भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 243

243.1

अक्षरक्षरयोर् एष द्वयोः संबन्ध इष्यते
स्त्रीपुंसयोर् वा संबन्धः स वै पुरुष उच्यते ॥

243.2

ऋते तु पुरुषं नेह स्त्री गर्भान् धारयत्य् उत
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तते तथा ॥

243.3

अन्योन्यस्याभिसंबन्धाद् अन्योन्यगुणसंश्रयात्
रूपं निर्वर्तयेद् एतद् एवं सर्वासु योनिषु ॥

243.4

रत्यर्थम् अतिसंयोगाद् अन्योन्यगुणसंश्रयात्
ऋतौ निर्वर्तते रूपं तद् वक्ष्यामि निदर्शनम् ॥

243.5

ये गुणाः पुरुषस्येह ये च मातुर् गुणास् तथा
अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥

243.6

त्वङ्मांसशोणितं चेति मातृजान्य् अनुशुश्रुम
एवम् एतद् द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥

243.7

प्रमाणं यच् च वेदोक्तं शास्त्रोक्तं यच् च पठ्यते
वेदशास्त्रप्रमाणं च प्रमाणं तत् सनातनम् ॥

243.8

एवम् एवाभिसंबन्धौ नित्यं प्रकृतिपूरुषौ
यच् चापि भगवंस् तस्मान् मोक्षधर्मो न विद्यते ॥

243.9

अथवानन्तरकृतं किंचिद् एव निदर्शनम्
तन् ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्य् असि सर्वदा ॥

243.10

मोक्षकामा वयं चापि काङ्क्षामो यद् अनामयम्
अजेयम् अजरं नित्यम् अतीन्द्रियम् अनीश्वरम् ॥

243.11

यद् एतद् उक्तं भवता वेदशास्त्रनिदर्शनम्
एवम् एतद् यथा वक्ष्ये तत्त्वग्राही यथा भवान् ॥

243.12

धार्यते हि त्वया ग्रन्थ उभयोर् वेदशास्त्रयोः
न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर ॥

243.13

यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः
न च ग्रन्थार्थतत्त्वज्ञस् तस्य तद्धारणं वृथा ॥

243.14

भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः
यस् तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥

243.15

ग्रन्थस्यार्थं स पृष्टस् तु मादृशो वक्तुम् अर्हति
यथातत्त्वाभिगमनाद् अर्थं तस्य स विन्दति ॥

243.16

न यः समुत्सुकः कश्चिद् ग्रन्थार्थं स्थूलबुद्धिमान्
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥

243.17

अज्ञात्वा ग्रन्थतत्त्वानि वादं यः कुरुते नरः
लोभाद् वाप्य् अथवा दम्भात् स पापी नरकं व्रजेत् ॥

243.18

निर्णयं चापि च्छिद्रात्मा न तद् वक्ष्यति तत्त्वतः
सो ऽपीहास्यार्थतत्त्वज्ञो यस्मान् नैवात्मवान् अपि ॥

243.19

तस्मात् त्वं शृणु राजेन्द्र यथैतद् अनुदृश्यते
यथा तत्त्वेन सांख्येषु योगेषु च महात्मसु ॥

243.20

यद् एव योगाः पश्यन्ति सांख्यं तद् अनुगम्यते
एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान् ॥

243.21

त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च
एतद् ऐन्द्रियकं तात यद् भवान् इत्थम् आत्थ माम् ॥

243.22

द्रव्याद् द्रव्यस्य निर्वृत्तिर् इन्द्रियाद् इन्द्रियं तथा
देहाद् देहम् अवाप्नोति बीजाद् बीजं तथैव च ॥

243.23

निरिन्द्रियस्य बीजस्य निर्द्रव्यस्यापि देहिनः
कथं गुणा भविष्यन्ति निर्गुणत्वान् महात्मनः ॥

243.24

गुणा गुणेषु जायन्ते तत्रैव विरमन्ति च
एवं गुणाः प्रकृतिजा जायन्ते न च यान्ति च ॥

243.25

त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च
अष्टौ तान्य् अथ शुक्रेण जानीहि प्राकृतेन वै ॥

243.26

पुमांश् चैवापुमांश् चैव स्त्रीलिङ्गं प्राकृतं स्मृतम्
वायुर् एष पुमांश् चैव रस इत्य् अभिधीयते ॥

243.27

अलिङ्गा प्रकृतिर् लिङ्गैर् उपलभ्यति सात्मजैः
यथा पुष्पफलैर् नित्यं मूर्तं चामूर्तयस् तथा ॥

243.28

एवम् अप्य् अनुमानेन स लिङ्गम् उपलभ्यते
पञ्चविंशतिकस् तात लिङ्गेषु नियतात्मकः ॥

243.29

अनादिनिधनो ऽनन्तः सर्वदर्शनकेवलः
केवलं त्व् अभिमानित्वाद् गुणेषु गुण उच्यते ॥

243.30

गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः
तस्माद् एवं विजानन्ति ये जना गुणदर्शिनः ॥

243.31

यदा त्व् एष गुणान् एतान् प्राकृतान् अभिमन्यते
तदा स गुणवान् एव गुणभेदान् प्रपश्यति ॥

243.32

यत् तद् बुद्धेः परं प्राहुः सांख्ययोगं च सर्वशः
बुध्यमानं महाप्राज्ञाः प्रबुद्धपरिवर्जनात् ॥

243.33

अप्रबुद्धं यथा व्यक्तं स्वगुणैः प्राहुर् ईश्वरम्
निर्गुणं चेश्वरं नित्यम् अधिष्ठातारम् एव च ॥

243.34

प्रकृतेश् च गुणानां च पञ्चविंशतिकं बुधाः
सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥

243.35

यदा प्रबुद्धम् अव्यक्तम् अवस्थातननीरवः
बुध्यमानं न बुध्यन्ते ऽवगच्छन्ति समं तदा ॥

243.36

एतन् निदर्शनं सम्यङ् न सम्यग् अनुदर्शनम्
बुध्यमानं प्रबुध्यन्ते द्वाभ्यां पृथग् अरिंदम ॥

243.37

परस्परेणैतद् उक्तं क्षराक्षरनिदर्शनम्
एकत्वम् अक्षरं प्राहुर् नानात्वं क्षरम् उच्यते ॥

243.38

पञ्चविंशतिनिष्ठो ऽयं तदा सम्यक् प्रचक्षते
एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम् ॥

243.39

तत्त्ववित् तत्त्वयोर् एव पृथग् एतन् निदर्शनम्
पञ्चविंशतिभिस् तत्त्वं तत्त्वम् आहुर् मनीषिणः ॥

243.40

निस्तत्त्वं पञ्चविंशस्य परम् आहुर् मनीषिणः
वर्ज्यस्य वर्ज्यम् आचारं तत्त्वं तत्त्वात् सनातनम् ॥

243.41

नानात्वैकत्वम् इत्य् उक्तं त्वयैतद् द्विजसत्तम
पश्यतस् तद् धि संदिग्धम् एतयोर् वै निदर्शनम् ॥

243.42

तथा बुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ
स्थूलबुद्ध्या न पश्यामि तत्त्वम् एतन् न संशयः ॥

243.43

अक्षरक्षरयोर् उक्तं त्वया यद् अपि कारणम्
तद् अप्य् अस्थिरबुद्धित्वात् प्रनष्टम् इव मे ऽनघ ॥

243.44

तद् एतच् छ्रोतुम् इच्छामि नानात्वैकत्वदर्शनम्
द्वंद्वं चैवानिरुद्धं च बुध्यमानं च तत्त्वतः ॥

243.45

विद्याविद्ये च भगवन्न् अक्षरं क्षरम् एव च
सांख्ययोगं च कृत्स्नेन बुद्धाबुद्धिं पृथक् पृथक् ॥

243.46

हन्त ते संप्रवक्ष्यामि यद् एतद् अनुपृच्छसि
योगकृत्यं महाराज पृथग् एव शृणुष्व मे ॥

243.47

योगकृत्यं तु योगानां ध्यानम् एव परं बलम्
तच् चापि द्विविधं ध्यानम् आहुर् विद्याविदो जनाः ॥

243.48

एकाग्रता च मनसः प्राणायामस् तथैव च
प्राणायामस् तु सगुणो निर्गुणो मानसस् तथा ॥

243.49

मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप
द्विकालं नोपभुञ्जीत शेषं भुञ्जीत तत्परः ॥

243.50

इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः
दशद्वादशभिर् वापि चतुर्विंशात् परं यतः ॥

243.51

स चोदनाभिर् मतिमान् नात्मानं चोदयेद् अथ
तिष्ठन्तम् अजरं तं तु यत् तद् उक्तं मनीषिभिः ॥

243.52

विश्वात्मा सततं ज्ञेय इत्य् एवम् अनुशुश्रुम
द्रव्यं ह्य् अहीनमनसो नान्यथेति विनिश्चयः ॥

243.53

विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः
पूर्वरात्रे परार्धे च धारयीत मनो हृदि ॥

243.54

स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर
मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥

243.55

स्थाणुवच् चाप्य् अकम्प्यः स्याद् दारुवच् चापि निश्चलः
बुद्ध्या विधिविधानज्ञस् ततो युक्तं प्रचक्षते ॥

243.56

न शृणोति न चाघ्राति न च पश्यति किंचन
न च स्पर्शं विजानाति न च संकल्पते मनः ॥

243.57

न चापि मन्यते किंचिन् न च बुध्येत काष्ठवत्
तदा प्रकृतिम् आपन्नं युक्तम् आहुर् मनीषिणः ॥

243.58

न भाति हि यथा दीपो दीप्तिस् तद्वच् च दृश्यते
निलिङ्गश् चाधश् चोर्ध्वं च तिर्यग्गतिम् अवाप्नुयात् ॥

243.59

तदा तदुपपन्नश् च यस्मिन् दृष्टे च कथ्यते
हृदयस्थो ऽन्तरात्मेति ज्ञेयो ज्ञस् तात मद्विधैः ॥

243.60

निर्धूम इव सप्तार्चिर् आदित्य इव रश्मिवान्
वैद्युतो ऽग्निर् इवाकाशे पश्यत्य् आत्मानम् आत्मनि ॥

243.61

यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः
ब्राह्मणा ब्रह्मयोनिस्था ह्य् अयोनिम् अमृतात्मकम् ॥

243.62

तद् एवाहुर् अणुभ्यो ऽणु तन् महद्भ्यो महत्तरम्
सर्वत्र सर्वभूतेषु ध्रुवं तिष्ठन् न दृश्यते ॥

243.63

बुद्धिद्रव्येण दृश्येन मनोदीपेन लोककृत्
महतस् तमसस् तात पारे तिष्ठन् न तामसः ॥

243.64

तमसो दूर इत्य् उक्तस् तत्त्वज्ञैर् वेदपारगैः
विमलो विमतश् चैव निर्लिङ्गो ऽलिङ्गसंज्ञकः ॥

243.65

योग एष हि लोकानां किम् अन्यद् योगलक्षणम्
एवं पश्यन् प्रपश्येत आत्मानम् अजरं परम् ॥

243.66

योगदर्शनम् एतावद् उक्तं ते तत्त्वतो मया
सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम् ॥

243.67

अव्यक्तम् आहुः प्रख्यानं परां प्रकृतिम् आत्मनः
तस्मान् महत् समुत्पन्नं द्वितीयं राजसत्तम ॥

243.68

अहंकारस् तु महतस् तृतीय इति नः श्रुतम्
पञ्चभूतान्य् अहंकाराद् आहुः सांख्यात्मदर्शिनः ॥

243.69

एताः प्रकृतयस् त्व् अष्टौ विकाराश् चापि षोडश
पञ्च चैव विशेषाश् च तथा पञ्चेन्द्रियाणि च ॥

243.70

एतावद् एव तत्त्वानां सांख्यम् आहुर् मनीषिणः
सांख्ये सांख्यविधानज्ञा नित्यं सांख्यपथे स्थिताः ॥

243.71

यस्माद् यद् अभिजायेत तत् तत्रैव प्रलीयते
लीयन्ते प्रतिलोमानि गृह्यन्ते चान्तरात्मना ॥

243.72

आनुलोम्येन जायन्ते लीयन्ते प्रतिलोमतः
गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥

243.73

सर्गप्रलय एतावान् प्रकृतेर् नृपसत्तम
एकत्वं प्रलये चास्य बहुत्वं च तथा सृजि ॥

243.74

एवम् एव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः
अधिष्ठातारम् अव्यक्तम् अस्याप्य् एतन् निदर्शनम् ॥

243.75

एकत्वं च बहुत्वं च प्रकृतेर् अनु तत्त्ववान्
एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥

243.76

बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम्
तच् च क्षेत्रं महान् आत्मा पञ्चविंशो ऽधितिष्ठति ॥

243.77

अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः
अधिष्ठानाद् अधिष्ठाता क्षेत्राणाम् इति नः श्रुतम् ॥

243.78

क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते
अव्यक्तिके पुरे शेते पुरुषश् चेति कथ्यते ॥

243.79

अन्यद् एव च क्षेत्रं स्याद् अन्यः क्षेत्रज्ञ उच्यते
क्षेत्रम् अव्यक्त इत्य् उक्तं ज्ञातारं पञ्चविंशकम् ॥

243.80

अन्यद् एव च ज्ञानं स्याद् अन्यज् ज्ञेयं तद् उच्यते
ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयो वै पञ्चविंशकः ॥

243.81

अव्यक्तं क्षेत्रम् इत्य् उक्तं तथा सत्त्वं तथेश्वरम्
अनीश्वरम् अतत्त्वं च तत्त्वं तत् पञ्चविंशकम् ॥

243.82

सांख्यदर्शनम् एतावत् परिसंख्या न विद्यते
संख्या प्रकुरुते चैव प्रकृतिं च प्रवक्ष्यते ॥

243.83

चत्वारिंशच् चतुर्विंशत् प्रतिसंख्याय तत्त्वतः
संख्या सहस्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥

243.84

पञ्चविंशत् प्रबुद्धात्मा बुध्यमान इति श्रुतः
यदा बुध्यति आत्मानं तदा भवति केवलः ॥

243.85

सम्यग्दर्शनम् एतावद् भाषितं तव तत्त्वतः
एवम् एतद् विजानन्तः साम्यतां प्रतियान्त्य् उत ॥

243.86

सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस् तथा
गुणवत्त्वाद् यथैतानि निर्गुणेभ्यस् तथा भवेत् ॥

243.87

न त्व् एवं वर्तमानानाम् आवृत्तिर् वर्तते पुनः
विद्यते क्षरभावश् च न परस्परम् अव्ययम् ॥

243.88

पश्यन्त्य् अमतयो ये न सम्यक् तेषु च दर्शनम्
ते व्यक्तिं प्रतिपद्यन्ते पुनः पुनर् अरिंदम ॥

243.89

सर्वम् एतद् विजानन्तो न सर्वस्य प्रबोधनात्
व्यक्तिभूता भविष्यन्ति व्यक्तस्यैवानुवर्तनात् ॥

243.90

सर्वम् अव्यक्तम् इत्य् उक्तम् असर्वः पञ्चविंशकः
य एवम् अभिजानन्ति न भयं तेषु विद्यते ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc