ॥

3.59

सप्तविंशति याः प्रोक्ताः सोमपत्न्यो महाव्रताः
तासाम् अपत्यान्य् अभवन् दीप्तान्य् अमिततेजसः ॥

3.60

अरिष्टनेमिपत्नीनाम् अपत्यानीह षोडश
बहुपुत्रस्य विदुषश् चतस्रो विद्युतः स्मृताः ॥

3.61

चाक्षुषस्यान्तरे पूर्वे ऋचो ब्रह्मर्षिसत्कृताः
कृशाश्वस्य च देवर्षेर् देवप्रहरणाः स्मृताः ॥

3.62

एते युगसहस्रान्ते जायन्ते पुनर् एव हि
सर्वे देवगणाश् चात्र त्रयस्त्रिंशत् तु कामजाः ॥

3.63

तेषाम् अपि च भो विप्रा निरोधोत्पत्तिर् उच्यते
यथा सूर्यस्य गगन उदयास्तमयाव् इह ॥

3.64

एवं देवनिकायास् ते संभवन्ति युगे युगे
दित्याः पुत्रद्वयं जज्ञे कश्यपाद् इति नः श्रुतम् ॥

3.65

हिरण्यकशिपुश् चैव हिरण्याक्षश् च वीर्यवान्
सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ॥

3.66

सैंहिकेया इति ख्याता यस्याः पुत्रा महाबलाः
हिरण्यकशिपोः पुत्राश् चत्वारः प्रथितौजसः ॥

3.67

ह्रादश् च अनुह्रादश् च प्रह्रादश् चैव वीर्यवान्
संह्रादश् च चतुर्थो ऽभूद् ध्रादपुत्रो ह्रदस् तथा ॥

3.68

ह्रदस्य पुत्रौ द्वौ वीरौ शिवः कालस् तथैव च
विरोचनश् च प्राह्रादिर् बलिर् जज्ञे विरोचनात् ॥

3.69

बलेः पुत्रशतम् आसीद् बाणज्येष्ठं तपोधनाः
धृतराष्ट्रश् च सूर्यश् च चन्द्रमाश् चन्द्रतापनः ॥

3.70

कुम्भनाभो गर्दभाक्षः कुक्षिर् इत्य् एवमादयः
बाणस् तेषाम् अतिबलो ज्येष्ठः पशुपतेः प्रियः ॥

3.71

पुरा कल्पे तु बाणेन प्रसाद्योमापतिं प्रभुम्
पार्श्वतो विहरिष्यामि इत्य् एवं याचितो वरः ॥

3.72

हिरण्याक्षसुताश् चैव विद्वांसश् च महाबलाः
भर्भरः शकुनिश् चैव भूतसंतापनस् तथा ॥

3.73

महानाभश् च विक्रान्तः कालनाभस् तथैव च
अभवन् दनुपुत्राश् च शतं तीव्रपराक्रमाः ॥

3.74

तपस्विनो महावीर्याः प्राधान्येन ब्रवीमि तान्
द्विमूर्धा शङ्कुकर्णश् च तथा हयशिरा विभुः ॥

3.75

अयोमुखः शम्बरश् च कपिलो वामनस् तथा
मारीचिर् मघवांश् चैव इल्वलः स्वसृमस् तथा ॥

3.76

विक्षोभणश् च केतुश् च केतुवीर्यशतह्रदौ
इन्द्रजित् सर्वजिच् चैव वज्रनाभस् तथैव च ॥

3.77

एकचक्रो महाबाहुस् तारकश् च महाबलः
वैश्वानरः पुलोमा च विद्रावणमहाशिराः ॥

3.78

स्वर्भानुर् वृषपर्वा च विप्रचित्तिश् च वीर्यवान्
सर्व एते दनोः पुत्राः कश्यपाद् अभिजज्ञिरे ॥

3.79

विप्रचित्तिप्रधानास् ते दानवाः सुमहाबलाः
एतेषां पुत्रपौत्रं तु न तच् छक्यं द्विजोत्तमाः ॥

3.80

प्रसंख्यातुं बहुत्वाच् च पुत्रपौत्रम् अनन्तकम्
स्वर्भानोस् तु प्रभा कन्या पुलोम्नस् तु शची सुता ॥

3.81

उपदीप्तिर् हयशिराः शर्मिष्ठा वार्षपर्वणी
पुलोमा कालिका चैव वैश्वानरसुते उभे ॥

3.82

बह्वपत्ये महापत्ये मरीचेस् तु परिग्रहः
तयोः पुत्रसहस्राणि षष्टिर् दानवनन्दनाः ॥

3.83

चतुर्दशशतान् अन्यान् हिरण्यपुरवासिनः
मरीचिर् जनयाम् आस महता तपसान्वितः ॥

3.84

पौलोमाः कालकेयाश् च दानवास् ते महाबलाः
अवध्या देवतानां हि हिरण्यपुरवासिनः ॥

3.85

पितामहप्रसादेन ये हताः सव्यसाचिना
ततो ऽपरे महावीर्या दानवास् त्व् अतिदारुणाः ॥

3.86

सिंहिकायाम् अथोत्पन्ना विप्रचित्तेः सुतास् तथा
दैत्यदानवसंयोगाज् जातास् तीव्रपराक्रमाः ॥

3.87

सैंहिकेया इति ख्यातास् त्रयोदश महाबलाः
वंश्यः शल्यश् च बलिनौ नलश् चैव तथा बलः ॥

3.88

वातापिर् नमुचिश् चैव इल्वलः स्वसृमस् तथा
अञ्जिको नरकश् चैव कालनाभस् तथैव च ॥

3.89

सरमानस् तथा चैव स्वरकल्पश् च वीर्यवान्
एते वै दानवाः श्रेष्ठा दनोर् वंशविवर्धनाः ॥

3.90

तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः
संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ॥

3.91

समुत्पन्नाः सुमहता तपसा भावितात्मनः
तिस्रः कोट्यः सुतास् तेषां मणिवत्यां निवासिनः ॥

3.92

अवध्यास् ते ऽपि देवानाम् अर्जुनेन निपातिताः
षट् सुताः सुमहाभागास् ताम्रायाः परिकीर्तिताः ॥

3.93

क्रौञ्ची श्येनी च भासी च सुग्रीवी शुचिगृध्रिका
क्रौञ्ची तु जनयाम् आस उलूकप्रत्युलूककान् ॥

3.94

श्येनी श्येनांस् तथा भासी भासान् गृध्रांश् च गृध्र्य् अपि
शुचिर् औदकान् पक्षिगणान् सुग्रीवी तु द्विजोत्तमाः ॥

3.95

अश्वान् उष्ट्रान् गर्दभांश् च ताम्रावंशः प्रकीर्तितः
विनतायास् तु द्वौ पुत्रौ विख्यातौ गरुडारुणौ ॥

3.96

गरुडः पततां श्रेष्ठो दारुणः स्वेन कर्मणा
सुरसायाः सहस्रं तु सर्पाणाम् अमितौजसाम् ॥

3.97

अनेकशिरसां विप्राः खचराणां महात्मनाम्
काद्रवेयास् तु बलिनः सहस्रम् अमितौजसः ॥

3.98

सुपर्णवशगा नागा जज्ञिरे नैकमस्तकाः
येषां प्रधानाः सततं शेषवासुकितक्षकाः ॥

3.99

ऐरावतो महापद्मः कम्बलाश्वतराव् उभौ
एलापत्त्रश् च शङ्खश् च कर्कोटकधनंजयौ ॥

3.100

महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ
कुहरः पुष्पदंष्ट्रश् च दुर्मुखः सुमुखस् तथा ॥

3.101

शङ्खश् च शङ्खपालश् च कपिलो वामनस् तथा
नहुषः शङ्खरोमा च मणिर् इत्य् एवमादयः ॥

3.102

तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः
चतुर्दशसहस्राणि क्रूराणाम् अनिलाशिनाम् ॥

3.103

गणं क्रोधवंशं विप्रास् तस्य सर्वे च दंष्ट्रिणः
स्थलजाः पक्षिणो ऽब्जाश् च धरायाः प्रसवाः स्मृताः ॥

3.104

गास् तु वै जनयाम् आस सुरभिर् महिषीस् तथा
इरा वृक्षलता वल्लीस् तृणजातीश् च सर्वशः ॥

3.105

खसा तु यक्षरक्षांसि मुनिर् अप्सरसस् तथा
अरिष्टा तु महासिद्धा गन्धर्वान् अमितौजसः ॥

3.106

एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः
येषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः ॥

3.107

एष मन्वन्तरे विप्राः सर्गः स्वारोचिषे स्मृतः
वैवस्वते ऽतिमहति वारुणे वितते क्रतौ ॥

3.108

जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते
पूर्वं यत्र समुत्पन्नान् ब्रह्मर्षीन् सप्त मानसान् ॥

3.109

पुत्रत्वे कल्पयाम् आस स्वयम् एव पितामहः
ततो विरोधे देवानां दानवानां च भो द्विजाः ॥

3.110

दितिर् विनष्टपुत्रा वै तोषयाम् आस कश्यपम्
कश्यपस् तु प्रसन्नात्मा सम्यग् आराधितस् तया ॥

3.111

वरेण च्छन्दयाम् आस सा च वव्रे वरं तदा
पुत्रम् इन्द्रवधार्थाय समर्थम् अमितौजसम् ॥

3.112

स च तस्मै वरं प्रादात् प्रार्थितः सुमहातपाः
दत्त्वा च वरम् अत्युग्रो मारीचः समभाषत ॥

3.113

इन्द्रं पुत्रो निहन्ता ते गर्भं वै शरदां शतम्
यदि धारयसे शौच तत्परा व्रतम् आस्थिता ॥

3.114

तथेत्य् अभिहितो भर्ता तया देव्या महातपाः
धारयाम् आस गर्भं तु शुचिः सा मुनिसत्तमाः ॥

3.115

ततो ऽभ्युपागमद् दित्यां गर्भम् आधाय कश्यपः
रोधयन् वै गणं श्रेष्ठं देवानाम् अमितौजसम् ॥

3.116

तेजः संहृत्य दुर्धर्षम् अवध्यम् अमरैर् अपि
जगाम पर्वतायैव तपसे संशितव्रता ॥

3.117

तस्याश् चैवान्तरप्रेप्सुर् अभवत् पाकशासनः
जाते वर्षशते चास्या ददर्शान्तरम् अच्युतः ॥

3.118

अकृत्वा पादयोः शौचं दितिः शयनम् आविशत्
निद्रां चाहारयाम् आस तस्यां कुक्षिं प्रविश्य सः ॥

3.119

वज्रपाणिस् ततो गर्भं सप्तधा तं न्यकृन्तयत्
स पाट्यमानो गर्भो ऽथ वज्रेण प्ररुरोद ह ॥

3.120

मा रोदीर् इति तं शक्रः पुनः पुनर् अथाब्रवीत्
सो ऽभवत् सप्तधा गर्भस् तम् इन्द्रो रुषितः पुनः ॥

3.121

एकैकं सप्तधा चक्रे वज्रेणैवारिकर्षणः
मरुतो नाम ते देवा बभूवुर् द्विजसत्तमाः ॥

3.122

यथोक्तं वै मघवता तथैव मरुतो ऽभवन्
देवाश् चैकोनपञ्चाशत् सहाया वज्रपाणिनः ॥

3.123

तेषाम् एवं प्रवृत्तानां भूतानां द्विजसत्तमाः
रोचयन् वै गणश्रेष्ठान् देवानाम् अमितौजसाम् ॥

3.124

निकायेषु निकायेषु हरिः प्रादात् प्रजापतीन्
क्रमशस् तानि राज्यानि पृथुपूर्वाणि भो द्विजाः ॥

3.125

स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः
पर्जन्यस् तपनो ऽनन्तस् तस्य सर्वम् इदं जगत् ॥

3.126

भूतसर्गम् इमं सम्यग् जानतो द्विजसत्तमाः
नावृत्तिभयम् अस्तीह परलोकभयं कुतः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc