भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 25

25.1

पृथिव्यां यानि तीर्थानि पुण्यान्य् आयतनानि च
वक्तुम् अर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः ॥

25.2

यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम्
विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते ॥

25.3

मनो विशुद्धं पुरुषस्य तीर्थं वाचां तथा चेन्द्रियनिग्रहश् च
एतानि तीर्थानि शरीरजानि स्वर्गस्य मार्गं प्रतिबोधयन्ति

25.4

चित्तम् अन्तर्गतं दुष्टं तीर्थस्नानैर् न शुध्यति
शतशो ऽपि जलैर् धौतं सुराभाण्डम् इवाशुचि ॥

25.5

न तीर्थानि न दानानि न व्रतानि न चाश्रमाः
दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रियम् ॥

25.6

इन्द्रियाणि वशे कृत्वा यत्र यत्र वसेन् नरः
तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा ॥

25.7

तस्माच् छृणुध्वं वक्ष्यामि तीर्थान्य् आयतनानि च
संक्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै ॥

25.8

विस्तरेण न शक्यन्ते वक्तुं वर्षशतैर् अपि
प्रथमं पुष्करं तीर्थं नैमिषारण्यम् एव च ॥

25.9

प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः
धेनुकं चम्पकारण्यं सैन्धवारण्यम् एव च ॥

25.10

पुण्यं च मगधारण्यं दण्डकारण्यम् एव च
गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा ॥

25.11

भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम्
लोहाकुलं सकेदारं मन्दरारण्यम् एव च ॥

25.12

महाबलं कोटितीर्थं सर्वपापहरं तथा
रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम् ॥

25.13

योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा
तीर्थं कोकामुखं पुण्यं बदरीशैलम् एव च ॥

25.14

सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा
कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा ॥

25.15

धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम्
गङ्गाद्वारं पञ्चकूटं मध्यकेसरम् एव च ॥

25.16

चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम्
दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकम् एव च ॥

25.17

तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा
ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा ॥

25.18

चतुःस्रोतश् चतुःशृङ्गं शैलं द्वादशधारकम्
मानसं स्थूलशृङ्गं च स्थूलदण्डं तथोर्वशी ॥

25.19

लोकपालं मनुवरं सोमाह्वशैलम् एव च
सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम् ॥

25.20

महास्रोतं कोटरकं पञ्चधारं त्रिधारकम्
सप्तधारैकधारं च तीर्थं चामरकण्टकम् ॥

25.21

शालग्रामं चक्रतीर्थं कोटिद्रुमम् अनुत्तमम्
बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा ॥

25.22

शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा
अग्निप्रभं च पुंनागं देवप्रभम् अनुत्तमम् ॥

25.23

विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम्
सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा ॥

25.24

तीर्थं पञ्चह्रदं चैव पुण्यं पिण्डारकं तथा
मलव्यं गोप्रभावं च गोवरं वटमूलकम् ॥

25.25

स्नानदण्डं प्रयागं च गुह्यं विष्णुपदं तथा
कन्याश्रमं वायुकुण्डं जम्बूमार्गं तथोत्तमम् ॥

25.26

गभस्तितीर्थं च तथा ययातिपतनं शुचि
कोटितीर्थं भद्रवटं महाकालवनं तथा ॥

25.27

नर्मदातीर्थम् अपरं तीर्थवज्रं तथार्बुदम्
पिङ्गुतीर्थं सवासिष्ठं तीर्थं च पृथसंगमम् ॥

25.28

तीर्थं दौर्वासिकं नाम तथा पिञ्जरकं शुभम्
ऋषितीर्थं ब्रह्मतुङ्गं वसुतीर्थं कुमारिकम् ॥

25.29

शक्रतीर्थं पञ्चनदं रेणुकातीर्थम् एव च
पैतामहं च विमलं रुद्रपादं तथोत्तमम् ॥

25.30

मणिमत्तं च कामाख्यं कृष्णतीर्थं कुशाविलम्
यजनं याजनं चैव तथैव ब्रह्मवालुकम् ॥

25.31

पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम्
दीर्घसत्त्रं हयपदं तीर्थं चानशनं तथा ॥

25.32

गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदम् एव च
वस्त्रापदं दारुवलं छायारोहणम् एव च ॥

25.33

सिद्धेश्वरं मित्रवलं कालिकाश्रमम् एव च
वटावटं भद्रवटं कौशाम्बी च दिवाकरम् ॥

25.34

द्वीपं सारस्वतं चैव विजयं कामदं तथा
रुद्रकोटिं सुमनसं तीर्थं सद्रावनामितम् ॥

25.35

स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम्
सततं पृथिवीसर्वं पारिप्लवपृथूदकौ ॥

25.36

दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम्
कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम् ॥

25.37

पुण्डरीकं सोमतीर्थं मुञ्जवटं तथोत्तमम्
बदरीवनम् आसीनं रत्नमूलकम् एव च ॥

25.38

लोकद्वारं पञ्चतीर्थं कपिलातीर्थम् एव च
सूर्यतीर्थं शङ्खिनी च गवां भवनम् एव च ॥

25.39

तीर्थं च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम्
कामेश्वरं मात्रितीर्थं तीर्थं शीतवनं तथा ॥

25.40

स्नानलोमापहं चैव माससंसरकं तथा
दशाश्वमेधं केदारं ब्रह्मोदुम्बरम् एव च ॥

25.41

सप्तर्षिकुण्डं च तथा तीर्थं देव्याः सुजम्बुकम्
ईटास्पदं कोटिकूटं किंदानं किंजपं तथा ॥

25.42

कारण्डवं चावेध्यं च त्रिविष्टपम् अथापरम्
पाणिषातं मिश्रकं च मधूवटमनोजवौ ॥

25.43

कौशिकी देवतीर्थं च तीर्थं च ऋणमोचनम्
दिव्यं च नृगधूमाख्यं तीर्थं विष्णुपदं तथा ॥

25.44

अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम्
श्रीकुञ्जं शालितीर्थं च नैमिषेयं च विश्रुतम् ॥

25.45

ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च
ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम् ॥

25.46

सौगन्धिकवनं चैव मणितीर्थं सरस्वती
ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम् ॥

25.47

त्रिशूलधारं माहेन्द्रं देवस्थानं कृतालयम्
शाकंभरी देवतीर्थं सुवर्णाख्यं किलं ह्रदम् ॥

25.48

क्षीरश्रवं विरूपाक्षं भृगुतीर्थं कुशोद्भवम्
ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्वतम् एव च ॥

25.49

कुब्जाम्बकं भद्रवटं वसिष्ठपदम् एव च
स्वर्गद्वारं प्रजाद्वारं कालिकाश्रमम् एव च ॥

25.50

रुद्रावर्तं सुगन्धाश्वं कपिलावनम् एव च
भद्रकर्णह्रदं चैव शङ्कुकर्णह्रदं तथा ॥

25.51

सप्तसारस्वतं चैव तीर्थम् औशनसं तथा
कपालमोचनं चैव अवकीर्णं च काम्यकम् ॥

25.52

चतुःसामुद्रिकं चैव शतकिं च सहस्रिकम्
रेणुकं पञ्चवटकं विमोचनम् अथौजसम् ॥

25.53

स्थाणुतीर्थं कुरोस् तीर्थं स्वर्गद्वारं कुशध्वजम्
विश्वेश्वरं मानवकं कूपं नारायणाश्रयम् ॥

25.54

गङ्गाह्रदं वटं चैव बदरीपाटनं तथा
इन्द्रमार्गम् एकरात्रं क्षीरकावासम् एव च ॥

25.55

सोमतीर्थं दधीचं च श्रुततीर्थं च भो द्विजाः
कोटितीर्थस्थलीं चैव भद्रकालीह्रदं तथा ॥

25.56

अरुन्धतीवनं चैव ब्रह्मावर्तं तथोत्तमम्
अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा ॥

25.57

वीरं प्रमोक्षं सिन्धूत्थम् ऋष कुल्या सकृत्तिकम्
उर्वीसंक्रमणं चैव मायाविद्योद्भवं तथा ॥

25.58

महाश्रमो वैतसिका रूपं सुन्दरिकाश्रमम्
बाहुतीर्थं चारुनदीं विमलाशोकम् एव च ॥

25.59

तीर्थं पञ्चनदं चैव मार्कण्डेयस्य धीमतः
सोमतीर्थं सितोदं च तीर्थं मत्स्योदरीं तथा ॥

25.60

सूर्यप्रभं सूर्यतीर्थम् अशोकवनम् एव च
अरुणास्पदं कामदं च शुक्रतीर्थं सवालुकम् ॥

25.61

पिशाचमोचनं चैव सुभद्राह्रदम् एव च
कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च ॥

25.62

ज्येष्ठस्थानह्रदं चैव पुण्यं ब्रह्मसरं तथा
जैगीषव्यगुहा चैव हरिकेशवनं तथा ॥

25.63

अजामुखसरं चैव घण्टाकर्णह्रदं तथा
पुण्डरीकह्रदं चैव वापी कर्कोटकस्य च ॥

25.64

सुवर्णस्योदपानं च श्वेततीर्थह्रदं तथा
कुण्डं घर्घरिकायाश् च श्यामकूपं च चन्द्रिका ॥

25.65

श्मशानस्तम्भकूपं च विनायकह्रदं तथा
कूपं सिन्धूद्भवं चैव पुण्यं ब्रह्मसरं तथा ॥

25.66

रुद्रावासं तथा तीर्थं नागतीर्थं पुलोमकम्
भक्तह्रदं क्षीरसरः प्रेताधारं कुमारकम् ॥

25.67

ब्रह्मावर्तं कुशावर्तं दधिकर्णोदपानकम्
शृङ्गतीर्थं महातीर्थं तीर्थश्रेष्ठा महानदी ॥

25.68

दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम्
दक्षिणं चोत्तरं चैव गोमयं रूपशीतिकम् ॥

25.69

कपिलाह्रदं गृध्रवटं सावित्रीह्रदम् एव च
प्रभासनं सीतवनं योनिद्वारं च धेनुकम् ॥

25.70

धन्यकं कोकिलाख्यं च मतङ्गह्रदम् एव च
पितृकूपं रुद्रतीर्थं शक्रतीर्थं सुमालिनम् ॥

25.71

ब्रह्मस्थानं सप्तकुण्डं मणिरत्नह्रदं तथा
कौशिक्यं भरतं चैव तीर्थं ज्येष्ठालिका तथा ॥

25.72

विश्वेश्वरं कल्पसरः कन्यासंवेत्यम् एव च
निश्चीवा प्रभवश् चैव वसिष्ठाश्रमम् एव च ॥

25.73

देवकूटं च कूपं च वसिष्ठाश्रमम् एव च
वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिली ॥

25.74

कुमारधारा श्रीधारा गौरीशिखरम् एव च
शुनः कुण्डो ऽथ तीर्थं च नन्दितीर्थं तथैव च ॥

25.75

कुमारवासं श्रीवासम् और्वीशीतार्थम् एव च
कुम्भकर्णह्रदं चैव कौशिकीह्रदम् एव च ॥

25.76

धर्मतीर्थं कामतीर्थं तीर्थम् उद्दालकं तथा
संध्यातीर्थं कारतोयं कपिलं लोहितार्णवम् ॥

25.77

शोणोद्भवं वंशगुल्मम् ऋषभं कलतीर्थकम्
पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम् ॥

25.78

रामतीर्थं पितृवनं विरजातीर्थम् एव च
मार्कण्डेयवनं चैव कृष्णतीर्थं तथा वटम् ॥

25.79

रोहिणीकूपप्रवरम् इन्द्रद्युम्नसरं च यत्
सानुगर्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा ॥

25.80

इषुतीर्थं वार्षभं च कावेरीह्रदम् एव च
कन्यातीर्थं च गोकर्णं गायत्रीस्थानम् एव च ॥

25.81

बदरीह्रदम् अन्यच् च मध्यस्थानं विकर्णकम्
जातीह्रदं देवकूपं कुशप्रवणम् एव च ॥

25.82

सर्वदेवव्रतं चैव कन्याश्रमह्रदं तथा
तथान्यद् वालखिल्यानां सपूर्वाणां तथापरम् ॥

25.83

तथान्यच् च महर्षीणाम् अखण्डितह्रदं तथा
तीर्थेष्व् एतेषु विधिवत् सम्यक् श्रद्धासमन्वितः ॥

25.84

स्नानं करोति यो मर्त्यः सोपवासो जितेन्द्रियः
देवान् ऋषीन् मनुष्यांश् च पितॄन् संतर्प्य च क्रमात् ॥

25.85

अभ्यर्च्य देवतास् तत्र स्थित्वा च रजनीत्रयम्
पृथक् पृथक् फलं तेषु प्रतितीर्थेषु भो द्विजाः ॥

25.86

प्राप्नोति हयमेधस्य नरो नास्त्य् अत्र संशयः
यस् त्व् इदं शृणुयान् नित्यं तीर्थमाहात्म्यम् उत्तमम्
पठेच् च श्रावयेद् वापि सर्वपापैः प्रमुच्यते ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc