ब्रह्म पुराण · अध्याय 244
सांख्यदर्शनम् एतावद् उक्तं ते नृपसत्तम
विद्याविद्ये त्व् इदानीं मे त्वं निबोधानुपूर्वशः ॥
अभेद्यम् आहुर् अव्यक्तं सर्गप्रलयधर्मिणः
सर्गप्रलय इत्य् उक्तं विद्याविद्ये च विंशकः ॥
परस्परस्य विद्या वै तन् निबोधानुपूर्वशः
यथोक्तम् ऋषिभिस् तात सांख्यस्यातिनिदर्शनम् ॥
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम्
बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ॥
विषयाणां मनस् तेषां विद्याम् आहुर् मनीषिणः
मनसः पञ्च भूतानि विद्या इत्य् अभिचक्षते ॥
अहंकारस् तु भूतानां पञ्चानां नात्र संशयः
अहंकारस् तथा विद्या बुद्धिर् विद्या नरेश्वर ॥
बुद्ध्या प्रकृतिर् अव्यक्तं तत्त्वानां परमेश्वरः
विद्या ज्ञेया नरश्रेष्ठ विधिश् च परमः स्मृतः ॥
अव्यक्तम् अपरं प्राहुर् विद्या वै पञ्चविंशकः
सर्वस्य सर्वम् इत्य् उक्तं ज्ञेयज्ञानस्य पारगः ॥
ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयं वै पञ्चविंशकम्
तथैव ज्ञानम् अव्यक्तं विज्ञाता पञ्चविंशकः ॥
विद्याविद्ये तु तत्त्वेन मयोक्ते वै विशेषतः
अक्षरं च क्षरं चैव यद् उक्तं तन् निबोध मे ॥
उभाव् एतौ क्षराव् उक्तौ उभाव् एताव् अनक्षरौ
कारणं तु प्रवक्ष्यामि यथाज्ञानं तु ज्ञानतः ॥
अनादिनिधनाव् एतौ उभाव् एवेश्वरौ मतौ
तत्त्वसंज्ञाव् उभाव् एव प्रोच्येते ज्ञानचिन्तकैः ॥
सर्गप्रलयधर्मित्वाद् अव्यक्तं प्राहुर् अव्ययम्
तद् एतद् गुणसर्गाय विकुर्वाणं पुनः पुनः ॥
गुणानां महदादीनाम् उत्पद्यति परस्परम्
अधिष्ठानं क्षेत्रम् आहुर् एतद् वै पञ्चविंशकम् ॥
यद् अन्तर्गुणजालं तु तद् व्यक्तात्मनि संक्षिपेत्
तद् अहं तद् गुणैस् तैस् तु पञ्चविंशे विलीयते ॥
गुणा गुणेषु लीयन्ते तद् एका प्रकृतिर् भवेत्
क्षेत्रज्ञो ऽपि तदा तावत् क्षेत्रज्ञः संप्रणीयते ॥
यदाक्षरं प्रकृतिर् यं गच्छते गुणसंज्ञिता
निर्गुणत्वं च वै देहे गुणेषु परिवर्तनात् ॥
एवम् एव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात्
प्रकृत्या निर्गुणस् त्व् एष इत्य् एवम् अनुशुश्रुम ॥
क्षरो भवत्य् एष यदा गुणवती गुणेष्व् अथ
प्रकृतिं त्व् अथ जानाति निर्गुणत्वं तथात्मनः ॥
तथा विशुद्धो भवति प्रकृतेः परिवर्जनात्
अन्यो ऽहम् अन्येयम् इति यदा बुध्यति बुद्धिमान् ॥
तदैषो ऽव्यथताम् एति न च मिश्रत्वम् आव्रजेत्
प्रकृत्या चैष राजेन्द्र मिश्रो ऽन्यो ऽन्यस्य दृश्यते ॥
यदा तु गुणजालं तत् प्राकृतं विजुगुप्सते
पश्यते च परं पश्यंस् तदा पश्यन् नु संसृजेत् ॥
किं मया कृतम् एतावद् यो ऽहं कालनिमज्जनः
यथा मत्स्यो ह्य् अभिज्ञानाद् अनुवर्तितवाञ् जलम् ॥
अहम् एव हि संमोहाद् अन्यम् अन्यं जनाज् जनम्
मत्स्यो यथोदकज्ञानाद् अनुवर्तितवान् इह ॥
मत्स्यो ऽन्यत्वम् अथाज्ञानाद् उदकान् नाभिमन्यते
आत्मानं तद् अवज्ञानाद् अन्यं चैव न वेद्म्य् अहम् ॥
ममास्तु धिक् कुबुद्धस्य यो ऽहं मग्न इमं पुनः
अनुवर्तितवान् मोहाद् अन्यम् अन्यं जनाज् जनम् ॥
अयम् अनुभवेद् बन्धुर् अनेन सह मे क्षयम्
साम्यम् एकत्वतां यातो यादृशस् तादृशस् त्व् अहम् ॥
तुल्यताम् इह पश्यामि सदृशो ऽहम् अनेन वै
अयं हि विमलो व्यक्तम् अहम् ईदृशकस् तदा ॥
यो ऽहम् अज्ञानसंमोहाद् अज्ञया संप्रवृत्तवान्
संसर्गाद् अतिसंसर्गात् स्थितः कालम् इमं त्व् अहम् ॥
सो ऽहम् एवं वशीभूतः कालम् एतं न बुद्धवान्
उत्तमाधममध्यानां ताम् अहं कथम् आवसे ॥
समानमायया चेह सहवासम् अहं कथम्
गच्छाम्य् अबुद्धभावत्वाद् इहेदानीं स्थिरो भव ॥
सहवासं न यास्यामि कालम् एतं विवञ्चनात्
वञ्चितो ह्य् अनया यद् धि निर्विकारो विकारया ॥
न तत् तदपराद्धं स्याद् अपराधो ह्य् अयं मम
यो ऽहम् अत्राभवं सक्तः पराङ्मुखम् उपस्थितः ॥
ततो ऽस्मिन् बहुरूपो ऽथ स्थितो मूर्तिर् अमूर्तिमान्
अमूर्तिश् चाप्य् अमूर्तात्मा ममत्वेन प्रधर्षितः ॥
प्रकृत्या च तया तेन तासु तास्व् इह योनिषु
निर्ममस्य ममत्वेन विकृतं तासु तासु च ॥
योनिषु वर्तमानेन नष्टसंज्ञेन चेतसा
समता न मया काचिद् अहंकारे कृता मया ॥
आत्मानं बहुधा कृत्वा सो ऽयं भूयो युनक्ति माम्
इदानीम् अवबुद्धो ऽस्मि निर्ममो निरहंकृतः ॥
ममत्वं मनसा नित्यम् अहंकारकृतात्मकम्
अपलग्नाम् इमां हित्वा संश्रयिष्ये निरामयम् ॥
अनेन साम्यं यास्यामि नानयाहम् अचेतसा
क्षेमं मम सहानेन नैवैकम् अनया सह ॥
एवं परमसंबोधात् पञ्चविंशो ऽनुबुद्धवान्
अक्षरत्वं निगच्छति त्यक्त्वा क्षरम् अनामयम् ॥
अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा
निर्गुणं प्रथमं दृष्ट्वा तादृग् भवति मैथिल ॥
अक्षरक्षरयोर् एतद् उक्तं तव निदर्शनम्
मयेह ज्ञानसंपन्नं यथा श्रुतिनिदर्शनात् ॥
निःसंदिग्धं च सूक्ष्मं च विशुद्धं विमलं तथा
प्रवक्ष्यामि तु ते भूयस् तन् निबोध यथाश्रुतम् ॥
सांख्ययोगो मया प्रोक्तः शास्त्रद्वयनिदर्शनात्
यद् एव सांख्यशास्त्रोक्तं योगदर्शनम् एव तत् ॥
प्रबोधनपरं ज्ञानं सांख्यानाम् अवनीपते
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥
बृहच् चैवम् इदं शास्त्रम् इत्य् आहुर् विदुषो जनाः
अस्मिंश् च शास्त्रे योगानां पुनर्भवपुरःसरम् ॥
पञ्चविंशात् परं तत्त्वं पठ्यते च नराधिप
सांख्यानां तु परं तत्त्वं यथावद् अनुवर्णितम् ॥
बुद्धम् अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः
बुध्यमानं च बुद्धत्वं प्राहुर् योगनिदर्शनम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0