ब्रह्म पुराण · अध्याय 34
यो ऽसौ सर्वगतो देवस् त्रिपुरारिस् त्रिलोचनः
उमाप्रियकरो रुद्रश् चन्द्रार्धकृतशेखरः ॥
विद्राव्य विबुधान् सर्वान् सिद्धविद्याधरान् ऋषीन्
गन्धर्वयक्षनागांश् च तथान्यांश् च समागतान् ॥
जघान पूर्वं दक्षस्य यजतो धरणीतले
यज्ञं समृद्धं रत्नाढ्यं सर्वसंभारसंभृतम् ॥
यस्य प्रतापसंत्रस्ताः शक्राद्यास् त्रिदिवौकसः
शान्तिं न लेभिरे विप्राः कैलासं शरणं गताः ॥
स आस्ते तत्र वरदः शूलपाणिर् वृषध्वजः
पिनाकपाणिर् भगवान् दक्षयज्ञविनाशनः ॥
महादेवो ऽकले देशे कृत्तिवासा वृषध्वजः
एकाम्रके मुनिश्रेष्ठाः सर्वकामप्रदो हरः ॥
किमर्थं स भवो देवः सर्वभूतहिते रतः
जघान यज्ञं दक्षस्य देवैः सर्वैर् अलंकृतम् ॥
न ह्य् अल्पं कारणं तत्र प्रभो मन्यामहे वयम्
श्रोतुम् इच्छामहे ब्रूहि परं कौतूहलं हि नः ॥
दक्षस्यासन्न् अष्ट कन्या याश् चैवं पतिसंगताः
स्वेभ्यो गृहेभ्यश् चानीय ताः पिताभ्यर्चयद् गृहे ॥
ततस् त्व् अभ्यर्चिता विप्रा न्यवसंस् ताः पितुर् गृहे
तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै ॥
नाजुहावात्मजां तां वै दक्षो रुद्रम् अभिद्विषन्
अकरोत् संनतिं दक्षे न च कांचिन् महेश्वरः ॥
जामाता श्वशुरे तस्मिन् स्वभावात् तेजसि स्थितः
ततो ज्ञात्वा सती सर्वास् तास् तु प्राप्ताः पितुर् गृहम् ॥
जगाम साप्य् अनाहूता सती तु स्वपितुर् गृहम्
ताभ्यो हीनां पिता चक्रे सत्याः पूजाम् असंमताम्
ततो ऽब्रवीत् सा पितरं देवी क्रोधसमाकुला ॥
यवीयसीभ्यः श्रेष्ठाहं किं न पूजसि मां प्रभो
असत्कृताम् अवस्थां यः कृतवान् असि गर्हिताम्
अहं ज्येष्ठा वरिष्ठा च मां त्वं सत्कर्तुम् अर्हसि ॥
एवम् उक्तो ऽब्रवीद् एनां दक्षः संरक्तलोचनः ॥
त्वत्तः श्रेष्ठा वरिष्ठाश् च पूज्या बालाः सुता मम
तासां ये चैव भर्तारस् ते मे बहुमताः सति ॥
ब्रह्मिष्ठाश् च व्रतस्थाश् च महायोगाः सुधार्मिकाः
गुणैश् चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात् सति ॥
वसिष्ठो ऽत्रिः पुलस्त्यश् च अङ्गिराः पुलहः क्रतुः
भृगुर् मरीचिश् च तथा श्रेष्ठा जामातरो मम ॥
तैश् चापि स्पर्धते शर्वः सर्वे ते चैव तं प्रति
तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ॥
इत्य् उक्तवांस् तदा दक्षः संप्रमूढेन चेतसा
शापार्थम् आत्मनश् चैव येनोक्ता वै महर्षयः
तथोक्ता पितरं सा वै क्रुद्धा देवी तम् अब्रवीत् ॥
वाङ्मनःकर्मभिर् यस्माद् अदुष्टां मां विगर्हसि
तस्मात् त्यजाम्य् अहं देहम् इमं तात तवात्मजम् ॥
ततस् तेनापमानेन सती दुःखाद् अमर्षिता
अब्रवीद् वचनं देवी नमस्कृत्य स्वयंभुवे ॥
येनाहम् अपदेहा वै पुनर् देहेन भास्वता
तत्राप्य् अहम् असंमूढा संभूता धार्मिकी पुनः
गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥
तत्रैवाथ समासीना रुष्टात्मानं समादधे
धारयाम् आस चाग्नेयीं धारणाम् आत्मनात्मनि ॥
ततः स्वात्मानम् उत्थाप्य वायुना समुदीरितः
सर्वाङ्गेभ्यो विनिःसृत्य वह्निर् भस्म चकार ताम् ॥
तद् उपश्रुत्य निधनं सत्या देव्याः स शूलधृक्
संवादं च तयोर् बुद्ध्वा याथातथ्येन शंकरः
दक्षस्य च विनाशाय चुकोप भगवान् प्रभुः ॥
यस्माद् अवमता दक्ष सहसैवागता सती
प्रशस्ताश् चेतराः सर्वास् त्वत्सुता भर्तृभिः सह ॥
तस्माद् वैवस्वते प्राप्ते पुनर् एते महर्षयः
उत्पत्स्यन्ति द्वितीये वै तव यज्ञे ह्य् अयोनिजाः ॥
हुते वै ब्रह्मणः सत्त्रे चाक्षुषस्यान्तरे मनोः
अभिव्याहृत्य सप्तर्षीन् दक्षं सो ऽभ्यशपत् पुनः ॥
भविता मानुषो राजा चाक्षुषस्यान्तरे मनोः
प्राचीनबर्हिषः पौत्रः पुत्रश् चापि प्रचेतसः ॥
दक्ष इत्य् एव नाम्ना त्वं मारिषायां जनिष्यसि
कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषान्तरे ॥
अहं तत्रापि ते विघ्नम् आचरिष्यामि दुर्मते
धर्मकामार्थयुक्तेषु कर्मस्व् इह पुनः पुनः ॥
ततो वै व्याहृतो दक्षो रुद्रं सो ऽभ्यशपत् पुनः ॥
यस्मात् त्वं मत्कृते क्रूर ऋषीन् व्याहृतवान् असि
तस्मात् सार्धं सुरैर् यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥
कृत्वाहुतिं तव क्रूर अपः स्पृशन्ति कर्मसु
इहैव वत्स्यसे लोके दिवं हित्वायुगक्षयात्
ततो देवैस् तु ते सार्धं न तु पूजा भविष्यति ॥
चातुर्वर्ण्यं तु देवानां ते चाप्य् एकत्र भुञ्जते
न भोक्ष्ये सहितस् तैस् तु ततो भोक्ष्याम्य् अहं पृथक् ॥
सर्वेषां चैव लोकानाम् आदिर् भूर्लोक उच्यते
तम् अहं धारयाम्य् एकः स्वेच्छया न तवाज्ञया ॥
तस्मिन् धृते सर्वलोकाः सर्वे तिष्ठन्ति शाश्वताः
तस्माद् अहं वसामीह सततं न तवाज्ञया ॥
ततो ऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा
स्वायंभुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्व् इह ॥
यदा गृहपतिर् दक्षो यज्ञानाम् ईश्वरः प्रभुः
समस्तेनेह यज्ञेन सो ऽयजद् दैवतैः सह ॥
अथ देवी सती यत् ते प्राप्ते वैवस्वते ऽन्तरे
मेनायां ताम् उमां देवीं जनयाम् आस शैलराट् ॥
सा तु देवी सती पूर्वम् आसीत् पश्चाद् उमाभवत्
सहव्रता भवस्यैषा नैतया मुच्यते भवः ॥
यावद् इच्छति संस्थानं प्रभुर् मन्वन्तरेष्व् इह
मारीचं कश्यपं देवी यथादितिर् अनुव्रता ॥
सार्धं नारायणं श्रीस् तु मघवन्तं शची यथा
विष्णुं कीर्तिर् उषा सूर्यं वसिष्ठं चाप्य् अरुन्धती ॥
नैतांस् तु विजहत्य् एता भर्तॄन् देव्यः कथंचन
एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे ॥
प्राचीनबर्हिषः पौत्रः पुत्रश् चापि प्रचेतसाम्
दशभ्यस् तु प्रचेतोभ्यो मारिषायां पुनर् नृप ॥
जज्ञे रुद्राभिशापेन द्वितीयम् इति नः श्रुतम्
भृग्वादयस् तु ते सर्वे जज्ञिरे वै महर्षयः ॥
आद्ये त्रेतायुगे पूर्वं मनोर् वैवस्वतस्य ह
देवस्य महतो यज्ञे वारुणीं बिभ्रतस् तनुम् ॥
इत्य् एषो ऽनुशयो ह्य् आसीत् तयोर् जात्यन्तरे गतः
प्रजापतेश् च दक्षस्य त्र्यम्बकस्य च धीमतः ॥
तस्मान् नानुशयः कार्यो वरेष्व् इह कदाचन
जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः
जन्तोर् न भूतये ख्यातिस् तन् न कार्यं विजानता ॥
कथं रोषेण सा पूर्वं दक्षस्य दुहिता सती
त्यक्त्वा देहं पुनर् जाता गिरिराजगृहे प्रभो ॥
देहान्तरे कथं तस्याः पूर्वदेहो बभूव ह
भवेन सह संयोगः संवादश् च तयोः कथम् ॥
स्वयंवरः कथं वृत्तस् तस्मिन् महति जन्मनि
विवाहश् च जगन्नाथ सर्वाश्चर्यसमन्वितः ॥
तत् सर्वं विस्तराद् ब्रह्मन् वक्तुम् अर्हसि सांप्रतम्
श्रोतुम् इच्छामहे पुण्यां कथां चातिमनोहराम् ॥
शृणुध्वं मुनिशार्दूलाः कथां पापप्रणाशिनीम्
उमाशंकरयोः पुण्यां सर्वकामफलप्रदाम् ॥
कदाचित् स्वगृहात् प्राप्तं कश्यपं द्विपदां वरम्
अपृच्छद् धिमवान् वृत्तं लोके ख्यातिकरं हितम् ॥
केनाक्षयाश् च लोकाः स्युः ख्यातिश् च परमा मुने
तथैव चार्चनीयत्वं सत्सु तत् कथयस्व मे ॥
अपत्येन महाबाहो सर्वम् एतद् अवाप्यते
ममाख्यातिर् अपत्येन ब्रह्मणा ऋषिभिः सह ॥
किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि
वर्तयिष्यामि यच् चापि यथादृष्टं पुराचल ॥
वाराणसीम् अहं गच्छन्न् अपश्यं संस्थितं दिवि
विमानं सुनवं दिव्यम् अनौपम्यं महर्धिमत् ॥
तस्याधस्ताद् आर्तनादं गर्तस्थाने शृणोम्य् अहम्
तम् अहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ॥
अथागात् तत्र शैलेन्द्र विप्रो नियमवाञ् शुचिः
तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ॥
अथ स व्रजमानस् तु व्याघ्रेणाभीषितो द्विजः
विवेश तं तदा देशं स गर्तो यत्र भूधर ॥
गर्तायां वीरणस्तम्बे लम्बमानांस् तदा मुनीन्
अपश्यद् आर्तो दुःखार्तांस् तान् अपृच्छच् च स द्विजः ॥
के यूयं वीरणस्तम्बे लम्बमाना ह्य् अधोमुखाः
दुःखिताः केन मोक्षश् च युष्माकं भवितानघाः ॥
वयं ते कृतपुण्यस्य पितरः सपितामहाः
प्रपितामहाश् च क्लिश्यामस् तव दुष्टेन कर्मणा ॥
नरको ऽयं महाभाग गर्तरूपेण संस्थितः
त्वं चापि वीरणस्तम्बस् त्वयि लम्बामहे वयम् ॥
यावत् त्वं जीवसे विप्र तावद् एव वयं स्थिताः
मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥
यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम्
उत्पादयसि तेनास्मान् मुच्येम वयम् एनसः ॥
नान्येन तपसा पुत्र तीर्थानां च फलेन च
एतत् कुरु महाबुद्धे तारयस्व पितॄन् भयात् ॥
स तथेति प्रतिज्ञाय आराध्य वृषभध्वजम्
पितॄन् गर्तात् समुद्धृत्य गणपान् प्रचकार ह ॥
स्वयं रुद्रस्य दयितः सुवेशो नाम नामतः
संमतो बलवांश् चैव रुद्रस्य गणपो ऽभवत् ॥
तस्मात् कृत्वा तपो घोरम् अपत्यं गुणवद् भृशम्
उत्पादयस्व शैलेन्द्र सुतां त्वं वरवर्णिनीम् ॥
स एवम् उक्त्वा ऋषिणा शैलेन्द्रो नियमस्थितः
तपश् चकाराप्य् अतुलं येन तुष्टिर् अभून् मम ॥
तदा तम् उत्पपाताहं वरदो ऽस्मीति चाब्रवम्
ब्रूहि तुष्टो ऽस्मि शैलेन्द्र तपसानेन सुव्रत ॥
भगवन् पुत्रम् इच्छामि गुणैः सर्वैर् अलंकृतम्
एवं वरं प्रयच्छस्व यदि तुष्टो ऽसि मे प्रभो ॥
तस्य तद् वचनं श्रुत्वा गिरिराजस्य भो द्विजाः
तदा तस्मै वरं चाहं दत्तवान् मनसेप्सितम् ॥
कन्या भवित्री शैलेन्द्र तपसानेन सुव्रत
यस्याः प्रभावात् सर्वत्र कीर्तिम् आप्स्यसि शोभनाम् ॥
अर्चितः सर्वदेवानां तीर्थकोटिसमावृतः
पावनश् चैव पुण्येन देवानाम् अपि सर्वतः ॥
ज्येष्ठा च सा भवित्री ते अन्ये चात्र ततः शुभे ॥
सो ऽपि कालेन शैलेन्द्रो मेनायाम् उदपादयत्
अपर्णाम् एकपर्णां च तथा चैवैकपाटलाम् ॥
न्यग्रोधम् एकपर्णं तु पाटलं चैकपाटलाम्
अशित्वा त्व् एकपर्णां तु अनिकेतस् तपो ऽचरत् ॥
शतं वर्षसहस्राणां दुश्चरं देवदानवैः
आहारम् एकपर्णं तु एकपर्णा समाचरत् ॥
पाटलेन तथैकेन विदधे चैकपाटला
पूर्णे वर्षसहस्रे तु आहारं ताः प्रचक्रतुः ॥
अपर्णा तु निराहारा तां माता प्रत्यभाषत
निषेधयन्ती चो मेति मातृस्नेहेन दुःखिता ॥
सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी
तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥
एतत् तु त्रिकुमारीकं जगत् स्थावरजङ्गमम्
एतासां तपसां वृत्तं यावद् भूमिर् धरिष्यति ॥
तपःशरीरास् ताः सर्वास् तिस्रो योगं समाश्रिताः
सर्वाश् चैव महाभागास् तथा च स्थिरयौवनाः ॥
ता लोकमातरश् चैव ब्रह्मचारिण्य एव च
अनुगृह्णन्ति लोकांश् च तपसा स्वेन सर्वदा ॥
उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी
महायोगबलोपेता महादेवम् उपस्थिता ॥
दत्तकश् चोशना तस्य पुत्रः स भृगुनन्दनः
आसीत् तस्यैकपर्णा तु देवलं सुषुवे सुतम् ॥
या तु तासां कुमारीणां तृतीया ह्य् एकपाटला
पुत्रं सा तम् अलर्कस्य जैगीषव्यम् उपस्थिता ॥
तस्याश् च शङ्खलिखितौ स्मृतौ पुत्राव् अयोनिजौ
उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी ॥
अथ तस्यास् तपोयोगात् त्रैलोक्यम् अखिलं तदा
प्रधूपितम् इहालक्ष्य वचस् ताम् अहम् अब्रवम् ॥
देवि किं तपसा लोकांस् तापयिष्यसि शोभने
त्वया सृष्टम् इदं सर्वं मा कृत्वा तद् विनाशय ॥
त्वं हि धारयसे लोकान् इमान् सर्वान् स्वतेजसा
ब्रूहि किं ते जगन्मातः प्रार्थितं संप्रतीह नः ॥
यदर्थं तपसो ह्य् अस्य चरणं मे पितामह
त्वम् एव तद् विजानीषे ततः पृच्छसि किं पुनः ॥
ततस् ताम् अब्रवं चाहं यदर्थं तप्यसे शुभे
स त्वां स्वयम् उपागम्य इहैव वरयिष्यति ॥
शर्व एव पतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः
वयं सदैव यस्येमे वश्या वै किंकराः शुभे ॥
स देवदेवः परमेश्वरः स्वयं स्वयंभुर् आयास्यति देवि ते ऽन्तिकम्
उदाररूपो विकृतादिरूपः समानरूपो ऽपि न यस्य कस्यचित्
महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमो ऽप्रमेयः
विनेन्दुना हीन्द्रसमानवर्चसा विभीषणं रूपम् इवास्थितो यः
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0