भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 242

242.1

एवम् अप्रतिबुद्धत्वाद् अबुद्धम् अनुवर्तते
देहाद् देहसहस्राणि तथा च न स भिद्यते ॥

242.2

तिर्यग्योनिसहस्रेषु कदाचिद् देवतास्व् अपि
उत्पद्यति तपोयोगाद् गुणैः सह गुणक्षयात् ॥

242.3

मनुष्यत्वाद् दिवं याति देवो मानुष्यम् एति च
मानुष्यान् निरयस्थानम् आलयं प्रतिपद्यते ॥

242.4

कोषकारो यथात्मानं कीटः समभिरुन्धति
सूत्रतन्तुगुणैर् नित्यं तथायम् अगुणो गुणैः ॥

242.5

द्वंद्वम् एति च निर्द्वंद्वस् तासु तास्व् इह योनिषु
शीर्षरोगे ऽक्षिरोगे च दन्तशूले गलग्रहे ॥

242.6

जलोदरे ऽतिसारे च गण्डमालाविचर्चिके
श्वित्रकुष्ठे ऽग्निदग्धे च सिध्मापस्मारयोर् अपि ॥

242.7

यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिणाम्
उत्पद्यन्ते विचित्राणि तान्य् एवात्माभिमन्यते ॥

242.8

अभिमानातिमानानां तथैव सुकृतान्य् अपि
एकवासाश् चतुर्वासाः शायी नित्यम् अधस् तथा ॥

242.9

मण्डूकशायी च तथा वीरासनगतस् तथा
वीरम् आसनम् आकाशे तथा शयनम् एव च ॥

242.10

इष्टकाप्रस्तरे चैव चक्रकप्रस्तरे तथा
भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः ॥

242.11

वीरस्थानाम्बुपाके च शयनं फलकेषु च
विविधासु च शय्यासु फलगृह्यान्वितासु च ॥

242.12

उद्याने खललग्ने तु क्षौमकृष्णाजिनान्वितः
मणिवालपरीधानो व्याघ्रचर्मपरिच्छदः ॥

242.13

सिंहचर्मपरीधानः पट्टवासास् तथैव च
फलकं परिधानश् च तथा कटकवस्त्रधृक् ॥

242.14

कटैकवसनश् चैव चीरवासास् तथैव च
वस्त्राणि चान्यानि बहून्य् अभिमत्य च बुद्धिमान् ॥

242.15

भोजनानि विचित्राणि रत्नानि विविधानि च
एकरात्रान्तराशित्वम् एककालिकभोजनम् ॥

242.16

चतुर्थाष्टमकालं च षष्ठकालिकम् एव च
षड्रात्रभोजनश् चैव तथा चाष्टाहभोजनः ॥

242.17

मासोपवासी मूलाशी फलाहारस् तथैव च
वायुभक्षश् च पिण्याक दधिगोमयभोजनः ॥

242.18

गोमूत्रभोजनश् चैव काशपुष्पाशनस् तथा
शैवालभोजनश् चैव तथा चान्येन वर्तयन् ॥

242.19

वर्तयञ् शीर्णपर्णैश् च प्रकीर्णफलभोजनः
विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया ॥

242.20

चान्द्रायणानि विधिवल् लिङ्गानि विविधानि च
चातुराश्रम्ययुक्तानि धर्माधर्माश्रयाण्य् अपि ॥

242.21

उपाश्रयान् अप्य् अपरान् पाखण्डान् विविधान् अपि
विविक्ताश् च शिलाछायास् तथा प्रस्रवणानि च ॥

242.22

पुलिनानि विविक्तानि विविधानि वनानि च
काननेषु विविक्ताश् च शैलानां महतीर् गुहाः ॥

242.23

नियमान् विविधांश् चापि विविधानि तपांसि च
यज्ञांश् च विविधाकारान् विद्याश् च विविधास् तथा ॥

242.24

वणिक्पथं द्विजक्षत्र वैश्यशूद्रांस् तथैव च
दानं च विविधाकारं दीनान्धकृपणादिषु ॥

242.25

अभिमन्येत संधातुं तथैव विविधान् गुणान्
सत्त्वं रजस् तमश् चैव धर्मार्थौ काम एव च ॥

242.26

प्रकृत्यात्मानम् एवात्मा एवं प्रविभजत्य् उत
स्वाहाकारवषट्कारौ स्वधाकारनमस्क्रिये ॥

242.27

यजनाध्ययने दानं तथैवाहुः प्रतिग्रहम्
याजनाध्यापने चैव तथान्यद् अपि किंचन ॥

242.28

जन्ममृत्युविधानेन तथा विशसनेन च
शुभाशुभभयं सर्वम् एतद् आहुः सनातनम् ॥

242.29

प्रकृतिः कुरुते देवी भयं प्रलयम् एव च
दिवसान्ते गुणान् एतान् अतीत्यैको ऽवतिष्ठते ॥

242.30

रश्मिजालम् इवादित्यस् तत्कालं संनियच्छति
एवम् एवैष तत् सर्वं क्रीडार्थम् अभिमन्यते ॥

242.31

आत्मरूपगुणान् एतान् विविधान् हृदयप्रियान्
एवम् एतां प्रकुर्वाणः सर्गप्रलयधर्मिणीम् ॥

242.32

क्रियां क्रियापथे रक्तस् त्रिगुणस् त्रिगुणाधिपः
क्रियाक्रियापथोपेतस् तथा तद् इति मन्यते ॥

242.33

प्रकृत्या सर्वम् एवेदं जगद् अन्धीकृतं विभो
रजसा तमसा चैव व्याप्तं सर्वम् अनेकधा ॥

242.34

एवं द्वंद्वान्य् अतीतानि मम वर्तन्ति नित्यशः
मत्त एतानि जायन्ते प्रलये यान्ति माम् अपि ॥

242.35

निस्तर्तव्याण्य् अथैतानि सर्वाणीति नराधिप
मन्यते पक्षबुद्धित्वात् तथैव सुकृतान्य् अपि ॥

242.36

भोक्तव्यानि ममैतानि देवलोकगतेन वै
इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् ॥

242.37

सुखम् एवं तु कर्तव्यं सकृत् कृत्वा सुखं मम
यावद् एव तु मे सौख्यं जात्यां जात्यां भविष्यति ॥

242.38

भविष्यति न मे दुःखं कृतेनेहाप्य् अनन्तकम्
सुखदुःखं हि मानुष्यं निरये चापि मज्जनम् ॥

242.39

निरयाच् चापि मानुष्यं कालेनैष्याम्य् अहं पुनः
मनुष्यत्वाच् च देवत्वं देवत्वात् पौरुषं पुनः ॥

242.40

मनुष्यत्वाच् च निरयं पर्यायेणोपगच्छति
एष एवं द्विजातीनाम् आत्मा वै स गुणैर् वृतः ॥

242.41

तेन देवमनुष्येषु निरयं चोपपद्यते
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते ॥

242.42

सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु
य एवं कुरुते कर्म शुभाशुभफलात्मकम् ॥

242.43

स एवं फलम् आप्नोति त्रिषु लोकेषु मूर्तिमान्
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् ॥

242.44

प्रकृतिश् च तथाप्नोति त्रिषु लोकेषु कामगा
तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च ॥

242.45

त्रीणि स्थानानि चैतानि जानीयात् प्राकृतानि ह
अलिङ्गप्रकृतित्वाच् च लिङ्गैर् अप्य् अनुमीयते ॥

242.46

तथैव पौरुषं लिङ्गम् अनुमानाद् धि मन्यते
स लिङ्गान्तरम् आसाद्य प्राकृतं लिङ्गम् अव्रणम् ॥

242.47

व्रणद्वाराण्य् अधिष्ठाय कर्माण्य् आत्मनि मन्यते
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्य् अथ ॥

242.48

रागादीनि प्रवर्तन्ते गुणेष्व् इह गुणैः सह
अहम् एतानि वै कुर्वन् ममैतानीन्द्रियाणि ह ॥

242.49

निरिन्द्रियो हि मन्येत व्रणवान् अस्मि निर्व्रणः
अलिङ्गो लिङ्गम् आत्मानम् अकालं कालम् आत्मनः ॥

242.50

असत्त्वं सत्त्वम् आत्मानम् अमृतं मृतम् आत्मनः
अमृत्युं मृत्युम् आत्मानम् अचरं चरम् आत्मनः ॥

242.51

अक्षेत्रं क्षेत्रम् आत्मानम् असङ्गं सङ्गम् आत्मनः
अतत्त्वं तत्त्वम् आत्मानम् अभवं भवम् आत्मनः ॥

242.52

अक्षरं क्षरम् आत्मानम् अबुद्धत्वाद् धि मन्यते
एवम् अप्रतिबुद्धत्वाद् अबुद्धजनसेवनात् ॥

242.53

सर्गकोटिसहस्राणि पतनान्तानि गच्छति
जन्मान्तरसहस्राणि मरणान्तानि गच्छति ॥

242.54

तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च
चन्द्रमा इव कोशानां पुनस् तत्र सहस्रशः ॥

242.55

नीयते ऽप्रतिबुद्धत्वाद् एवम् एव कुबुद्धिमान्
कला पञ्चदशी योनिस् तद् धाम इति पठ्यते ॥

242.56

नित्यम् एव विजानीहि सोमं वै षोडशांशकैः
कलया जायते ऽजस्रं पुनः पुनर् अबुद्धिमान् ॥

242.57

धीमांश् चायं न भवति नृप एवं हि जायते
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ॥

242.58

न तूपयुज्यते देवैर् देवान् अपि युनक्ति सः
ममत्वं क्षपयित्वा तु जायते नृपसत्तम
प्रकृतेस् त्रिगुणायास् तु स एव त्रिगुणो भवेत् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc