भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 37

37.1

अथ वृत्ते विवाहे तु भवस्यामिततेजसः
प्रहर्षम् अतुलं गत्वा देवाः शक्रपुरोगमाः
तुष्टुवुर् वाग्भिर् आद्याभिः प्रणेमुस् ते महेश्वरम् ॥

37.2

नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः
नमः पवनवेगाय विरूपायाजिताय च
नमः क्लेशविनाशाय दात्रे च शुभसंपदाम् ॥

37.3

नमो नीलशिखण्डाय अम्बिकापतये नमः
नमः पवनरूपाय शतरूपाय वै नमः ॥

37.4

नमो भैरवरूपाय विरूपनयनाय च
नमः सहस्रनेत्राय सहस्रचरणाय च ॥

37.5

नमो देववयस्याय वेदाङ्गाय नमो नमः
विष्टम्भनाय शक्रस्य बाह्वोर् वेदाङ्कुराय च ॥

37.6

चराचराधिपतये शमनाय नमो नमः
सलिलाशयलिङ्गाय युगान्ताय नमो नमः ॥

37.7

नमः कपालमालाय कपालसूत्रधारिणे
नमः कपालहस्ताय दण्डिने गदिने नमः ॥

37.8

नमस् त्रैलोक्यनाथाय पशुलोकरताय च
नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च ॥

37.9

नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे
भगनेत्रनिपाताय पूष्णो दन्तहराय च ॥

37.10

नमः पिनाकशूलासि खड्गमुद्गरधारिणे
नमो ऽस्तु कालकालाय तृतीयनयनाय च ॥

37.11

अन्तकान्तकृते चैव नमः पर्वतवासिने
सुवर्णरेतसे चैव नमः कुण्डलधारिणे ॥

37.12

दैत्यानां योगनाशाय योगिनां गुरवे नमः
शशाङ्कादित्यनेत्राय ललाटनयनाय च ॥

37.13

नमः श्मशानरतये श्मशानवरदाय च
नमो दैवतनाथाय त्र्यम्बकाय नमो नमः ॥

37.14

गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे
नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ॥

37.15

सलिले तप्यमानाय योगैश्वर्यप्रदाय च
नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ॥

37.16

नमो ऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः
नमो रुद्राय वसव आदित्यायाश्विने नमः ॥

37.17

नमः पित्रे ऽथ सांख्याय विश्वेदेवाय वै नमः
नमः शर्वाय उग्राय शिवाय वरदाय च ॥

37.18

नमो भीमाय सेनान्ये पशूनां पतये नमः
शुचये वैरिहानाय सद्योजाताय वै नमः ॥

37.19

महादेवाय चित्राय विचित्राय च वै नमः
प्रधानायाप्रमेयाय कार्याय कारणाय च ॥

37.20

पुरुषाय नमस् ते ऽस्तु पुरुषेच्छाकराय च
नमः पुरुषसंयोग प्रधानगुणकारिणे ॥

37.21

प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः
कृताकृतस्य सत्कर्त्रे फलसंयोगदाय च ॥

37.22

कालज्ञाय च सर्वेषां नमो नियमकारिणे
नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ॥

37.23

नमस् ते देवदेवेश नमस् ते भूतभावन
शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो ॥

37.24

एवं स भगवान् देवो जगत्पतिर् उमापतिः
स्तूयमानः सुरैः सर्वैर् अमरान् इदम् अब्रवीत् ॥

37.25

द्रष्टुं सुखश् च सौम्यश् च देवानाम् अस्मि भोः सुराः
वरं वरयत क्षिप्रं दातास्मि तम् असंशयम् ॥

37.26

ततस् ते प्रणताः सर्वे सुरा ऊचुस् त्रिलोचनम् ॥

37.27

तवैव भगवन् हस्ते वर एषो ऽवतिष्ठताम्
यदा कार्यं तदा नस् त्वं दास्यसे वरम् ईप्सितम् ॥

37.28

एवम् अस्त्व् इति तान् उक्त्वा विसृज्य च सुरान् हरः
लोकांश् च प्रमथैः सार्धं विवेश भवनं स्वकम् ॥

37.29

यस् तु हरोत्सवम् अद्भुतम् एनं गायति दैवतविप्रसमक्षम्
सो ऽप्रतिरूपगणेशसमानो देहविपर्ययम् एत्य सुखी स्यात्

37.30

विप्रवर्याः स्तवं हीमं शृणुयाद् वा पठेच् च यः
स सर्वलोकगो देवैः पूज्यते ऽमरराड् इव ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc