ब्रह्म पुराण · अध्याय 35
ततस् ताम् अब्रुवन् देवास् तदा गत्वा तु सुन्दरीम्
देवि शीघ्रेण कालेन धूर्जटिर् नीललोहितः ॥
स भर्ता तव देवेशो भविता मा तपः कृथाः
ततः प्रदक्षिणीकृत्य देवा विप्रा गिरेः सुताम् ॥
जग्मुश् चादर्शनं तस्याः सा चापि विरराम ह
सा देवी सूक्तम् इत्य् एवम् उक्त्वा स्वस्याश्रमे शुभे ॥
द्वारि जातम् अशोकं च समुपाश्रित्य चास्थिता
अथागाच् चन्द्रतिलकस् त्रिदशार्तिहरो हरः ॥
विकृतं रूपम् आस्थाय ह्रस्वो बाहुक एव च
विभग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः ॥
उवाच विकृतास्यश् च देवि त्वां वरयाम्य् अहम्
अथोमा योगसंसिद्धा ज्ञात्वा शंकरम् आगतम् ॥
अन्तर्भावविशुद्धात्मा कृपानुष्ठानलिप्सया
तम् उवाचार्घपाद्याभ्यां मधुपर्केण चैव ह ॥
संपूज्य सुमनोभिस् तं ब्राह्मणं ब्राह्मणप्रिया ॥
भगवन् न स्वतन्त्राहं पिता मे त्व् अग्रणीर् गृहे
स प्रभुर् मम दाने वै कन्याहं द्विजपुंगव ॥
गत्वा याचस्व पितरं मम शैलेन्द्रम् अव्ययम्
स चेद् ददाति मां विप्र तुभ्यं तद् उचितं मम ॥
ततः स भगवान् देवस् तथैव विकृतः प्रभुः
उवाच शैलराजानं सुतां मे यच्छ शैलराट् ॥
स तं विकृतरूपेण ज्ञात्वा रुद्रम् अथाव्ययम्
भीतः शापाच् च विमना इदं वचनम् अब्रवीत् ॥
भगवन् नावमन्ये ऽहं ब्राह्मणान् भुवि देवताः
मनीषितं तु यत् पूर्वं तच् छृणुष्व महामते ॥
स्वयंवरो मे दुहितुर् भविता विप्रपूजितः
वरयेद् यं स्वयं तत्र स भर्तास्या भविष्यति ॥
तच् छ्रुत्वा शैलवचनं भगवान् वृषभध्वजः
देव्याः समीपम् आगत्य इदम् आह महामनाः ॥
देवि पित्रा त्व् अनुज्ञातः स्वयंवर इति श्रुतिः
तत्र त्वं वरयित्री यं स ते भर्ता भवेद् इति ॥
तद् आपृच्छ्य गमिष्यामि दुर्लभां त्वां वरानने
रूपवन्तं समुत्सृज्य वृणोष्य् असदृशं कथम् ॥
तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम्
भावं च रुद्रनिहितं प्रसादं मनसस् तथा ॥
संप्राप्योवाच देवेशं मा ते ऽभूद् बुद्धिर् अन्यथा
अहं त्वां वरयिष्यामि नाद्भुतं तु कथंचन ॥
अथवा ते ऽस्ति संदेहो मयि विप्र कथंचन
इहैव त्वां महाभाग वरयामि मनोगतम् ॥
गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थिता
स्कन्धे शंभोः समाधाय देवी प्राह वृतो ऽसि मे ॥
ततः स भगवान् देवस् तया देव्या वृतस् तदा
उवाच तम् अशोकं वै वाचा संजीवयन्न् इव ॥
यस्मात् तव सुपुण्येन स्तबकेन वृतो ऽस्म्य् अहम्
तस्मात् त्वं जरया त्यक्तस् त्व् अमरः संभविष्यसि ॥
कामरूपी कामपुष्पः कामदो दयितो मम
सर्वाभरणपुष्पाढ्यः सर्वपुष्पफलोपगः ॥
सर्वान्नभक्षकश् चैव अमृतस्वाद एव च
सर्वगन्धश् च देवानां भविष्यसि दृढप्रियः ॥
निर्भयः सर्वलोकेषु भविष्यसि सुनिर्वृतः
आश्रमं वेदम् अत्यर्थं चित्रकूटेति विश्रुतम् ॥
यो हि यास्यति पुण्यार्थी सो ऽश्वमेधम् अवाप्स्यति
यस् तु तत्र मृतश् चापि ब्रह्मलोकं स गच्छति ॥
यश् चात्र नियमैर् युक्तः प्राणान् सम्यक् परित्यजेत्
स देव्यास् तपसा युक्तो महागणपतिर् भवेत् ॥
एवम् उक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम्
अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः ॥
सापि देवी गते तस्मिन् भगवत्य् अमितात्मनि
तत एवोन्मुखी भूत्वा शिलायां संबभूव ह ॥
उन्मुखी सा भवे तस्मिन् महेशे जगतां प्रभौ
निशेव चन्द्ररहिता न बभौ विमनास् तदा ॥
अथ शुश्राव शब्दं च बालस्यार्तस्य शैलजा
सरस्य् उदकसंपूर्णे समीपे चाश्रमस्य च ॥
स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः
क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तो ऽभवत् तदा ॥
योगमायां समास्थाय प्रपञ्चोद्भवकारणम्
तद् रूपं सरसो मध्ये कृत्वैवं समभाषत ॥
त्रातु मां कश्चिद् इत्य् आह ग्राहेण हृतचेतसम्
धिक् कष्टं बाल एवाहम् अप्राप्तार्थमनोरथः ॥
प्रयामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः
शोचामि न स्वकं देहं ग्राहग्रस्तः सुदुःखितः ॥
यथा शोचामि पितरं मातरं च तपस्विनीम्
ग्राहगृहीतं मां श्रुत्वा प्राप्तं निधनम् उत्सुकौ ॥
प्रियपुत्राव् एकपुत्रौ प्राणान् नूनं त्यजिष्यतः
अहो बत सुकष्टं वै यो ऽहं बालो ऽकृताश्रमः
अन्तर्ग्राहेण ग्रस्तस् तु यास्यामि निधनं किल ॥
श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना
उत्थाय प्रस्थिता तत्र यत्र तिष्ठत्य् असौ द्विजः ॥
सापश्यद् इन्दुवदना बालकं चारुरूपिणम्
ग्राहस्य मुखम् आपन्नं वेपमानम् अवस्थितम् ॥
सो ऽपि ग्राहवरः श्रीमान् दृष्ट्वा देवीम् उपागताम्
तं गृहीत्वा द्रुतं यातो मध्यं सरस एव हि ॥
स कृष्यमाणस् तेजस्वी नादम् आर्तं तदाकरोत्
अथाह देवी दुःखार्ता बालं दृष्ट्वा ग्रहावृतम् ॥
ग्राहराज महासत्त्व बालकं ह्य् एकपुत्रकम्
विमुञ्चेमं महादंष्ट्र क्षिप्रं भीमपराक्रम ॥
यो देवि दिवसे षष्ठे प्रथमं समुपैति माम्
स आहारो मम पुरा विहितो लोककर्तृभिः ॥
सो ऽयं मम महाभागे षष्ठे ऽहनि गिरीन्द्रजे
ब्रह्मणा प्रेरितो नूनं नैनं मोक्ष्ये कथंचन ॥
यन् मया हिमवच्छृङ्गे चरितं तप उत्तमम्
तेन बालम् इमं मुञ्च ग्राहराज नमो ऽस्तु ते ॥
मा व्ययस् तपसो देवि भृशं बाले शुभानने
यद् ब्रवीमि कुरु श्रेष्ठे तथा मोक्षम् अवाप्स्यति ॥
ग्राहाधिप वदस्वाशु यत् सताम् अविगर्हितम्
तत् कृतं नात्र संदेहो यतो मे ब्राह्मणाः प्रियाः ॥
यत् कृतं वै तपः किंचिद् भवत्या स्वल्पम् उत्तमम्
तत् सर्वं मे प्रयच्छाशु ततो मोक्षम् अवाप्स्यति ॥
जन्मप्रभृति यत् पुण्यं महाग्राह कृतं मया
तत् ते सर्वं मया दत्तं बालं मुञ्च महाग्रह ॥
प्रजज्वाल ततो ग्राहस् तपसा तेन भूषितः
आदित्य इव मध्याह्ने दुर्निरीक्षस् तदाभवत्
उवाच चैवं तुष्टात्मा देवीं लोकस्य धारिणीम् ॥
देवि किं कृत्यम् एतत् ते सुनिश्चित्य महाव्रते
तपसो ऽप्य् अर्जनं दुःखं तस्य त्यागो न शस्यते ॥
गृहाण तप एव त्वं बालं चेमं सुमध्यमे
तुष्टो ऽस्मि ते विप्रभक्त्या वरं तस्माद् ददामि ते
सा त्व् एवम् उक्ता ग्राहेण उवाचेदं महाव्रता ॥
देहेनापि मया ग्राह रक्ष्यो विप्रः प्रयत्नतः
तपः पुनर् मया प्राप्यं न प्राप्यो ब्राह्मणः पुनः ॥
सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम्
न विप्रेभ्यस् तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ॥
दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विहितं हि ते
नहि कश्चिन् नरो ग्राह प्रदत्तं पुनर् आहरेत् ॥
दत्तम् एतन् मया तुभ्यं नाददानि हि तत् पुनः
त्वय्य् एव रमताम् एतद् बालश् चायं विमुच्यताम् ॥
तथोक्तस् तां प्रशस्याथ मुक्त्वा बालं नमस्य च
देवीम् आदित्यावभासस् तत्रैवान्तरधीयत ॥
बालो ऽपि सरसस् तीरे मुक्तो ग्राहेण वै तदा
स्वप्नलब्ध इवार्थौघस् तत्रैवान्तरधीयत ॥
तपसो ऽपचयं मत्वा देवी हिमगिरीन्द्रजा
भूय एव तपः कर्तुम् आरेभे नियमस्थिता ॥
कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम्
प्रोवाच वचनं विप्रा मा कृथास् तप इत्य् उत ॥
मह्यम् एतत् तपो देवि त्वया दत्तं महाव्रते
तत् तेनैवाक्षयं तुभ्यं भविष्यति सहस्रधा ॥
इति लब्ध्वा वरं देवी तपसो ऽक्षयम् उत्तमम्
स्वयंवरम् उदीक्षन्ती तस्थौ प्रीता मुदा युता ॥
इदं पठेद् यो हि नरः सदैव बालानुभावाचरणं हि शंभोः
स देहभेदं समवाप्य पूतो भवेद् गणेशस् तु कुमारतुल्यः
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0