भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 38

38.1

प्रविष्टे भवनं देवे सूपविष्टे वरासने
स वक्रो मन्मथः क्रूरो देवं वेद्धुमना भवत् ॥

38.2

तम् अनाचारसंयुक्तं दुरात्मानं कुलाधमम्
लोकान् सर्वान् पीडयन्तं सर्वाङ्गावरणात्मकम् ॥

38.3

ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह
चक्राह्वयस्य रूपेण रत्या सह समागतम् ॥

38.4

अथाततायिनं विप्रा वेद्धुकामं सुरेश्वरः
नयनेन तृतीयेन सावज्ञं समवैक्षत ॥

38.5

ततो ऽस्य नेत्रजो वह्निर् ज्वालामालासहस्रवान्
सहसा रतिभर्तारम् अदहत् सपरिच्छदम् ॥

38.6

स दह्यमानः करुणम् आर्तो ऽक्रोशत विस्वरम्
प्रसादयंश् च तं देवं पपात धरणीतले ॥

38.7

अथ सो ऽग्निपरीताङ्गो मन्मथो लोकतापनः
पपात सहसा मूर्छां क्षणेन समपद्यत ॥

38.8

पत्नी तु करुणं तस्य विललाप सुदुःखिता
देवीं देवं च दुःखार्ता अयाचत् करुणावती ॥

38.9

तस्याश् च करुणां ज्ञात्वा देवौ तौ करुणात्मकौ
ऊचतुस् तां समालोक्य समाश्वास्य च दुःखिताम् ॥

38.10

दग्ध एव ध्रुवं भद्रे नास्योत्पत्तिर् इहेष्यते
अशरीरो ऽपि ते भद्रे कार्यं सर्वं करिष्यति ॥

38.11

यदा तु विष्णुर् भगवान् वसुदेवसुतः शुभे
तदा तस्य सुतो यश् च पतिस् ते संभविष्यति ॥

38.12

ततः सा तु वरं लब्ध्वा कामपत्नी शुभानना
जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा ॥

38.13

दग्ध्वा कामं ततो विप्राः स तु देवो वृषध्वजः
रेमे तत्रोमया सार्धं प्रहृष्टस् तु हिमाचले ॥

38.14

कन्दरेषु च रम्येषु पद्मिनीषु गुहासु च
निर्झरेषु च रम्येषु कर्णिकारवनेषु च ॥

38.15

नदीतीरेषु कान्तेषु किंनराचरितेषु च
शृङ्गेषु शैलराजस्य तडागेषु सरःसु च ॥

38.16

वनराजिषु रम्यासु नानापक्षिरुतेषु च
तीर्थेषु पुण्यतोयेषु मुनीनाम् आश्रमेषु च ॥

38.17

एतेषु पुण्येषु मनोहरेषु देशेषु विद्याधरभूषितेषु
गन्धर्वयक्षामरसेवितेषु रेमे स देव्या सहितस् त्रिनेत्रः

38.18

देवैः सहेन्द्रैर् मुनियक्षसिद्धैर् गन्धर्वविद्याधरदैत्यमुख्यैः
अन्यैश् च सर्वैर् विविधैर् वृतो ऽसौ तस्मिन् नगे हर्षम् अवाप शंभुः

38.19

नृत्यन्ति तत्राप्सरसः सुरेशा गायन्ति गन्धर्वगणाः प्रहृष्टाः
दिव्यानि वाद्यान्य् अथ वादयन्ति केचिद् द्रुतं देववरं स्तुवन्ति

38.20

एवं स देवः स्वगणैर् उपेतो महाबलैः शक्रयमाग्नितुल्यैः
देव्याः प्रियार्थं भगनेत्रहन्ता गिरिं न तत्याज तदा महात्मा

38.21

देव्याः समं तु भगवांस् तिष्ठंस् तत्र स कामहा
अकरोत् किं महादेव एतद् इच्छाम वेदितुम् ॥

38.22

भगवान् हिमवच्छृङ्गे स हि देव्याः प्रियेच्छया
गणेशैर् विविधाकारैर् हासं संजनयन् मुहुः ॥

38.23

देवीं बालेन्दुतिलको रमयंश् च रराम च
महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः ॥

38.24

अथ देव्य् आससादैका मातरं परमेश्वरी
आसीनां काञ्चने शुभ्र आसने परमाद्भुते ॥

38.25

अथ दृष्ट्वा सतीं देवीम् आगतां सुररूपिणीम्
आसनेन महार्हेण शंपादयद् अनिन्दिताम्
आसीनां ताम् अथोवाच मेना हिमवतः प्रिया ॥

38.26

चिरस्यागमनं ते ऽद्य वद पुत्रि शुभेक्षणे
दरिद्रा क्रीडनैस् त्वं हि भर्त्रा क्रीडसि संगता ॥

38.27

ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः
उमे त एवं क्रीडन्ति यथा तव पतिः शुभे ॥

38.28

सैवम् उक्ताथ मात्रा तु नातिहृष्टमना भवत्
महत्या क्षमया युक्ता न किंचित् ताम् उवाच ह
विसृष्टा च तदा मात्रा गत्वा देवम् उवाच ह ॥

38.29

भगवन् देवदेवेश नेह वत्स्यामि भूधरे
अन्यं कुरु ममावासं भुवनेषु महाद्युते ॥

38.30

सदा त्वम् उच्यमाना वै मया वासार्थम् ईश्वरि
अन्यं न रोचितवती वासं वै देवि कर्हिचित् ॥

38.31

इदानीं स्वयम् एव त्वं वासम् अन्यत्र शोभने
कस्मान् मृगयसे देवि ब्रूहि तन् मे शुचिस्मिते ॥

38.32

गृहं गतास्मि देवेश पितुर् अद्य महात्मनः
दृष्ट्वा च तत्र मे माता विजने लोकभावने ॥

38.33

आसनादिभिर् अभ्यर्च्य सा माम् एवम् अभाषत
उमे तव सदा भर्ता दरिद्रः क्रीडनैः शुभे ॥

38.34

क्रीडते नहि देवानां क्रीडा भवति तादृशी
यत् किल त्वं महादेव गणैश् च विविधैस् तथा
रमसे तद् अनिष्टं हि मम मातुर् वृषध्वज ॥

38.35

ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः ॥

38.36

एवम् एव न संदेहः कस्मान् मन्युर् अभूत् तव
कृत्तिवासा ह्य् अवासाश् च श्मशाननिलयश् च ह ॥

38.37

अनिकेतो ह्य् अरण्येषु पर्वतानां गुहासु च
विचरामि गणैर् नग्नैर् वृतो ऽम्भोजविलोचने ॥

38.38

मा क्रुधो देवि मात्रे त्वं तथ्यं मातावदत् तव
नहि मातृसमो बन्धुर् जन्तूनाम् अस्ति भूतले ॥

38.39

न मे ऽस्ति बन्धुभिः किंचित् कृत्यं सुरवरेश्वर
तथा कुरु महादेव यथाहं सुखम् आप्नुयाम् ॥

38.40

श्रुत्वा स देव्या वचनं सुरेशस् तस्याः प्रियार्थे स्वगिरिं विहाय
जगाम मेरुं सुरसिद्धसेवितं भार्यासहायः स्वगणैश् च युक्तः

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc