भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 27

27.1

शृणुध्वं मुनयः सर्वे यद् वो वक्ष्यामि सांप्रतम्
पुराणं वेदसंबद्धं भुक्तिमुक्तिप्रदं शुभम् ॥

27.2

पृथिव्यां भारतं वर्षं कर्मभूमिर् उदाहृता
कर्मणः फलभूमिश् च स्वर्गं च नरकं तथा ॥

27.3

तस्मिन् वर्षे नरः पापं कृत्वा धर्मं च भो द्विजाः
अवश्यं फलम् आप्नोति अशुभस्य शुभस्य च ॥

27.4

ब्राह्मणाद्याः स्वकं कर्म कृत्वा सम्यक् सुसंयताः
प्राप्नुवन्ति परां सिद्धिं तस्मिन् वर्षे न संशयः ॥

27.5

धर्मं चार्थं च कामं च मोक्षं च द्विजसत्तमाः
प्राप्नोति पुरुषः सर्वं तस्मिन् वर्षे सुसंयतः ॥

27.6

इन्द्राद्याश् च सुराः सर्वे तस्मिन् वर्षे द्विजोत्तमाः
कृत्वा सुशोभनं कर्म देवत्वं प्रतिपेदिरे ॥

27.7

अन्ये ऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः
तस्मिन् वर्षे बुधाः शान्ता वीतरागा विमत्सराः ॥

27.8

ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः
ते ऽपि कृत्वा शुभं कर्म तस्मिन् वर्षे दिवं गताः ॥

27.9

निवासं भारते वर्ष आकाङ्क्षन्ति सदा सुराः
स्वर्गापवर्गफलदे तत् पश्यामः कदा वयम् ॥

27.10

यद् एतद् भवता प्रोक्तं कर्म नान्यत्र पुण्यदम्
पापाय वा सुरश्रेष्ठ वर्जयित्वा च भारतम् ॥

27.11

ततः स्वर्गश् च मोक्षश् च मध्यमं तच् च गम्यते
न खल्व् अन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥

27.12

तस्माद् विस्तरतो ब्रह्मन्न् अस्माकं भारतं वद
यदि ते ऽस्ति दयास्मासु यथावस्थितिर् एव च ॥

27.13

तस्माद् वर्षम् इदं नाथ ये वास्मिन् वर्षपर्वताः
भेदाश् च तस्य वर्षस्य ब्रूहि सर्वान् अशेषतः ॥

27.14

शृणुध्वं भारतं वर्षं नवभेदेन भो द्विजाः
समुद्रान्तरिता ज्ञेयास् ते समाश् च परस्परम् ॥

27.15

इन्द्रद्वीपः कशेरुश् च ताम्रवर्णो गभस्तिमान्
नागद्वीपस् तथा सौम्यो गान्धर्वो वारुणस् तथा ॥

27.16

अयं तु नवमस् तेषां द्वीपः सागरसंवृतः
योजनानां सहस्रं वै द्वीपो ऽयं दक्षिणोत्तरः ॥

27.17

पूर्वे किराता यस्यासन् पश्चिमे यवनास् तथा
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चान्ते स्थिता द्विजाः ॥

27.18

इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः
तेषां संव्यवहारश् च एभिः कर्मभिर् इष्यते ॥

27.19

स्वर्गापवर्गहेतुश् च पुण्यं पापं च वै तथा
महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ॥

27.20

विन्ध्यश् च पारियात्रश् च सप्तैवात्र कुलाचलाः
तेषां सहस्रशश् चान्ये भूधरा ये समीपगाः ॥

27.21

विस्तारोच्छ्रयिणो रम्या विपुलाश् चित्रसानवः
कोलाहलः स वैभ्राजो मन्दरो दर्दलाचलः ॥

27.22

वातंधयो वैद्युतश् च मैनाकः सुरसस् तथा
तुङ्गप्रस्थो नागगिरिर् गोधनः पाण्डराचलः ॥

27.23

पुष्पगिरिर् वैजयन्तो रैवतो ऽर्बुद एव च
ऋष्यमूकः स गोमन्थः कृतशैलः कृताचलः ॥

27.24

श्रीपार्वतश् चकोरश् च शतशो ऽन्ये च पर्वताः
तैर् विमिश्रा जनपदा म्लेच्छाद्याश् चैव भागशः ॥

27.25

तैः पीयन्ते सरिच्छ्रेष्ठास् ता बुध्यध्वं द्विजोत्तमाः
गङ्गा सरस्वती सिन्धुश् चन्द्रभागा तथापरा ॥

27.26

यमुना शतद्रुर् विपाशा वितस्तैरावती कुहूः
गोमती धूतपापा च बाहुदा च दृषद्वती ॥

27.27

विपाशा देविका चक्षुर् निष्ठीवा गण्डकी तथा
कौशिकी चापगा चैव हिमवत्पादनिःसृताः ॥

27.28

देवस्मृतिर् देववती वातघ्नी सिन्धुर् एव च
वेण्या तु चन्दना चैव सदानीरा मही तथा ॥

27.29

चर्मण्वती वृषी चैव विदिशा वेदवत्य् अपि
सिप्रा ह्य् अवन्ती च तथा पारियात्रानुगाः स्मृताः ॥

27.30

शोणा महानदी चैव नर्मदा सुरथा क्रिया
मन्दाकिनी दशार्णा च चित्रकूटा तथापरा ॥

27.31

चित्रोत्पला वेत्रवती करमोदा पिशाचिका
तथान्यातिलघुश्रोणी विपाप्मा शैवला नदी ॥

27.32

सधेरुजा शक्तिमती शकुनी त्रिदिवा क्रमुः
ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी ॥

27.33

सिप्रा पयोष्णी निर्विन्ध्या तापी चैव सरिद्वरा
वेणा वैतरणी चैव सिनीवाली कुमुद्वती ॥

27.34

तोया चैव महागौरी दुर्गा चान्तःशिला तथा
विन्ध्यपादप्रसूतास् ता नद्यः पुण्यजलाः शुभाः ॥

27.35

गोदावरी भीमरथी कृष्णवेणा तथापगा
तुङ्गभद्रा सुप्रयोगा तथान्या पापनाशिनी ॥

27.36

सह्यपादविनिष्क्रान्ता इत्य् एताः सरितां वराः
कृतमाला ताम्रपर्णी पुष्यजा प्रत्यलावती ॥

27.37

मलयाद्रिसमुद्भूताः पुण्याः शीतजलास् त्व् इमाः
पितृसोमर्षिकुल्या च वञ्जुला त्रिदिवा च या ॥

27.38

लाङ्गुलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः
सुविकाला कुमारी च मनूगा मन्दगामिनी ॥

27.39

क्षयापलासिनी चैव शुक्तिमत्प्रभवाः स्मृताः
सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ॥

27.40

विश्वस्य मातरः सर्वाः सर्वाः पापहराः स्मृताः
अन्याः सहस्रशः प्रोक्ताः क्षुद्रनद्यो द्विजोत्तमाः ॥

27.41

प्रावृट्कालवहाः सन्ति सदाकालवहाश् च याः
मत्स्या मुकुटकुल्याश् च कुन्तलाः काशिकोशलाः ॥

27.42

अन्ध्रकाश् च कलिङ्गाश् च शमकाश् च वृकैः सह
मध्यदेशा जनपदाः प्रायशो ऽमी प्रकीर्तिताः ॥

27.43

सह्यस्य चोत्तरे यस् तु यत्र गोदावरी नदी
पृथिव्याम् अपि कृत्स्नायां स प्रदेशो मनोरमः ॥

27.44

गोवर्धनपुरं रम्यं भार्गवस्य महात्मनः
वाहीकराटधानाश् च सुतीराः कालतोयदाः ॥

27.45

अपरान्ताश् च शूद्राश् च वाह्लिकाश् च सकेरलाः
गान्धारा यवनाश् चैव सिन्धुसौवीरमद्रकाः ॥

27.46

शतद्रुहाः कलिङ्गाश् च पारदा हारभूषिकाः
माठराश् चैव कनकाः कैकेया दम्भमालिकाः ॥

27.47

क्षत्रियोपमदेशाश् च वैश्यशूद्रकुलानि च
काम्बोजाश् चैव विप्रेन्द्रा बर्बराश् च सलौकिकाः ॥

27.48

वीराश् चैव तुषाराश् च पह्लवाधायता नराः
आत्रेयाश् च भरद्वाजाः पुष्कलाश् च दशेरकाः ॥

27.49

लम्पकाः शुनशोकाश् च कुलिका जाङ्गलैः सह
औषध्यश् चलचन्द्रा च किरातानां च जातयः ॥

27.50

तोमरा हंसमार्गाश् च काश्मीराः करुणास् तथा
शूलिकाः कुहकाश् चैव मागधाश् च तथैव च ॥

27.51

एते देशा उदीच्यास् तु प्राच्यान् देशान् निबोधत
अन्धा वामङ्कुराकाश् च वल्लकाश् च मखान्तकाः ॥

27.52

तथापरे ऽङ्गा वङ्गाश् च मलदा मालवर्तिकाः
भद्रतुङ्गाः प्रतिजया भार्याङ्गाश् चापमर्दकाः ॥

27.53

प्राग्ज्योतिषाश् च मद्राश् च विदेहास् ताम्रलिप्तकाः
मल्ला मगधका नन्दाः प्राच्या जनपदास् तथा ॥

27.54

अथापरे जनपदा दक्षिणापथवासिनः
पूर्णाश् च केवलाश् चैव गोलाङ्गूलास् तथैव च ॥

27.55

ऋषिका मुषिकाश् चैव कुमारा रामठाः शकाः
महाराष्ट्रा माहिषकाः कलिङ्गाश् चैव सर्वशः ॥

27.56

आभीराः सह वैशिक्या अटव्याः सरवाश् च ये
पुलिन्दाश् चैव मौलेया वैदर्भा दण्डकैः सह ॥

27.57

पौलिका मौलिकाश् चैव अश्मका भोजवर्धनाः
कौलिकाः कुन्तलाश् चैव दम्भका नीलकालकाः ॥

27.58

दाक्षिणात्यास् त्व् अमी देशा अपरान्तान् निबोधत
शूर्पारकाः कालिधना लोलास् तालकटैः सह ॥

27.59

इत्य् एते ह्य् अपरान्ताश् च शृणुध्वं विन्ध्यवासिनः
मलजाः कर्कशाश् चैव मेलकाश् चोलकैः सह ॥

27.60

उत्तमार्णा दशार्णाश् च भोजाः किष्किन्धकैः सह
तोषलाः कोशलाश् चैव त्रैपुरा वैदिशास् तथा ॥

27.61

तुम्बुरास् तु चराश् चैव यवनाः पवनैः सह
अभया रुण्डिकेराश् च चर्चरा होत्रधर्तयः ॥

27.62

एते जनपदाः सर्वे तत्र विन्ध्यनिवासिनः
अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश् च ये ॥

27.63

नीहारास् तुषमार्गाश् च कुरवस् तुङ्गणाः खसाः
कर्णप्रावरणाश् चैव ऊर्णा दर्घाः सकुन्तकाः ॥

27.64

चित्रमार्गा मालवाश् च किरातास् तोमरैः सह
कृतत्रेतादिकश् चात्र चतुर्युगकृतो विधिः ॥

27.65

एवं तु भारतं वर्षं नवसंस्थानसंस्थितम्
दक्षिणे परतो यस्य पूर्वे चैव महोदधिः ॥

27.66

हिमवान् उत्तरेणास्य कार्मुकस्य यथा गुणः
तद् एतद् भारतं वर्षं सर्वबीजं द्विजोत्तमाः ॥

27.67

ब्रह्मत्वम् अमरेशत्वं देवत्वं मरुतां तथा
मृगयक्षाप्सरोयोनिं तद्वत् सर्पसरीसृपाः ॥

27.68

स्थावराणां च सर्वेषां मितो विप्राः शुभाशुभैः
प्रयान्ति कर्मभूर् विप्रा नान्या लोकेषु विद्यते ॥

27.69

देवानाम् अपि भो विप्राः सदैवैष मनोरथः
अपि मानुष्यम् आप्स्यामो देवत्वात् प्रच्युताः क्षितौ ॥

27.70

मनुष्यः कुरुते यत् तु तन् न शक्यं सुरासुरैः
तत्कर्मनिगडग्रस्तैस् तत्कर्मक्षपणोन्मुखैः ॥

27.71

न भारतसमं वर्षं पृथिव्याम् अस्ति भो द्विजाः
यत्र विप्रादयो वर्णाः प्राप्नुवन्त्य् अभिवाञ्छितम् ॥

27.72

धन्यास् ते भारते वर्षे जायन्ते ये नरोत्तमाः
धर्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम् ॥

27.73

प्राप्यते यत्र तपसः फलं परमदुर्लभम्
सर्वदानफलं चैव सर्वयज्ञफलं तथा ॥

27.74

तीर्थयात्राफलं चैव गुरुसेवाफलं तथा
देवताराधनफलं स्वाध्यायस्य फलं द्विजाः ॥

27.75

यत्र देवाः सदा हृष्टा जन्म वाञ्छन्ति शोभनम्
नानाव्रतफलं चैव नानाशास्त्रफलं तथा ॥

27.76

अहिंसादिफलं सम्यक् फलं सर्वाभिवाञ्छितम्
ब्रह्मचर्यफलं चैव गार्हस्थ्येन च यत् फलम् ॥

27.77

यत् फलं वनवासेन संन्यासेन च यत् फलम्
इष्टापूर्तफलं चैव तथान्यच् छुभकर्मणाम् ॥

27.78

प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः
कः शक्नोति गुणान् वक्तुं भारतस्याखिलान् द्विजाः ॥

27.79

एवं सम्यङ् मया प्रोक्तं भारतं वर्षम् उत्तमम्
सर्वपापहरं पुण्यं धन्यं बुद्धिविवर्धनम् ॥

27.80

य इदं शृणुयान् नित्यं पठेद् वा नियतेन्द्रियः
सर्वपापैर् विनिर्मुक्तो विष्णुलोकं स गच्छति ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc