ब्रह्म पुराण · अध्याय 2
स सृष्ट्वा तु प्रजास् त्व् एवम् आपवो वै प्रजापतिः
लेभे वै पुरुषः पत्नीं शतरूपाम् अयोनिजाम् ॥
आपवस्य महिम्ना तु दिवम् आवृत्य तिष्ठतः
धर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत ॥
सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम्
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥
स वै स्वायंभुवो विप्राः पुरुषो मनुर् उच्यते
तस्यैकसप्ततियुगं मन्वन्तरम् इहोच्यते ॥
वैराजात् पुरुषाद् वीरं शतरूपा व्यजायत
प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत ॥
काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः
काम्यापुत्रास् तु चत्वारः सम्राट् कुक्षिर् विराट् प्रभुः ॥
उत्तानपादं जग्राह पुत्रम् अत्रिः प्रजापतिः
उत्तानपादाच् चतुरः सूनृता सुषुवे सुतान् ॥
धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता
उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ॥
ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा
उत्तानपादो ऽजनयत् सूनृतायां प्रजापतिः ॥
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः
तपस् तेपे महाभागः प्रार्थयन् सुमहद् यशः ॥
तस्मै ब्रह्मा ददौ प्रीतः स्थानम् आत्मसमं प्रभुः
अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥
तस्याभिमानम् ऋद्धिं च महिमानं निरीक्ष्य च
देवासुराणाम् आचार्यः श्लोकं प्राग् उशना जगौ ॥
अहो ऽस्य तपसो वीर्यम् अहो श्रुतम् अहो ऽद्भुतम्
यम् अद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥
तस्माच् छ्लिष्टिं च भव्यं च ध्रुवाच् छंभुर् व्यजायत
श्लिष्टेर् आधत्त सुच्छाया पञ्च पुत्रान् अकल्मषान् ॥
रिपुं रिपुंजयं वीरं वृकलं वृकतेजसम्
रिपोर् आधत्त बृहती चक्षुषं सर्वतेजसम् ॥
अजीजनत् पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम्
प्रजापतेर् आत्मजायां वीरण्यस्य महात्मनः ॥
मनोर् अजायन्त दश नड्वलायां महौजसः
कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः ॥
कुत्सः पुरुः शतद्युम्नस् तपस्वी सत्यवाक् कविः
अग्निष्टुद् अतिरात्रश् च सुद्युम्नश् चेति ते नव ॥
अभिमन्युश् च दशमो नड्वलायां महौजसः
पुरोर् अजनयत् पुत्रान् षड् आग्नेयी महाप्रभान् ॥
अङ्गं सुमनसं स्वातिं क्रतुम् अङ्गिरसं मयम्
अङ्गात् सुनीथापत्यं वै वेणम् एकं व्यजायत ॥
अपचारेण वेणस्य प्रकोपः सुमहान् अभूत्
प्रजार्थम् ऋषयो यस्य ममन्थुर् दक्षिणं करम् ॥
वेणस्य मथिते पाणौ संबभूव महान् नृपः
तं दृष्ट्वा मुनयः प्राहुर् एष वै मुदिताः प्रजाः ॥
करिष्यति महातेजा यशश् च प्राप्स्यते महत्
स धन्वी कवची जातो ज्वलज्ज्वलनसंनिभः ॥
पृथुर् वैण्यस् तथा चेमां ररक्ष क्षत्रपूर्वजः
राजसूयाभिषिक्तानाम् आद्यः स वसुधापतिः ॥
तस्माच् चैव समुत्पन्नौ निपुणौ सूतमागधौ
तेनेयं गौर् मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता ॥
प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह
पितृभिर् दानवैश् चैव गन्धर्वैर् अप्सरोगणैः ॥
सर्पैः पुण्यजनैश् चैव वीरुद्भिः पर्वतैस् तथा
तेषु तेषु च पात्रेषु दुह्यमाना वसुंधरा ॥
प्रादाद् यथेप्सितं क्षीरं तेन प्राणान् अधारयन्
पृथोस् तु पुत्रौ धर्मज्ञौ यज्ञान्ते ऽन्तर्धिपातिनौ ॥
शिखण्डिनी हविर्धानम् अन्तर्धानाद् व्यजायत
हविर्धानात् षड् आग्नेयी धिषणाजनयत् सुतान् ॥
