भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 32

32.1

निर्गुणः शाश्वतो देवस् त्वया प्रोक्तो दिवाकरः
पुनर् द्वादशधा जातः श्रुतो ऽस्माभिस् त्वयोदितः ॥

32.2

स कथं तेजसो रश्मिः स्त्रिया गर्भे महाद्युतिः
संभूतो भास्करो जातस् तत्र नः संशयो महान् ॥

32.3

दक्षस्य हि सुताः श्रेष्ठा बभूवुः षष्टिः शोभनाः
अदितिर् दितिर् दनुश् चैव विनताद्यास् तथैव च ॥

32.4

दक्षस् ताः प्रददौ कन्याः कश्यपाय त्रयोदश
अदितिर् जनयाम् आस देवांस् त्रिभुवनेश्वरान् ॥

32.5

दैत्यान् दितिर् दनुश् चोग्रान् दानवान् बलदर्पितान्
विनताद्यास् तथा चान्याः सुषुवुः स्थानुजङ्गमान् ॥

32.6

तस्याथ पुत्रदौहित्रैः पौत्रदौहित्रकादिभिः
व्याप्तम् एतज् जगत् सर्वं तेषां तासां च वै मुने ॥

32.7

तेषां कश्यपपुत्राणां प्रधाना देवतागणाः
सात्त्विका राजसाश् चान्ये तामसाश् च गणाः स्मृताः ॥

32.8

देवान् यज्ञभुजश् चक्रे तथा त्रिभुवनेश्वरान्
स्रष्टा ब्रह्मविदां श्रेष्ठः परमेष्ठी प्रजापतिः ॥

32.9

तान् अबाधन्त सहिताः सापत्न्याद् दैत्यदानवाः
ततो निराकृतान् पुत्रान् दैतेयैर् दानवैस् तथा ॥

32.10

हतं त्रिभुवनं दृष्ट्वा अदितिर् मुनिसत्तमाः
आच्छिनद् यज्ञभागांश् च क्षुधा संपीडितान् भृशम् ॥

32.11

आराधनाय सवितुः परं यत्नं प्रचक्रमे
एकाग्रा नियताहारा परं नियमम् आस्थिता
तुष्टाव तेजसां राशिं गगनस्थं दिवाकरम् ॥

32.12

नमस् तुभ्यं परं सूक्ष्मं सुपुण्यं बिभ्रते ऽतुलम्
धाम धामवताम् ईशं धामाधारं च शाश्वतम् ॥

32.13

जगताम् उपकाराय त्वाम् अहं स्तौमि गोपते
आददानस्य यद् रूपं तीव्रं तस्मै नमाम्य् अहम् ॥

32.14

ग्रहीतुम् अष्टमासेन कालेनाम्बुमयं रसम्
बिभ्रतस् तव यद् रूपम् अतितीव्रं नतास्मि तत् ॥

32.15

समेतम् अग्निसोमाभ्यां नमस् तस्मै गुणात्मने
यद् रूपम् ऋग्यजुःसाम्नाम् ऐक्येन तपते तव ॥

32.16

विश्वम् एतत् त्रयीसंज्ञं नमस् तस्मै विभावसो
यत् तु तस्मात् परं रूपम् ओम् इत्य् उक्त्वाभिसंहितम्
अस्थूलं स्थूलम् अमलं नमस् तस्मै सनातन ॥

32.17

एवं सा नियता देवी चक्रे स्तोत्रम् अहर्निशम्
निराहारा विवस्वन्तम् आरिराधयिषुर् द्विजाः ॥

32.18

ततः कालेन महता भगवांस् तपनो द्विजाः
प्रत्यक्षताम् अगात् तस्या दाक्षायण्या द्विजोत्तमाः ॥

32.19

सा ददर्श महाकूटं तेजसो ऽम्बरसंवृतम्
भूमौ च संस्थितं भास्वज् ज्वालाभिर् अतिदुर्दृशम्
तं दृष्ट्वा च ततो देवी साध्वसं परमं गता ॥

32.21

जगदाद्य प्रसीदेति न त्वां पश्यामि गोपते
प्रसादं कुरु पश्येयं यद् रूपं ते दिवाकर
भक्तानुकम्पक विभो त्वद्भक्तान् पाहि मे सुतान् ॥

32.22

ततः स तेजसस् तस्माद् आविर्भूतो विभावसुः
अदृश्यत तदादित्यस् तप्तताम्रोपमः प्रभुः ॥

32.23

ततस् तां प्रणतां देवीं तस्यासंदर्शने द्विजाः
प्राह भास्वान् वृणुष्वैकं वरं मत्तो यम् इच्छसि ॥

32.24

प्रणता शिरसा सा तु जानुपीडितमेदिनी
प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् ॥

32.25

देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम
यज्ञभागाश् च दैतेयैर् दानवैश् च बलाधिकैः ॥

32.26

तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते
अंशेन तेषां भ्रातृत्वं गत्वा तान् नाशये रिपून् ॥

32.27

यथा मे तनया भूयो यज्ञभागभुजः प्रभो
भवेयुर् अधिपाश् चैव त्रैलोक्यस्य दिवाकर ॥

32.28

तथानुकल्पं पुत्राणां सुप्रसन्नो रवे मम
कुरु प्रसन्नार्तिहर कार्यं कर्ता त्वम् उच्यते ॥

32.29

ततस् ताम् आह भगवान् भास्करो वारितस्करः
प्रणताम् अदितिं विप्राः प्रसादसुमुखो विभुः ॥

32.30

सहस्रांशेन ते गर्भः संभूयाहम् अशेषतः
त्वत्पुत्रशत्रून् दक्षो ऽहं नाशयाम्य् आशु निर्वृतः ॥

32.31

इत्य् उक्त्वा भगवान् भास्वान् अन्तर्धानम् उपागतः
निवृत्ता सापि तपसः संप्राप्ताखिलवाञ्छिता ॥

32.32

ततो रश्मिसहस्रात् तु सुषुम्नाख्यो रवेः करः
ततः संवत्सरस्यान्ते तत्कामपूरणाय सः ॥

32.33

निवासं सविता चक्रे देवमातुस् तदोदरे
कृच्छ्रचान्द्रायणादींश् च सा चक्रे सुसमाहिता ॥

32.34

शुचिना धारयाम्य् एनं दिव्यं गर्भम् इति द्विजाः
ततस् तां कश्यपः प्राह किंचित्कोपप्लुताक्षरम् ॥

32.35

किं मारयसि गर्भाण्डम् इति नित्योपवासिनी
सा च तं प्राह गर्भाण्डम् एतत् पश्येति कोपना
न मारितं विपक्षाणां मृत्युर् एव भविष्यति ॥

32.36

इत्य् उक्त्वा तं तदा गर्भम् उत्ससर्ज सुरारणिः
जाज्वल्यमानं तेजोभिः पत्युर् वचनकोपिता ॥

32.37

तं दृष्ट्वा कश्यपो गर्भम् उद्यद्भास्करवर्चसम्
तुष्टाव प्रणतो भूत्वा वाग्भिर् आद्याभिर् आदरात् ॥

32.38

संस्तूयमानः स तदा गर्भाण्डात् प्रकटो ऽभवत्
पद्मपत्त्रसवर्णाभस् तेजसा व्याप्तदिङ्मुखः ॥

32.39

अथान्तरिक्षाद् आभाष्य कश्यपं मुनिसत्तमम्
सतोयमेघगम्भीरा वाग् उवाचाशरीरिणी ॥

32.40

मारितंतेपतः प्रोक्तम् एतद् अण्डं त्वयादितेः
तस्मान् मुने सुतस् ते ऽयं मार्तण्डाख्यो भविष्यति ॥

32.41

हनिष्यत्य् असुरांश् चायं यज्ञभागहरान् अरीन्
देवा निशम्येति वचो गगनात् समुपागतम् ॥

32.42

प्रहर्षम् अतुलं याता दानवाश् च हतौजसः
ततो युद्धाय दैतेयान् आजुहाव शतक्रतुः ॥

32.43

सह देवैर् मुदा युक्तो दानवाश् च तम् अभ्ययुः
तेषां युद्धम् अभूद् घोरं देवानाम् असुरैः सह ॥

32.44

शस्त्रास्त्रवृष्टिसंदीप्त समस्तभुवनान्तरम्
तस्मिन् युद्धे भगवता मार्तण्डेन निरीक्षिताः ॥

32.45

तेजसा दह्यमानास् ते भस्मीभूता महासुराः
ततः प्रहर्षम् अतुलं प्राप्ताः सर्वे दिवौकसः ॥

32.46

तुष्टुवुस् तेजसां योनिं मार्तण्डम् अदितिं तथा
स्वाधिकारांस् ततः प्राप्ता यज्ञभागांश् च पूर्ववत् ॥

32.47

भगवान् अपि मार्तण्डः स्वाधिकारम् अथाकरोत्
कदम्बपुष्पवद् भास्वान् अधश् चोर्ध्वं च रश्मिभिः
वृतो ऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः ॥

32.48

कथं कान्ततरं पश्चाद् रूपं संलब्धवान् रविः
कदम्बगोलकाकारं तन् मे ब्रूहि जगत्पते ॥

32.49

त्वष्टा तस्मै ददौ कन्यां संज्ञां नाम विवस्वते
प्रसाद्य प्रणतो भूत्वा विश्वकर्मा प्रजापतिः ॥

32.50

त्रीण्य् अपत्यान्य् असौ तस्यां जनयाम् आस गोपतिः
द्वौ पुत्रौ सुमहाभागौ कन्यां च यमुनां तथा ॥

32.51

यत् तेजो ऽभ्यधिकं तस्य मार्तण्डस्य विवस्वतः
तेनातितापयाम् आस त्रींल् लोकान् सचराचरान् ॥

32.52

तद् रूपं गोलकाकारं दृष्ट्वा संज्ञा विवस्वतः
असहन्ती महत् तेजः स्वां छायां वाक्यम् अब्रवीत् ॥

32.53

अहं यास्यामि भद्रं ते स्वम् एव भवनं पितुः
निर्विकारं त्वयात्रैव स्थेयं मच्छासनाच् छुभे ॥

32.54

इमौ च बालकौ मह्यं कन्या च वरवर्णिनी
संभाव्या नैव चाख्येयम् इदं भगवते त्वया ॥

32.55

आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित्
आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम् ॥

32.56

इत्य् उक्ता व्रीडिता संज्ञा जगाम पितृमन्दिरम्
वत्सराणां सहस्रं तु वसमाना पितुर् गृहे ॥

32.57

भर्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः
आगच्छद् वडवा भूत्वा कुरून् अथोत्तरांस् ततः ॥

32.58

तत्र तेपे तपः साध्वी निराहारा द्विजोत्तमाः
पितुः समीपं यातायां संज्ञायां वाक्यतत्परा ॥

32.59

तद्रूपधारिणी छाया भास्करं समुपस्थिता
तस्यां च भगवान् सूर्यः संज्ञेयम् इति चिन्तयन् ॥

32.60

तथैव जनयाम् आस द्वौ पुत्रौ कन्यकां तथा
संज्ञा तु पार्थिवी तेषाम् आत्मजानां तथाकरोत् ॥

32.61

स्नेहं न पूर्वजातानां तथा कृतवती तु सा
मनुस् तत् क्षान्तवांस् तस्या यमस् तस्या न चक्षमे ॥

32.62

बहुधा पीड्यमानस् तु पितुः पत्या सुदुःखितः
स वै कोपाच् च बाल्याच् च भाविनो ऽर्थस्य वै बलात्
पदा संतर्जयाम् आस न तु देहे न्यपातयत् ॥

32.63

पदा तर्जयसे यस्मात् पितुर् भार्यां गरीयसीम्
तस्मात् तवैष चरणः पतिष्यति न संशयः ॥

32.64

यमस् तु तेन शापेन भृशं पीडितमानसः
मनुना सह धर्मात्मा पित्रे सर्वं न्यवेदयत् ॥

32.65

स्नेहेन तुल्यम् अस्मासु माता देव न वर्तते
विसृज्य ज्यायसं भक्त्या कनीयांसं बुभूषति ॥

32.66

तस्यां मयोद्यतः पादो न तु देहे निपातितः
बाल्याद् वा यदि वा मोहात् तद् भवान् क्षन्तुम् अर्हसि ॥

32.67

शप्तो ऽहं तात कोपेन जनन्या तनयो यतः
ततो मन्ये न जननीम् इमां वै तपतां वर ॥

32.68

तव प्रसादाच् चरणो भगवन् न पतेद् यथा
मातृशापाद् अयं मे ऽद्य तथा चिन्तय गोपते ॥

32.69

असंशयं महत् पुत्र भविष्यत्य् अत्र कारणम्
येन त्वाम् आविशत् क्रोधो धर्मज्ञं धर्मशीलिनम् ॥

32.70

सर्वेषाम् एव शापानां प्रतिघातो हि विद्यते
न तु मात्राभिशप्तानां क्वचिच् छापनिवर्तनम् ॥

32.71

न शक्यम् एतन् मिथ्या तु कर्तुं मातुर् वचस् तव
किंचित् ते ऽहं विधास्यामि पुत्रस्नेहाद् अनुग्रहम् ॥

32.72

कृमयो मांसम् आदाय प्रयास्यन्ति महीतलम्
कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि ॥

32.73

आदित्यस् त्व् अब्रवीच् छायां किमर्थं तनयेषु वै
तुल्येष्व् अप्य् अधिकः स्नेह एकं प्रति कृतस् त्वया ॥

32.74

नूनं नैषां त्वं जननी संज्ञा कापि त्वम् आगता
निर्गुणेष्व् अप्य् अपत्येषु माता शापं न दास्यति ॥

32.75

सा तत्परिहरन्ती च शापाद् भीता तदा रवेः
कथयाम् आस वृत्तान्तं स श्रुत्वा श्वशुरं ययौ ॥

32.76

स चापि तं यथान्यायम् अर्चयित्वा तदा रविम्
निर्दग्धुकामं रोषेण सान्त्वयानस् तम् अब्रवीत् ॥

32.77

तवातितेजसा व्याप्तम् इदं रूपं सुदुःसहम्
असहन्ती तु तत् संज्ञा वने चरति वै तपः ॥

32.78

द्रक्ष्यते तां भवान् अद्य स्वां भार्यां शुभचारिणीम्
रूपार्थं भवतो ऽरण्ये चरन्तीं सुमहत् तपः ॥

32.79

श्रुतं मे ब्रह्मणो वाक्यं तव तेजोवरोधने
रूपं निर्वर्तयाम्य् अद्य तव कान्तं दिवस्पते ॥

32.80

ततस् तथेति तं प्राह त्वष्टारं भगवान् रविः
ततो विवस्वतो रूपं प्राग् आसीत् परिमण्डलम् ॥

32.81

विश्वकर्मा त्व् अनुज्ञातः शाकद्वीपे विवस्वता
भ्रमिम् आरोप्य तत्तेजः शातनायोपचक्रमे ॥

32.82

भ्रमताशेषजगतां नाभिभूतेन भास्वता
समुद्राद्रिवनोपेता त्व् आरुरोह मही नभः ॥

32.83

गगनं चाखिलं विप्राः सचन्द्रग्रहतारकम्
अधोगतं महाभागा बभूवाक्षिप्तम् आकुलम् ॥

32.84

विक्षिप्तसलिलाः सर्वे बभूवुश् च तथार्णवाः
व्यभिद्यन्त महाशैलाः शीर्णसानुनिबन्धनाः ॥

32.85

ध्रुवाधाराण्य् अशेषाणि धिष्ण्यानि मुनिसत्तमाः
त्रुट्यद्रश्मिनिबन्धीनि बन्धनानि अधो ययुः ॥

32.86

वेगभ्रमणसंपात वायुक्षिप्ताः सहस्रशः
व्यशीर्यन्त महामेघा घोरारावविराविणः ॥

32.87

भास्वद्भ्रमणविभ्रान्त भूम्याकाशरसातलम्
जगद् आकुलम् अत्यर्थं तदासीन् मुनिसत्तमाः ॥

32.88

त्रैलोक्यम् आकुलं वीक्ष्य भ्रममाणं सुरर्षयः
देवाश् च ब्रह्मणा सार्धं भास्वन्तम् अभितुष्टुवुः ॥

32.89

आदिदेवो ऽसि देवानां जातस् त्वं भूतये भुवः
सर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि ॥

32.90

स्वस्ति ते ऽस्तु जगन्नाथ घर्मवर्षदिवाकर
इन्द्रादयस् तदा देवा लिख्यमानम् अथास्तुवन् ॥

32.91

जय देव जगत्स्वामिञ् जयाशेषजगत्पते
ऋषयश् च ततः सप्त वसिष्ठात्रिपुरोगमाः ॥

32.92

तुष्टुवुर् विविधैः स्तोत्रैः स्वस्ति स्वस्तीतिवादिनः
वेदोक्तिभिर् अथाग्र्याभिर् वालखिल्याश् च तुष्टुवुः ॥

32.93

अग्निर् आद्याश् च भास्वन्तं लिख्यमानं मुदा युताः
त्वं नाथ मोक्षिणां मोक्षो ध्येयस् त्वं ध्यानिनां परः ॥

32.94

त्वं गतिः सर्वभूतानां कर्मकाण्डविवर्तिनाम्
संपूज्यस् त्वं तु देवेश शं नो ऽस्तु जगतां पते ॥

32.95

शं नो ऽस्तु द्विपदे नित्यं शं नश् चास्तु चतुष्पदे
ततो विद्याधरगणा यक्षराक्षसपन्नगाः ॥

32.96

कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम्
ऊचुस् ते विविधा वाचो मनःश्रोत्रसुखावहाः ॥

32.97

सह्यं भवतु तेजस् ते भूतानां भूतभावन
ततो हाहाहूहूश् चैव नारदस् तुम्बुरुस् तथा ॥

32.98

उपगायितुम् आरब्धा गान्धर्वकुशला रविम्
षड्जमध्यमगान्धार गानत्रयविशारदाः ॥

32.99

मूर्छनाभिश् च तालैश् च संप्रयोगैः सुखप्रदम्
विश्वाची च घृताची च उर्वश्य् अथ तिलोत्तमाः ॥

32.100

मेनका सहजन्या च रम्भा चाप्सरसां वरा
ननृतुर् जगताम् ईशे लिख्यमाने विभावसौ ॥

32.101

भावहावविलासाद्यान् कुर्वत्यो ऽभिनयान् बहून्
प्रावाद्यन्त ततस् तत्र वीणा वेण्वादिझर्झराः ॥

32.102

पणवाः पुष्कराश् चैव मृदङ्गाः पटहानकाः
देवदुन्दुभयः शङ्खाः शतशो ऽथ सहस्रशः ॥

32.103

गायद्भिश् चैव नृत्यद्भिर् गन्धर्वैर् अप्सरोगणैः
तूर्यवादित्रघोषैश् च सर्वं कोलाहलीकृतम् ॥

32.104

ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्तयः
लिख्यमानं सहस्रांशुं प्रणेमुः सर्वदेवताः ॥

32.105

ततः कोलाहले तस्मिन् सर्वदेवसमागमे
तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः ॥

32.106

आजानुलिखितश् चासौ निपुणं विश्वकर्मणा
नाभ्यनन्दत् तु लिखनं ततस् तेनावतारितः ॥

32.107

न तु निर्भर्त्सितं रूपं तेजसो हननेन तु
कान्तात् कान्ततरं रूपम् अधिकं शुशुभे ततः ॥

32.108

इति हिमजलघर्मकालहेतोर् हरकमलासनविष्णुसंस्तुतस्य
तदुपरि लिखनं निशम्य भानोर् व्रजति दिवाकरलोकम् आयुषो ऽन्ते

32.109

एवं जन्म रवेः पूर्वं बभूव मुनिसत्तमाः
रूपं च परमं तस्य मया संपरिकीर्तितम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc