भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 26

26.1

पृथिव्याम् उत्तमां भूमिं धर्मकामार्थमोक्षदाम्
तीर्थानाम् उत्तमं तीर्थं ब्रूहि नो वदतां वर ॥

26.2

इमं प्रश्नं मम गुरुं पप्रच्छुर् मुनयः पुरा
तम् अहं संप्रवक्ष्यामि यत् पृच्छध्वं द्विजोत्तमाः ॥

26.3

स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते
नानाद्रुमलताकीर्णे नानामृगगणैर् युते ॥

26.4

पुंनागैः कर्णिकारैश् च सरलैर् देवदारुभिः
शालैस् तालैस् तमालैश् च पनसैर् धवखादिरैः ॥

26.5

पाटलाशोकबकुलैः करवीरैः सचम्पकैः
अन्यैश् च विविधैर् वृक्षैर् नानापुष्पोपशोभितैः ॥

26.6

कुरुक्षेत्रे समासीनं व्यासं मतिमतां वरम्
महाभारतकर्तारं सर्वशास्त्रविशारदम् ॥

26.7

अध्यात्मनिष्ठं सर्वज्ञं सर्वभूतहिते रतम्
पुराणागमवक्तारं वेदवेदाङ्गपारगम् ॥

26.8

पराशरसुतं शान्तं पद्मपत्त्रायतेक्षणम्
द्रष्टुम् अभ्याययुः प्रीत्या मुनयः संशितव्रताः ॥

26.9

कश्यपो जमदग्निश् च भरद्वाजो ऽथ गौतमः
वसिष्ठो जैमिनिर् धौम्यो मार्कण्डेयो ऽथ वाल्मिकिः ॥

26.10

विश्वामित्रः शतानन्दो वात्स्यो गार्ग्यो ऽथ आसुरिः
सुमन्तुर् भार्गवो नाम कण्वो मेधातिथिर् गुरुः ॥

26.11

माण्डव्यश् च्यवनो धूम्रो ह्य् असितो देवलस् तथा
मौद्गल्यस् तृणयज्ञश् च पिप्पलादो ऽकृतव्रणः ॥

26.12

संवर्तः कौशिको रैभ्यो मैत्रेयो हरितस् तथा
शाण्डिल्यश् च विभाण्डश् च दुर्वासा लोमशस् तथा ॥

26.13

नारदः पर्वतश् चैव वैशंपायनगालवौ
भास्करिः पूरणः सूतः पुलस्त्यः कपिलस् तथा ॥

26.14

उलूकः पुलहो वायुर् देवस्थानश् चतुर्भुजः
सनत्कुमारः पैलश् च कृष्णः कृष्णानुभौतिकः ॥

26.15

एतैर् मुनिवरैश् चान्यैर् वृतः सत्यवतीसुतः
रराज स मुनिः श्रीमान् नक्षत्रैर् इव चन्द्रमाः ॥

26.16

तान् आगतान् मुनीन् सर्वान् पूजयाम् आस वेदवित्
ते ऽपि तं प्रतिपूज्यैव कथां चक्रुः परस्परम् ॥

26.17

कथान्ते ते मुनिश्रेष्ठाः कृष्णं सत्यवतीसुतम्
पप्रच्छुः संशयं सर्वे तपोवननिवासिनः ॥

26.18

मुने वेदांश् च शास्त्राणि पुराणागमभारतम्
भूतं भव्यं भविष्यं च सर्वं जानासि वाङ्मयम् ॥

26.19

कष्टे ऽस्मिन् दुःखबहुले निःसारे भवसागरे
रागग्राहाकुले रौद्रे विषयोदकसंप्लवे ॥

26.20

इन्द्रियावर्तकलिले दृष्टोर्मिशतसंकुले
मोहपङ्काविले दुर्गे लोभगम्भीरदुस्तरे ॥

26.21

निमज्जज् जगद् आलोक्य निरालम्बम् अचेतनम्
पृच्छामस् त्वां महाभागं ब्रूहि नो मुनिसत्तम ॥

26.22

श्रेयः किम् अत्र संसारे भैरवे लोमहर्षणे
उपदेशप्रदानेन लोकान् उद्धर्तुम् अर्हसि ॥

26.23

दुर्लभं परमं क्षेत्रं वक्तुम् अर्हसि मोक्षदम्
पृथिव्यां कर्मभूमिं च श्रोतुम् इच्छामहे वयम् ॥

26.24

कृत्वा किल नरः सम्यक् कर्म भूमौ यथोदितम्
प्राप्नोति परमां सिद्धिं नरकं च विकर्मतः ॥

26.25

मोक्षक्षेत्रे तथा मोक्षं प्राप्नोति पुरुषः सुधीः
तस्माद् ब्रूहि महाप्राज्ञ यत् पृष्टो ऽसि द्विजोत्तम ॥

26.26

श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम्
व्यासः प्रोवाच भगवान् भूतभव्यभविष्यवित् ॥

26.27

शृणुध्वं मुनयः सर्वे वक्ष्यामि यदि पृच्छथ
यः संवादो ऽभवत् पूर्वम् ऋषीणां ब्रह्मणा सह ॥

26.28

मेरुपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते
नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ॥

26.29

नानापक्षिरुते रम्ये नानाप्रसवनाकुले
नानासत्त्वसमाकीर्णे नानाश्चर्यसमन्विते ॥

26.30

नानावर्णशिलाकीर्णे नानाधातुविभूषिते
नानामुनिजनाकीर्णे नानाश्रमसमन्विते ॥

26.31

तत्रासीनं जगन्नाथं जगद्योनिं चतुर्मुखम्
जगत्पतिं जगद्वन्द्यं जगदाधारम् ईश्वरम् ॥

26.32

देवदानवगन्धर्वैर् यक्षविद्याधरोरगैः
मुनिसिद्धाप्सरोभिश् च वृतम् अन्यैर् दिवालयैः ॥

26.33

केचित् स्तुवन्ति तं देवं केचिद् गायन्ति चाग्रतः
केचिद् वाद्यानि वाद्यन्ते केचिन् नृत्यन्ति चापरे ॥

26.34

एवं प्रमुदिते काले सर्वभूतसमागमे
नानाकुसुमगन्धाढ्ये दक्षिणानिलसेविते ॥

26.35

भृग्वाद्यास् तं तदा देवं प्रणिपत्य पितामहम्
इमम् अर्थम् ऋषिवराः पप्रच्छुः पितरं द्विजाः ॥

26.36

भगवञ् श्रोतुम् इच्छामः कर्मभूमिं महीतले
वक्तुम् अर्हसि देवेश मोक्षक्षेत्रं च दुर्लभम् ॥

26.37

तेषां वचनम् आकर्ण्य प्राह ब्रह्मा सुरेश्वरः
पप्रच्छुस् ते यथा प्रश्नं तत् सर्वं मुनिसत्तमाः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc