भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 24

24.1

तारामयं भगवतः शिशुमाराकृति प्रभोः
दिवि रूपं हरेर् यत् तु तस्य पुच्छे स्थितो ध्रुवः ॥

24.2

सएष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान्
भ्रमन्तम् अनु तं यान्ति नक्षत्राणि च चक्रवत् ॥

24.3

सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह
वातानीकमयैर् बन्धैर् ध्रुवे बद्धानि तानि वै ॥

24.4

शिशुमाराकृति प्रोक्तं यद् रूपं ज्योतिषां दिवि
नारायणः परं धाम तस्याधारः स्वयं हृदि ॥

24.5

उत्तानपादतनयस् तम् आराध्य प्रजापतिम्
स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥

24.6

आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः
ध्रुवस्य शिशुमारश् च ध्रुवे भानुर् व्यवस्थितः ॥

24.7

तद् आधारं जगच् चेदं सदेवासुरमानुषम्
येन विप्रा विधानेन तन् मे शृणुत सांप्रतम् ॥

24.8

विवस्वान् अष्टभिर् मासैर् ग्रसत्य् अपो रसात्मिकाः
वर्षत्य् अम्बु ततश् चान्नम् अन्नादम् अखिलं जगत् ॥

24.9

विवस्वान् अंशुभिस् तीक्ष्णैर् आदाय जगतो जलम्
सोमं पुष्यत्य् अथेन्दुश् च वायुनाडीमयैर् दिवि ॥

24.10

जलैर् विक्षिप्यते ऽभ्रेषु धूमाग्न्यनिलमूर्तिषु
न भ्रश्यन्ति यतस् तेभ्यो जलान्य् अभ्राणि तान्य् अतः ॥

24.11

अभ्रस्थाः प्रपतन्त्य् आपो वायुना समुदीरिताः
संस्कारं कालजनितं विप्राश् चासाद्य निर्मलाः ॥

24.12

सरित्समुद्रा भौमास् तु तथापः प्राणिसंभवाः
चतुष्प्रकारा भगवान् आदत्ते सविता द्विजाः ॥

24.13

आकाशगङ्गासलिलं तथाहृत्य गभस्तिमान्
अनभ्रगतम् एवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥

24.14

तस्य संस्पर्शनिर्धूत पापपङ्को द्विजोत्तमाः
न याति नरकं मर्त्यो दिव्यं स्नानं हि तत् स्मृतम् ॥

24.15

दृष्टसूर्यं हि तद् वारि पतत्य् अभ्रैर् विना दिवः
आकाशगङ्गासलिलं तद् गोभिः क्षिप्यते रवेः ॥

24.16

कृत्तिकादिषु ऋक्षेषु विषमेष्व् अम्बु यद् दिवः
दृष्ट्वार्कं पतितं ज्ञेयं तद् गाङ्गं दिग्गजोह्नितम् ॥

24.17

युग्मर्क्षेषु तु यत् तोयं पतत्य् अर्कोद्गितं दिवः
तत् सूर्यरश्मिभिः सद्यः समादाय निरस्यते ॥

24.18

उभयं पुण्यम् अत्यर्थं नृणां पापहरं द्विजाः
आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः ॥

24.19

यत् तु मेघैः समुत्सृष्टं वारि तत् प्राणिनां द्विजाः
पुष्णात्य् ओषधयः सर्वा जीवनायामृतं हि तत् ॥

24.20

तेन वृद्धिं परां नीतः सकलश् चौषधीगणः
साधकः फलपाकान्तः प्रजानां तु प्रजायते ॥

24.21

तेन यज्ञान् यथाप्रोक्तान् मानवाः शास्त्रचक्षुषः
कुर्वते ऽहरहश् चैव देवान् आप्याययन्ति ते ॥

24.22

एवं यज्ञाश् च वेदाश् च वर्णाश् च द्विजपूर्वकाः
सर्वदेवनिकायाश् च पशुभूतगणाश् च ये ॥

24.23

वृष्ट्या धृतम् इदं सर्वं जगत् स्थावरजङ्गमम्
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः ॥

24.24

आधारभूतः सवितुर् ध्रुवो मुनिवरोत्तमाः
ध्रुवस्य शिशुमारो ऽसौ सो ऽपि नारायणाश्रयः ॥

24.25

हृदि नारायणस् तस्य शिशुमारस्य संस्थितः
विभर्ता सर्वभूतानाम् आदिभूतः सनातनः ॥

24.26

एवं मया मुनिश्रेष्ठा ब्रह्माण्डं समुदाहृतम्
भूसमुद्रादिभिर् युक्तं किम् अन्यच् छ्रोतुम् इच्छथ ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc