भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 39

39.1

प्राचेतसस्य दक्षस्य कथं वैवस्वते ऽन्तरे
विनाशम् अगमद् ब्रह्मन् हयमेधः प्रजापतेः ॥

39.2

देव्या मन्युकृतं बुद्ध्वा क्रुद्धः सर्वात्मकः प्रभुः
कथं विनाशितो यज्ञो दक्षस्यामिततेजसः
महादेवेन रोषाद् वै तन् नः प्रब्रूहि विस्तरात् ॥

39.3

वर्णयिष्यामि वो विप्रा महादेवेन वै यथा
क्रोधाद् विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया ॥

39.4

पुरा मेरोर् द्विजश्रेष्ठाः शृङ्गं त्रैलोक्यपूजितम्
ज्योतिःस्थलं नाम चित्रं सर्वरत्नविभूषितम् ॥

39.5

अप्रमेयम् अनाधृष्यं सर्वलोकनमस्कृतम्
तत्र देवो गिरितटे सर्वधातुविचित्रिते ॥

39.6

पर्यङ्क इव विस्तीर्ण उपविष्टो बभूव ह
शैलराजसुता चास्य नित्यं पार्श्वस्थिताभवत् ॥

39.7

आदित्याश् च महात्मानो वसवश् च महौजसः
तथैव च महात्मानाव् अश्विनौ भिषजां वरौ ॥

39.8

तथा वैश्रवणो राजा गुह्यकैः परिवारितः
यक्षाणाम् ईश्वरः श्रीमान् कैलासनिलयः प्रभुः ॥

39.9

उपासते महात्मानम् उशना च महामुनिः
सनत्कुमारप्रमुखास् तथैव परमर्षयः ॥

39.10

अङ्गिरःप्रमुखाश् चैव तथा देवर्षयो ऽपि च
विश्वावसुश् च गन्धर्वस् तथा नारदपर्वतौ ॥

39.11

अप्सरोगणसंघाश् च समाजग्मुर् अनेकशः
ववौ सुखशिवो वायुर् नानागन्धवहः शुचिः ॥

39.12

सर्वर्तुकुसुमोपेतः पुष्पवन्तो ऽभवन् द्रुमाः
तथा विद्याधराः साध्याः सिद्धाश् चैव तपोधनाः ॥

39.13

महादेवं पशुपतिं पर्युपासत तत्र वै
भूतानि च तथान्यानि नानारूपधराण्य् अथ ॥

39.14

राक्षसाश् च महारौद्राः पिशाचाश् च महाबलाः
बहुरूपधरा धृष्टा नानाप्रहरणायुधाः ॥

39.15

देवस्यानुचरास् तत्र तस्थुर् वैश्वानरोपमाः
नन्दीश्वरश् च भगवान् देवस्यानुमते स्थितः ॥

39.16

प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा ॥

39.17

पर्युपासत तं देवं रूपिणी द्विजसत्तमाः
एवं स भगवांस् तत्र पूज्यमानः सुरर्षिभिः ॥

39.18

देवैश् च सुमहाभागैर् महादेवो व्यतिष्ठत
कस्यचित् त्व् अथ कालस्य दक्षो नाम प्रजापतिः ॥

39.19

पूर्वोक्तेन विधानेन यक्ष्यमाणो ऽभ्यपद्यत
ततस् तस्य मखे देवाः सर्वे शक्रपुरोगमाः ॥

39.20

स्वर्गस्थानाद् अथागम्य दक्षम् आपेदिरे तथा
ते विमानैर् महात्मानो ज्वलद्भिर् ज्वलनप्रभाः ॥

39.21

देवस्यानुमते ऽगच्छन् गङ्गाद्वारम् इति श्रुतिः
गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम् ॥

39.22

ऋषिसिद्धैः परिवृतं दक्षं धर्मभृतां वरम्
पृथिव्याम् अन्तरिक्षे च ये च स्वर्लोकवासिनः ॥

39.23

सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम्
आदित्या वसवो रुद्राः साध्याः सर्वे मरुद्गणाः ॥

39.24

विष्णुना सहिताः सर्व आगता यज्ञभागिनः
ऊष्मपा धूमपाश् चैव आज्यपाः सोमपास् तथा ॥

39.25

अश्विनौ मरुतश् चैव नानादेवगणैः सह
एते चान्ये च बहवो भूतग्रामास् तथैव च ॥

39.26

जरायुजाण्डजाश् चैव तथैव स्वेदजोद्भिदः
आगताः सत्त्रिणः सर्वे देवाः स्त्रीभिः सहर्षिभिः ॥

39.27

विराजन्ते विमानस्था दीप्यमाना इवाग्नयः
तान् दृष्ट्वा मन्युनाविष्टो दधीचिर् वाक्यम् अब्रवीत् ॥

39.28

अपूज्यपूजने चैव पूज्यानां चाप्य् अपूजने
नरः पापम् अवाप्नोति महद् वै नात्र संशयः ॥

39.29

एवम् उक्त्वा तु विप्रर्षिः पुनर् दक्षम् अभाषत ॥

39.30

पूज्यं च पशुभर्तारं कस्मान् नार्चयसे प्रभुम् ॥

39.31

सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः
एकादशस्थानगता नान्यं विद्मो महेश्वरम् ॥

39.32

सर्वेषाम् एकमन्त्रो ऽयं ममेशो न निमन्त्रितः
यथाहं शंकराद् ऊर्ध्वं नान्यं पश्यामि दैवतम्
तथा दक्षस्य विपुलो यज्ञो ऽयं न भविष्यति ॥

39.33

विष्णोश् च भागा विविधाः प्रदत्तास् तथा च रुद्रेभ्य उत प्रदत्ताः
अन्ये ऽपि देवा निजभागयुक्ता ददामि भागं न तु शंकराय

39.34

गतास् तु देवता ज्ञात्वा शैलराजसुता तदा
उवाच वचनं शर्वं देवं पशुपतिं पतिम् ॥

39.35

भगवन् कुत्र यान्त्य् एते देवाः शक्रपुरोगमाः
ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महान् अयम् ॥

39.36

दक्षो नाम महाभागे प्रजानां पतिर् उत्तमः
हयमेधेन यजते तत्र यान्ति दिवौकसः ॥

39.37

यज्ञम् एतं महाभाग किमर्थं नानुगच्छसि
केन वा प्रतिषेधेन गमनं ते न विद्यते ॥

39.38

सुरैर् एव महाभागे सर्वम् एतद् अनुष्ठितम्
यज्ञेषु मम सर्वेषु न भाग उपकल्पितः ॥

39.39

पूर्वागतेन गन्तव्यं मार्गेण वरवर्णिनि
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ॥

39.40

भगवन् सर्वदेवेषु प्रभावाभ्यधिको गुणैः
अजेयश् चाप्य् अधृष्यश् च तेजसा यशसा श्रिया ॥

39.41

अनेन तु महाभाग प्रतिषेधेन भागतः
अतीव दुःखम् आपन्ना वेपथुश् च महान् अयम् ॥

39.42

किं नाम दानं नियमं तपो वा कुर्याम् अहं येन पतिर् ममाद्य
लभेत भागं भगवान् अचिन्त्यो यज्ञस्य चेन्द्राद्यमरैर् विचित्रम्

39.44

अहं विजानामि विशालनेत्रे ध्यानेन सर्वे च विदन्ति सन्तः
तवाद्य मोहेन सहेन्द्रदेवा लोकत्रयं सर्वम् अथो विनष्टम्

39.45

माम् अध्वरेशं नितरां स्तुवन्ति रथंतरं साम गायन्ति मह्यम्
मां ब्राह्मणा ब्रह्ममन्त्रैर् यजन्ति ममाध्वर्यवः कल्पयन्ते च भागम्

39.46

विकत्थसे प्राकृतवत् सर्वस्त्रीजनसंसदि
स्तौषि गर्वायसे चापि स्वम् आत्मानं न संशयः ॥

39.47

नात्मानं स्तौमि देवेशि यथा त्वम् अनुगच्छसि
संस्रक्ष्यामि वरारोहे भागार्थे वरवर्णिनि ॥

39.48

इत्य् उक्त्वा भगवान् पत्नीम् उमां प्राणैर् अपि प्रियाम्
सो ऽसृजद् भगवान् वक्त्राद् भूतं क्रोधाग्निसंभवम् ॥

39.49

तम् उवाच मखं गच्छ दक्षस्य त्वं महेश्वरः
नाशयाशु क्रतुं तस्य दक्षस्य मदनुज्ञया ॥

39.50

ततो रुद्रप्रयुक्तेन सिंहवेषेण लीलया
देव्या मन्युकृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ॥

39.51

मन्युना च महाभीमा भद्रकाली महेश्वरी
आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा ॥

39.52

स एष भगवान् क्रोधः प्रेतावासकृतालयः
वीरभद्रेति विख्यातो देव्या मन्युप्रमार्जकः ॥

39.53

सो ऽसृजद् रोमकूपेभ्य आत्मनैव गणेश्वरान्
रुद्रानुगान् गणान् रौद्रान् रुद्रवीर्यपराक्रमान् ॥

39.54

रुद्रस्यानुचराः सर्वे सर्वे रुद्रपराक्रमाः
ते निपेतुस् ततस् तूर्णं शतशो ऽथ सहस्रशः ॥

39.55

ततः किलकिलाशब्द आकाशं पूरयन्न् इव
समभूत् सुमहान् विप्राः सर्वरुद्रगणैः कृतः ॥

39.56

तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः
पर्वताश् च व्यशीर्यन्त चकम्पे च वसुंधरा ॥

39.57

मरुतश् च ववुः क्रूराश् चुक्षुभे वरुणालयः
अग्नयो वै न दीप्यन्ते न चादीप्यत भास्करः ॥

39.58

ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः
ऋषयो न प्रभासन्ते न देवा न च दानवाः ॥

39.59

एवं हि तिमिरीभूते निर्दहन्ति गणेश्वराः
प्रभञ्जन्त्य् अपरे यूपान् घोरान् उत्पाटयन्ति च ॥

39.60

प्रणदन्ति तथा चान्ये विकुर्वन्ति तथा परे
त्वरितं वै प्रधावन्ति वायुवेगा मनोजवाः ॥

39.61

चूर्ण्यन्ते यज्ञपात्राणि यज्ञस्यायतनानि च
शीर्यमाणान्य् अदृश्यन्त तारा इव नभस्तलात् ॥

39.62

दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः
क्षीरनद्यस् तथा चान्या घृतपायसकर्दमाः ॥

39.63

मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः
षड्रसान् निवहन्त्य् अन्या गुडकुल्या मनोरमाः ॥

39.64

उच्चावचानि मांसानि भक्ष्याणि विविधानि च
यानि कानि च दिव्यानि लेह्यचोष्याणि यानि च ॥

39.65

भुञ्जन्ति विविधैर् वक्त्रैर् विलुम्पन्ति क्षिपन्ति च
रुद्रकोपा महाकोपाः कालाग्निसदृशोपमाः ॥

39.66

भक्षयन्तो ऽथ शैलाभा भीषयन्तश् च सर्वतः
क्रीडन्ति विविधाकाराश् चिक्षिपुः सुरयोषितः ॥

39.67

एवं गणाश् च तैर् युक्तो वीरभद्रः प्रतापवान्
रुद्रकोपप्रयुक्तश् च सर्वदेवैः सुरक्षितम् ॥

39.68

तं यज्ञम् अदहच् छीघ्रं भद्रकाल्याः समीपतः
चक्रुर् अन्ये तथा नादान् सर्वभूतभयंकरान् ॥

39.69

छित्त्वा शिरो ऽन्ये यज्ञस्य व्यनदन्त भयंकरम्
ततः शक्रादयो देवा दक्षश् चैव प्रजापतिः
ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवान् इति ॥

39.70

नाहं देवो न दैत्यो वा न च भोक्तुम् इहागतः
नैव द्रष्टुं च देवेन्द्रा न च कौतूहलान्विताः ॥

39.71

दक्षयज्ञविनाशार्थं संप्राप्तो ऽहं सुरोत्तमाः
वीरभद्रेति विख्यातो रुद्रकोपाद् विनिःसृतः ॥

39.72

भद्रकाली च विख्याता देव्याः क्रोधाद् विनिर्गता
प्रेषिता देवदेवेन यज्ञान्तिकम् उपागता ॥

39.73

शरणं गच्छ राजेन्द्र देवदेवम् उमापतिम्
वरं क्रोधो ऽपि देवस्य न वरः परिचारकैः ॥

39.74

निखातोत्पाटितैर् यूपैर् अपविद्धैस् ततस् ततः
उत्पतद्भिः पतद्भिश् च गृध्रैर् आमिषगृध्नुभिः ॥

39.75

पक्षवातविनिर्धूतैः शिवारुतविनादितैः
स तस्य यज्ञो नृपतेर् बाध्यमानस् तदा गणैः ॥

39.76

आस्थाय मृगरूपं वै खम् एवाभ्यपतत् तदा
तं तु यज्ञं तथारूपं गच्छन्तम् उपलभ्य सः ॥

39.77

धनुर् आदाय बाणं च तदर्थम् अगमत् प्रभुः
ततस् तस्य गणेशस्य क्रोधाद् अमिततेजसः ॥

39.78

ललाटात् प्रसृतो घोरः स्वेदबिन्दुर् बभूव ह
तस्मिन् पतितमात्रे च स्वेदबिन्दौ तदा भुवि ॥

39.79

प्रादुर्भूतो महान् अग्निर् ज्वलत्कालानलोपमः
तत्रोदपद्यत तदा पुरुषो द्विजसत्तमाः ॥

39.80

ह्रस्वो ऽतिमात्रो रक्ताक्षो हरिच्छ्मश्रुर् विभीषणः
ऊर्ध्वकेशो ऽतिरोमाङ्गः शोणकर्णस् तथैव च ॥

39.81

करालकृष्णवर्णश् च रक्तवासास् तथैव च
तं यज्ञं स महासत्त्वो ऽदहत् कक्षम् इवानलः ॥

39.82

देवाश् च प्रद्रुताः सर्वे गता भीता दिशो दश
तेन तस्मिन् विचरता विक्रमेण तदा तु वै ॥

39.83

पृथिवी व्यचलत् सर्वा सप्तद्वीपा समन्ततः
महाभूते प्रवृत्ते तु देवलोकभयंकरे ॥

39.84

तदा चाहं महादेवम् अब्रवं प्रतिपूजयन्
भवते ऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो ॥

39.85

क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया
इमाश् च देवताः सर्वा ऋषयश् च सहस्रशः ॥

39.86

तव क्रोधान् महादेव न शान्तिम् उपलेभिरे
यश् चैष पुरुषो जातः स्वेदजस् ते सुरर्षभ ॥

39.87

ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति
एकीभूतस्य न ह्य् अस्य धारणे तेजसः प्रभो ॥

39.88

समर्था सकला पृथ्वी बहुधा सृज्यताम् अयम्
इत्य् उक्तः स मया देवो भागे चापि प्रकल्पिते ॥

39.89

भगवान् मां तथेत्य् आह देवदेवः पिनाकधृक्
परां च प्रीतिम् अगमत् स स्वयं च पिनाकधृक् ॥

39.90

दक्षो ऽपि मनसा देवं भवं शरणम् अन्वगात्
प्राणापानौ समारुध्य चक्षुःस्थाने प्रयत्नतः ॥

39.91

विधार्य सर्वतो दृष्टिं बहुदृष्टिर् अमित्रजित्
स्मितं कृत्वाब्रवीद् वाक्यं ब्रूहि किं करवाणि ते ॥

39.92

श्राविते च महाख्याने देवानां पितृभिः सह
तम् उवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः
भीतः शङ्कितचित्तस् तु सबाष्पवदनेक्षणः ॥

39.93

यदि प्रसन्नो भगवान् यदि वाहं तव प्रियः
यदि चाहम् अनुग्राह्यो यदि देयो वरो मम ॥

39.94

यद् भक्ष्यं भक्षितं पीतं त्रासितं यच् च नाशितम्
चूर्णीकृतापविद्धं च यज्ञसंभारम् ईदृशम् ॥

39.95

दीर्घकालेन महता प्रयत्नेन च संचितम्
न च मिथ्या भवेन् मह्यं त्वत्प्रसादान् महेश्वर ॥

39.96

तथास्त्व् इत्य् आह भगवान् भगनेत्रहरो हरः
धर्माध्यक्षं महादेवं त्र्यम्बकं च प्रजापतिः ॥

39.97

जानुभ्याम् अवनीं गत्वा दक्षो लब्ध्वा भवाद् वरम्
नाम्नां चाष्टसहस्रेण स्तुतवान् वृषभध्वजम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc