ब्रह्म पुराण · अध्याय 241
किं तद् अक्षरम् इत्य् उक्तं यस्मान् नावर्तते पुनः
किंस्वित् तत् क्षरम् इत्य् उक्तं यस्माद् आवर्तते पुनः ॥
अक्षराक्षरयोर् व्यक्तिं पृच्छामस् त्वां महामुने
उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुंगव ॥
त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः
ऋषिभिश् च महाभागैर् यतिभिश् च महात्मभिः ॥
तद् एतच् छ्रोतुम् इच्छामस् त्वत्तः सर्वं महामते
न तृप्तिम् अधिगच्छामः शृण्वन्तो ऽमृतम् उत्तमम् ॥
अत्र वो वर्णयिष्यामि इतिहासं पुरातनम्
वसिष्ठस्य च संवादं करालजनकस्य च ॥
वसिष्ठं श्रेष्ठम् आसीनम् ऋषीणां भास्करद्युतिम्
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥
परमात्मनि कुशलम् अध्यात्मगतिनिश्चयम्
मैत्रावरुणिम् आसीनम् अभिवाद्य कृताञ्जलिः ॥
स्वच्छन्दं सुकृतं चैव मधुरं चाप्य् अनुल्बणम्
पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥
भगवञ् श्रोतुम् इच्छामि परं ब्रह्म सनातनम्
यस्मिन् न पुनरावृत्तिं प्राप्नुवन्ति मनीषिणः ॥
यच् च तत् क्षरम् इत्य् उक्तं यत्रेदं क्षरते जगत्
यच् चाक्षरम् इति प्रोक्तं शिवं क्षेमम् अनामयम् ॥
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत्
यत्र क्षरति पूर्वेण यावत्कालेन चाप्य् अथ ॥
युगं द्वादशसाहस्र्यं कल्पं विद्धि चतुर्युगम्
दशकल्पशतावर्तम् अहस् तद् ब्राह्मम् उच्यते ॥
रात्रिश् चैतावती राजन् यस्यान्ते प्रतिबुध्यते
सृजत्य् अनन्तकर्माणि महान्तं भूतम् अग्रजम् ॥
मूर्तिमन्तम् अमूर्तात्मा विश्वं शंभुः स्वयंभुवः
यत्रोत्पत्तिं प्रवक्ष्यामि मूलतो नृपसत्तम ॥
अणिमा लघिमा प्राप्तिर् ईशानं ज्योतिर् अव्ययम्
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् ॥
सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति
हिरण्यगर्भो भगवान् एष बुद्धिर् इति स्मृतिः ॥
महान् इति च योगेषु विरिञ्चिर् इति चाप्य् अथ
सांख्ये च पठ्यते शास्त्रे नामभिर् बहुधात्मकः ॥
विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः
धृतम् एकात्मकं येन कृत्स्नं त्रैलोक्यम् आत्मना ॥
तथैव बहुरूपत्वाद् विश्वरूप इति श्रुतः
एष वै विक्रियापन्नः सृजत्य् आत्मानम् आत्मना ॥
प्रधानं तस्य संयोगाद् उत्पन्नं सुमहत् पुरम्
अहंकारं महातेजाः प्रजापतिनमस्कृतम् ॥
अव्यक्ताद् व्यक्तिम् आपन्नं विद्यासर्गं वदन्ति तम्
महान्तं चाप्य् अहंकारम् अविद्यासर्ग एव च ॥
अचरश् च चरश् चैव समुत्पन्नौ तथैकतः
विद्याविद्येति विख्याते श्रुतिशास्त्रानुचिन्तकैः ॥
भूतसर्गम् अहंकारात् तृतीयं विद्धि पार्थिव
अहंकारेषु नृपते चतुर्थं विद्धि वैकृतम् ॥
वायुर् ज्योतिर् अथाकाशम् आपो ऽथ पृथिवी तथा
शब्दस्पर्शौ च रूपं च रसो गन्धस् तथैव च ॥
एवं युगपद् उत्पन्नं दशवर्गम् असंशयम्
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गम् अर्थकृत् ॥
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणम् एव च पञ्चमम्
वाग् हस्तौ चैव पादौ च पायुर् मेढ्रं तथैव च ॥
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च
संभूतानीह युगपन् मनसा सह पार्थिव ॥
एषा तत्त्वचतुर्विंशा सर्वाकृतिः प्रवर्तते
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास् तत्त्वदर्शिनः ॥
एवम् एतत् समुत्पन्नं त्रैलोक्यम् इदम् उत्तमम्
वेदितव्यं नरश्रेष्ठ सदैव नरकार्णवे ॥
सयक्षभूतगन्धर्वे सकिंनरमहोरगे
सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥
सदंशकीटमशके सपूतिकृमिमूषके
शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे ॥
हस्त्यश्वखरशार्दूले सवृके गवि चैव ह
या च मूर्तिश् च यत् किंचित् सर्वत्रैतन् निदर्शनम् ॥
जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः
स्थानं देहवताम् आसीद् इत्य् एवम् अनुशुश्रुम ॥
कृत्स्नम् एतावतस् तात क्षरते व्यक्तसंज्ञकः
अहन्य् अहनि भूतात्मा यच् चाक्षर इति स्मृतम् ॥
ततस् तत् क्षरम् इत्य् उक्तं क्षरतीदं यथा जगत्
जगन् मोहात्मकं चाहुर् अव्यक्ताद् व्यक्तसंज्ञकम् ॥
महांश् चैवाक्षरो नित्यम् एतत् क्षरविवर्जनम्
कथितं ते महाराज यस्मान् नावर्तते पुनः ॥
पञ्चविंशतिको ऽमूर्तः स नित्यस् तत्त्वसंज्ञकः
सत्त्वसंश्रयणात् तत्त्वं सत्त्वम् आहुर् मनीषिणः ॥
यद् अमूर्तिः सृजद् व्यक्तं तन् मूर्तिम् अधितिष्ठति
चतुर्विंशतिमो व्यक्तो ह्य् अमूर्तिः पञ्चविंशकः ॥
स एव हृदि सर्वासु मूर्तिष्व् आतिष्ठतात्मवान्
चेतयंश् चेतनो नित्यं सर्वमूर्तिर् अमूर्तिमान् ॥
सर्गप्रलयधर्मेण स सर्गप्रलयात्मकः
गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञितः ॥
एवम् एष महात्मा च सर्गप्रलयकोटिशः
विकुर्वाणः प्रकृतिमान् नाभिमन्येत बुद्धिमान् ॥
तमःसत्त्वरजोयुक्तस् तासु तास्व् इह योनिषु
लीयते प्रतिबुद्धत्वाद् अबुद्धजनसेवनात् ॥
सहवासनिवासत्वाद् बालो ऽहम् इति मन्यते
यो ऽहं न सो ऽहम् इत्य् उक्तो गुणान् एवानुवर्तते ॥
तमसा तामसान् भावान् विविधान् प्रतिपद्यते
रजसा राजसांश् चैव सात्त्विकान् सत्त्वसंश्रयात् ॥
शुक्ललोहितकृष्णानि रूपाण्य् एतानि त्रीणि तु
सर्वाण्य् एतानि रूपाणि जानीहि प्राकृतानि तु ॥
तामसा निरयं यान्ति राजसा मानुषान् अथ
सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ॥
निष्केवलेन पापेन तिर्यग्योनिम् अवाप्नुयात्
पुण्यपापेषु मानुष्यं पुण्यमात्रेण देवताः ॥
एवम् अव्यक्तविषयं मोक्षम् आहुर् मनीषिणः
पञ्चविंशतिमो यो ऽयं ज्ञानाद् एव प्रवर्तते ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0