ब्रह्म पुराण · अध्याय 33
भूयो ऽपि कथयास्माकं कथां सूर्यसमाश्रिताम्
न तृप्तिम् अधिगच्छामः शृण्वन्तस् तां कथां शुभाम् ॥
यो ऽयं दीप्तो महातेजा वह्निराशिसमप्रभः
एतद् वेदितुम् इच्छामः प्रभावो ऽस्य कुतः प्रभो ॥
तमोभूतेषु लोकेषु नष्टे स्थावरजङ्गमे
प्रकृतेर् गुणहेतुस् तु पूर्वं बुद्धिर् अजायत ॥
अहंकारस् ततो जातो महाभूतप्रवर्तकः
वाय्वग्निर् आपः खं भूमिस् ततस् त्व् अण्डम् अजायत ॥
तस्मिन्न् अण्डे त्व् इमे लोकाः सप्त चैव प्रतिष्ठिताः
पृथिवी सप्तभिर् द्वीपैः समुद्रैश् चैव सप्तभिः ॥
तत्रैवावस्थितो ह्य् आसीद् अहं विष्णुर् महेश्वरः
विमूढास् तामसाः सर्वे प्रध्यायन्ति तम् ईश्वरम् ॥
ततो वै सुमहातेजाः प्रादुर्भूतस् तमोनुदः
ध्यानयोगेन चास्माभिर् विज्ञातः सविता तदा ॥
ज्ञात्वा च परमात्मानं सर्व एव पृथक् पृथक्
दिव्याभिः स्तुतिभिर् देवः स्तुतो ऽस्माभिस् तदेश्वरः ॥
आदिदेवो ऽसि देवानाम् ऐश्वर्याच् च त्वम् ईश्वरः
आदिकर्तासि भूतानां देवदेवो दिवाकरः ॥
जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम्
मुनिकिंनरसिद्धानां तथैवोरगपक्षिणाम् ॥
त्वं ब्रह्मा त्वं महादेवस् त्वं विष्णुस् त्वं प्रजापतिः
वायुर् इन्द्रश् च सोमश् च विवस्वान् वरुणस् तथा ॥
त्वं कालः सृष्टिकर्ता च हर्ता भर्ता तथा प्रभुः
सरितः सागराः शैला विद्युदिन्द्रधनूंषि च ॥
प्रलयः प्रभवश् चैव व्यक्ताव्यक्तः सनातनः
ईश्वरात् परतो विद्या विद्यायाः परतः शिवः ॥
शिवात् परतरो देवस् त्वम् एव परमेश्वरः
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः ॥
सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः
भूतादिर् भूर् भुवः स्वश् च महः सत्यं तपो जनः ॥
प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम्
दुर्निरीक्षं सुरेन्द्राणां यद् रूपं तस्य ते नमः ॥
सुरसिद्धगणैर् जुष्टं भृग्वत्रिपुलहादिभिः
स्तुतं परमम् अव्यक्तं यद् रूपं तस्य ते नमः ॥
वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम्
सर्वदेवातिदेवस्य यद् रूपं तस्य ते नमः ॥
विश्वकृद् विश्वभूतं च वैश्वानरसुरार्चितम्
विश्वस्थितम् अचिन्त्यं च यद् रूपं तस्य ते नमः ॥
परं यज्ञात् परं वेदात् परं लोकात् परं दिवः
परमात्मेत्य् अभिख्यातं यद् रूपं तस्य ते नमः ॥
अविज्ञेयम् अनालक्ष्यम् अध्यानगतम् अव्ययम्
अनादिनिधनं चैव यद् रूपं तस्य ते नमः ॥
नमो नमः कारणकारणाय नमो नमः पापविमोचनाय
नमो नमस् ते दितिजार्दनाय नमो नमो रोगविमोचनाय
नमो नमः सर्ववरप्रदाय नमो नमः सर्वसुखप्रदाय
नमो नमः सर्वधनप्रदाय नमो नमः सर्वमतिप्रदाय
स्तुतः स भगवान् एवं तैजसं रूपम् आस्थितः
उवाच वाचा कल्याण्या को वरो वः प्रदीयताम् ॥
तवातितैजसं रूपं न कश्चित् सोढुम् उत्सहेत्
सहनीयं तद् भवतु हिताय जगतः प्रभो ॥
एवम् अस्त्व् इति सो ऽप्य् उक्त्वा भगवान् आदिकृत् प्रभुः
लोकानां कार्यसिद्ध्यर्थं घर्मवर्षहिमप्रदः ॥
ततः सांख्याश् च योगाश् च ये चान्ये मोक्षकाङ्क्षिणः
ध्यायन्ति ध्यायिनो देवं हृदयस्थं दिवाकरम् ॥
सर्वलक्षणहीनो ऽपि युक्तो वा सर्वपातकैः
सर्वं च तरते पापं देवम् अर्कं समाश्रितः ॥
अग्निहोत्रं च वेदाश् च यज्ञाश् च बहुदक्षिणाः
भानोर् भक्तिनमस्कार कलां नार्हन्ति षोडशीम् ॥
तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम्
पवित्रं च पवित्राणां प्रपद्यन्ते दिवाकरम् ॥
शक्राद्यैः संस्तुतं देवं ये नमस्यन्ति भास्करम्
सर्वकिल्बिषनिर्मुक्ताः सूर्यलोकं व्रजन्ति ते ॥
चिरात् प्रभृति नो ब्रह्मञ् श्रोतुम् इच्छा प्रवर्तते
नाम्नाम् अष्टशतं ब्रूहि यत् त्वयोक्तं पुरा रवेः ॥
अष्टोत्तरशतं नाम्नां शृणुध्वं गदतो मम
भास्करस्य परं गुह्यं स्वर्गमोक्षप्रदं द्विजाः ॥
ओं सूर्यो ऽर्यमा भगस् त्वष्टा पूषार्कः सविता रविः
गभस्तिमान् अजः कालो मृत्युर् धाता प्रभाकरः ॥
पृथिव्य् आपश् च तेजश् च खं वायुश् च परायणम्
सोमो बृहस्पतिः शुक्रो बुधो ऽङ्गारक एव च ॥
इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः
ब्रह्मा विष्णुश् च रुद्रश् च स्कन्दो वैश्रवणो यमः ॥
वैद्युतो जाठरश् चाग्निर् ऐन्धनस् तेजसां पतिः
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥
कृतं त्रेता द्वापरश् च कलिः सर्वामराश्रयः
कलाकाष्ठामुहूर्ताश् च क्षपा यामास् तथा क्षणाः ॥
संवत्सरकरो ऽश्वत्थः कालचक्रो विभावसुः
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः
वरुणः सागरो ऽंशश् च जीमूतो जिवनो ऽरिहा ॥
भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः
स्रष्टा संवर्तको वह्निः सर्वस्यादिर् अलोलुपः ॥
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः
जयो विशालो वरदः सर्वभूतनिषेवितः ॥
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः
धन्वन्तरिर् धूमकेतुर् आदिदेवो ऽदितेः सुतः ॥
द्वादशात्मा रविर् दक्षः पिता माता पितामहः
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः
चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ॥
एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः
नाम्नाम् अष्टशतं रम्यं मया प्रोक्तं द्विजोत्तमाः ॥
सुरगणपितृयक्षसेवितं ह्य् असुरनिशाकरसिद्धवन्दितम्
वरकनकहुताशनप्रभं प्रणिपतितो ऽस्मि हिताय भास्करम्
सूर्योदये यः सुसमाहितः पठेत् स पुत्रदारान् धनरत्नसंचयान्
लभेत जातिस्मरतां नरः स तु स्मृतिं च मेधां च स विन्दते पराम्
इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच् छुद्धमनाः समाहितः
विमुच्यते शोकदवाग्निसागराल् लभेत कामान् मनसा यथेप्सितान्
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0