प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ
प्राचीनबर्हिर् भगवान् महान् आसीत् प्रजापतिः ॥
हविर्धानान् मुनिश्रेष्ठा येन संवर्धिताः प्रजाः
प्राचीनबर्हिर् भगवान् पृथिवीतलचारिणीः ॥
समुद्रतनयायां तु कृतदारो ऽभवत् प्रभुः
महतस् तपसः पारे सवर्णायां प्रजापतिः ॥
सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः
सर्वान् प्रचेतसो नाम धनुर्वेदस्य पारगान् ॥
अपृथग्धर्मचरणास् ते ऽतप्यन्त महत् तपः
दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥
तपश् चरत्सु पृथिवीं प्रचेतःसु महीरुहाः
अरक्षमाणाम् आवव्रुर् बभूवाथ प्रजाक्षयः ॥
नाशकन् मारुतो वातुं वृतं खम् अभवद् द्रुमैः
दश वर्षसहस्राणि न शेकुश् चेष्टितुं प्रजाः ॥
तद् उपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः
मुखेभ्यो वायुम् अग्निं च ससृजुर् जातमन्यवः ॥
उन्मूलान् अथ वृक्षांस् तु कृत्वा वायुर् अशोषयत्
तान् अग्निर् अदहद् घोर एवम् आसीद् द्रुमक्षयः ॥
द्रुमक्षयम् अथो बुद्ध्वा किंचिच् छिष्टेषु शाखिषु
उपगम्याब्रवीद् एतांस् तदा सोमः प्रजापतीन् ॥
कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः
वृक्षशून्या कृता पृथ्वी शाम्येताम् अग्निमारुतौ ॥
रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी
भविष्यं जानता तात धृता गर्भेण वै मया ॥
मारिषा नाम नाम्नैषा वृक्षाणाम् इति निर्मिता
भार्या वो ऽस्तु महाभागाः सोमवंशविवर्धिनी ॥
युष्माकं तेजसो ऽर्धेन मम चार्धेन तेजसः
अस्याम् उत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥
स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै
अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥
ततः सोमस्य वचनाज् जगृहुस् ते प्रचेतसः
संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥
दशभ्यस् तु प्रचेतोभ्यो मारिषायां प्रजापतिः
दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः ॥
अचरांश् च चरांश् चैव द्विपदो ऽथ चतुष्पदः
स सृष्ट्वा मनसा दक्षः पश्चाद् असृजत स्त्रियः ॥
ददौ दश स धर्माय कश्यपाय त्रयोदश
शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः ॥
तासु देवाः खगा गावो नागा दितिजदानवाः
गन्धर्वाप्सरसश् चैव जज्ञिरे ऽन्याश् च जातयः ॥
ततः प्रभृति विप्रेन्द्राः प्रजा मैथुनसंभवाः
संकल्पाद् दर्शनात् स्पर्शात् पूर्वेषां प्रोच्यते प्रजा ॥
देवानां दानवानां च गन्धर्वोरगरक्षसाम्
संभवस् तु श्रुतो ऽस्माभिर् दक्षस्य च महात्मनः ॥
अङ्गुष्ठाद् ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः
वामाङ्गुष्ठात् तथा चैवं तस्य पत्नी व्यजायत ॥
कथं प्राचेतसत्वं स पुनर् लेभे महातपाः
एतं नः संशयं सूत व्याख्यातुं त्वम् इहार्हसि
दौहित्रश् चैव सोमस्य कथं श्वशुरतां गतः ॥
उत्पत्तिश् च निरोधश् च नित्यं भूतेषु भो द्विजाः
ऋषयो ऽत्र न मुह्यन्ति विद्यावन्तश् च ये जनाः ॥
युगे युगे भवन्त्य् एते पुनर् दक्षादयो नृपाः
पुनश् चैव निरुध्यन्ते विद्वांस् तत्र न मुह्यति ॥
ज्यैष्ठ्यं कानिष्ठम् अप्य् एषां पूर्वं नासीद् द्विजोत्तमाः
तप एव गरीयो ऽभूत् प्रभावश् चैव कारणम् ॥
इमां विसृष्टिं दक्षस्य यो विद्यात् सचराचराम्
प्रजावान् आयुर् उत्तीर्णः स्वर्गलोके महीयते ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0