ब्रह्म पुराण · अध्याय 240
सम्यक् क्रियेयं विप्रेन्द्र वर्णिता शिष्टसंमता
योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥
सांख्ये त्व् इदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः
त्रिषु लोकेषु यज् ज्ञानं सर्वं तद् विदितं हि ते ॥
शृणुध्वं मुनयः सर्वम् आख्यानं विदितात्मनाम्
विहितं यतिभिर् वृद्धैः कपिलादिभिर् ईश्वरैः ॥
यस्मिन् सुविभ्रमाः केचिद् दृश्यन्ते मुनिसत्तमाः
गुणाश् च यस्मिन् बहवो दोषहानिश् च केवला ॥
ज्ञानेन परिसंख्याय सदोषान् विषयान् द्विजाः
मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयांस् तथा ॥
विषयान् औरगाञ् ज्ञात्वा गन्धर्वविषयांस् तथा
पितॄणां विषयाञ् ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः ॥
सुपर्णविषयाञ् ज्ञात्वा मरुतां विषयांस् तथा
महर्षिविषयांश् चैव राजर्षिविषयांस् तथा ॥
आसुरान् विषयाञ् ज्ञात्वा वैश्वदेवांस् तथैव च
देवर्षिविषयाञ् ज्ञात्वा योगानाम् अपि वै परान् ॥
विषयांश् च प्रमाणस्य ब्रह्मणो विषयांस् तथा
आयुषश् च परं कालं लोकैर् विज्ञाय तत्त्वतः ॥
सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः
प्राप्तकाले च यद् दुःखं पततां विषयैषिणाम् ॥
तिर्यक्त्वे पततां विप्रास् तथैव नरकेषु यत्
स्वर्गस्य च गुणाञ् ज्ञात्वा दोषान् सर्वांश् च भो द्विजाः ॥
वेदवादे च ये दोषा गुणा ये चापि वैदिकाः
ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः ॥
सांख्यज्ञाने च ये दोषांस् तथैव च गुणा द्विजाः
सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा ॥
तमश् चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा
षड्गुणं च नभो ज्ञात्वा तमश् च त्रिगुणं महत् ॥
द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः
मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु ॥
ज्ञानविज्ञानसंपन्नाः कारणैर् भावितात्मभिः
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च
शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च ॥
त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम्
मोहं तमसि संयुक्तं लोभं मोहेषु संश्रितम् ॥
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम्
अप्सु देवीं समायुक्ताम् आपस् तेजसि संश्रिताः ॥
तेजो वायौ तु संयुक्तं वायुं नभसि चाश्रितम्
नभो महति संयुक्तं तमो महसि संस्थितम् ॥
रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथात्मनि
सक्तम् आत्मानम् ईशे च देवे नारायणे तथा ॥
देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित्
ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर् गुणैः ॥
स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम्
मध्यस्थम् इव चात्मानं पापं यस्मिन् न विद्यते ॥
द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विषयैषिणाम्
इन्द्रियाणीन्द्रियार्थांश् च सर्वान् आत्मनि संश्रितान् ॥
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्
प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥
आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः
सप्तधा तांस् तथा शेषान् सप्तधा विधिवत् पुनः ॥
प्रजापतीन् ऋषींश् चैव सर्गांश् च सुबहून् वरान्
सप्तर्षींश् च बहूञ् ज्ञात्वा राजर्षींश् च परंतपान् ॥
सुरर्षीन् मरुतश् चान्यान् ब्रह्मर्षीन् सूर्यसंनिभान्
ऐश्वर्याच् च्यावितान् दृष्ट्वा कालेन महता द्विजाः ॥
महतां भूतसंघानां श्रुत्वा नाशं च भो द्विजाः
गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम् ॥
वैतरण्यां च यद् दुःखं पतितानां यमक्षये
योनिषु च विचित्रासु संचारान् अशुभांस् तथा ॥
जठरे चाशुभे वासं शोणितोदकभाजने
श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ॥
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे
शिराशतसमाकीर्णे नवद्वारे पुरे ऽथ वै ॥
विज्ञाय हितम् आत्मानं योगांश् च विविधान् द्विजाः
तामसानां च जन्तूनां रमणीयानृतात्मनाम् ॥
सात्त्विकानां च जन्तूनां कुत्सितं मुनिसत्तमाः
गर्हितं महताम् अर्थे सांख्यानां विदितात्मनाम् ॥
उपप्लवांस् तथा घोराञ् शशिनस् तेजसस् तथा
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥
द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं द्विजाः
अन्योन्यभक्षणं दृष्ट्वा भूतानाम् अपि चाशुभम् ॥
बाल्ये मोहं च विज्ञाय पक्षदेहस्य चाशुभम्
रागं मोहं च संप्राप्तं क्वचित् सत्त्वं समाश्रितम् ॥
सहस्रेषु नरः कश्चिन् मोक्षबुद्धिं समाश्रितः
दुर्लभत्वं च मोक्षस्य विज्ञानं श्रुतिपूर्वकम् ॥
बहुमानम् अलब्धेषु लब्धे मध्यस्थतां पुनः
विषयाणां च दौरात्म्यं विज्ञाय च पुनर् द्विजाः ॥
गतासूनां च सत्त्वानां देहान् भित्त्वा तथा शुभान्
वासं कुलेषु जन्तूनां मरणाय धृतात्मनाम् ॥
सात्त्विकानां च जन्तूनां दुःखं विज्ञाय भो द्विजाः
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥
सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम्
गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥
जननीषु च वर्तन्ते येन सम्यग् द्विजोत्तमाः
सदेवकेषु लोकेषु येन वर्तन्ति मानवाः ॥
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम्
तिर्यग्योनिगतानां च विज्ञाय च गतीः पृथक् ॥
वेदवादांस् तथा चित्रान् ऋतूनां पर्ययांस् तथा
क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम्
क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस् तथा ॥
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः
क्षयं धनानां दृष्ट्वा च पुनर् वृद्धिं तथैव च ॥
संयोगानां तथा दृष्ट्वा युगानां च विशेषतः
देहवैक्लव्यतां चैव सम्यग् विज्ञाय तत्त्वतः ॥
आत्मदोषांश् च विज्ञाय सर्वान् आत्मनि संस्थितान्
स्वदेहाद् उत्थितान् गन्धांस् तथा विज्ञाय चाशुभान् ॥
कान् उत्पातभवान् दोषान् पश्यसि ब्रह्मवित्तम
एतं नः संशयं कृत्स्नं वक्तुम् अर्हस्य् अशेषतः ॥
पञ्च दोषान् द्विजा देहे प्रवदन्ति मनीषिणः
मार्गज्ञाः कापिलाः सांख्याः शृणुध्वं मुनिसत्तमाः ॥
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात्
सत्त्वसंसेवनान् निद्राम् अप्रमादाद् भयं तथा ॥
छिन्दन्ति पञ्चमं श्वासम् अल्पाहारतया द्विजाः
गुणान् गुणशतैर् ज्ञात्वा दोषान् दोषशतैर् अपि ॥
हेतून् हेतुशतैश् चित्रैश् चित्रान् विज्ञाय तत्त्वतः
अपां फेनोपमं लोकं विष्णोर् मायाशतैः कृतम् ॥
चित्रभित्तिप्रतीकाशं नलसारम् अनर्थकम्
तमःसंभ्रमितं दृष्ट्वा वर्षबुद्बुदसंनिभम् ॥
नाशप्रायं सुखाधानं नाशोत्तरमहाभयम्
रजस् तमसि संमग्नं पङ्के द्विपम् इवावशम् ॥
सांख्या विप्रा महाप्राज्ञास् त्यक्त्वा स्नेहं प्रजाकृतम्
ज्ञानज्ञेयेन सांख्येन व्यापिना महता द्विजाः ॥
राजसान् अशुभान् गन्धांस् तामसांश् च तथाविधान्
पुण्यांश् च सात्त्विकान् गन्धान् स्पर्शजान् देहसंश्रितान् ॥
छित्त्वात्मज्ञानशस्त्रेण तपोदण्डेन सत्तमाः
ततो दुःखादिकं घोरं चिन्ताशोकमहाह्रदम् ॥
व्याधिमृत्युमहाघोरं महाभयमहोरगम्
तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्य् उत ॥
स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपं द्विजोत्तमाः
कर्मागाधं सत्यतीरं स्थितं व्रतमनीषिणः ॥
हर्षसंघमहावेगं नानारससमाकुलम्
नानाप्रीतिमहारत्नं दुःखज्वरसमीरितम् ॥
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम्
अस्थिसंघातसंघट्टं श्लेष्मयोगं द्विजोत्तमाः ॥
दानमुक्ताकरं घोरं शोणितोद्गारविद्रुमम्
हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुष्करम् ॥
रोदनाश्रुमलक्षारं सङ्गयोगपरायणम्
प्रलब्ध्वा जन्मलोको यं पुत्रबान्धवपत्तनम् ॥
अहिंसासत्यमर्यादं प्राणयोगमयोर्मिलम्
वृन्दानुगामिनं क्षीरं सर्वभूतपयोदधिम् ॥
मोक्षदुर्लभविषयं वाडवासुखसागरम्
तरन्ति यतयः सिद्धा ज्ञानयोगेन चानघाः ॥
तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः
ततस् तान् सुकृतीञ् ज्ञात्वा सूर्यो वहति रश्मिभिः ॥
पद्मतन्तुवद् आविश्य प्रवहन् विषयान् द्विजाः
तत्र तान् प्रवहो वायुः प्रतिगृह्णाति चानघाः ॥
वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस् तपोधनान्
सूक्ष्मः शीतः सुगन्धश् च सुखस्पर्शश् च भो द्विजाः ॥
सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान्
स तान् वहति विप्रेन्द्रा नभसः परमां गतिम् ॥
नभो वहति लोकेशान् रजसः परमां गतिम्
रजो वहति विप्रेन्द्राः सत्त्वस्य परमां गतिम् ॥
सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम्
प्रभुर् वहति शुद्धात्मा परमात्मानम् आत्मना ॥
परमात्मानम् आसाद्य तद्भूता यतयो ऽमलाः
अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः ॥
परमा सा गतिर् विप्रा निर्द्वंद्वानां महात्मनाम्
सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥
स्थानम् उत्तमम् आसाद्य भगवन्तं स्थिरव्रताः
आजन्ममरणं वा ते रमन्ते तत्र वा न वा ॥
यद् अत्र तथ्यं तत्त्वं नो यथावद् वक्तुम् अर्हसि
त्वदृते मानवं नान्यं प्रष्टुम् अर्हाम सत्तम ॥
मोक्षदोषो महान् एष प्राप्य सिद्धिं गतान् ऋषीन्
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥
प्रवृत्तिलक्षणं धर्मं पश्याम परमं द्विज
मग्नस्य हि परे ज्ञाने किंतु दुःखान्तरं भवेत् ॥
यथान्यायं मुनिश्रेष्ठाः प्रश्नः पृष्टश् च संकटः
बुधानाम् अपि संमोहः प्रश्ने ऽस्मिन् मुनिसत्तमाः ॥
अत्रापि तत्त्वं परमं शृणुध्वं वचनं मम
बुद्धिश् च परमा यत्र कपिलानां महात्मनाम् ॥
इन्द्रियाण्य् अपि बुध्यन्ते स्वदेहं देहिनां द्विजाः
करणान्य् आत्मनस् तानि सूक्ष्मं पश्यन्ति तैस् तु सः ॥
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु
विनश्यन्ति न संदेहो वेला इव महार्णवे ॥
इन्द्रियैः सह सुप्तस्य देहिनो द्विजसत्तमाः
सूक्ष्मश् चरति सर्वत्र नभसीव समीरणः ॥
स पश्यति यथान्यायं स्मृत्वा स्पृशति चानघाः
बुध्यमानो यथापूर्वम् अखिलेनेह भो द्विजाः ॥
इन्द्रियाणि ह सर्वाणि स्वे स्वे स्थाने यथाविधि
अनीशत्वात् प्रलीयन्ते सर्पा विषहता इव ॥
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्व् एव सर्वशः
आक्रम्य गतयः सूक्ष्मा वरत्य् आत्मा न संशयः ॥
सत्त्वस्य च गुणान् कृत्स्नान् रजसश् च गुणान् पुनः
गुणांश् च तमसः सर्वान् गुणान् बुद्धेश् च सत्तमाः ॥
गुणांश् च मनसश् चापि नभसश् च गुणांस् तथा
गुणान् वायोश् च सर्वज्ञाः स्नेहजांश् च गुणान् पुनः ॥
अपां गुणास् तथा विप्राः पार्थिवांश् च गुणान् अपि
सर्वान् एव गुणैर् व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः ॥
आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे
शिष्या इव महात्मानम् इन्द्रियाणि च तं द्विजाः ॥
प्रकृतिं चाप्य् अतिक्रम्य शुद्धं सूक्ष्मं परात् परम्
नारायणं महात्मानं निर्विकारं परात् परम् ॥
विमुक्तं सर्वपापेभ्यः प्रविष्टं च ह्य् अनामयम्
परमात्मानम् अगुणं निर्वृतं तं च सत्तमाः ॥
श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भो द्विजाः
आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ॥
शक्यं वाल्पेन कालेन शान्तिं प्राप्तुं गुणांस् तथा
एवम् उक्तेन विप्रेन्द्राः सांख्ययोगेन मोक्षिणीम् ॥
सांख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम्
ज्ञानेनानेन विप्रेन्द्रास् तुल्यं ज्ञानं न विद्यते ॥
अत्र वः संशयो मा भूज् ज्ञानं सांख्यं परं मतम्
अक्षरं ध्रुवम् एवोक्तं पूर्वं ब्रह्म सनातनम् ॥
अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम्
कूटस्थं चैव नित्यं च यद् वदन्ति शमात्मकाः ॥
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः
एवं शंसन्ति शास्त्रेषु प्रवक्तारो महर्षयः ॥
सर्वे विप्राश् च वेदाश् च तथा सामविदो जनाः
ब्रह्मण्यं परमं देवम् अनन्तं परमाच्युतम् ॥
प्रार्थयन्तश् च तं विप्रा वदन्ति गुणबुद्धयः
सम्यग् उक्तास् तथा योगाः सांख्याश् चामितदर्शनाः ॥
अमूर्तिस् तस्य विप्रेन्द्राः सांख्यं मूर्तिर् इति श्रुतिः
अभिज्ञानानि तस्याहुर् महान्ति मुनिसत्तमाः ॥
द्विविधानि हि भूतानि पृथिव्यां द्विजसत्तमाः
अगम्यगम्यसंज्ञानि गम्यं तत्र विशिष्यते ॥
ज्ञानं महद् वै महतश् च विप्रा वेदेषु सांख्येषु तथैव योगे
यच् चापि दृष्टं विधिवत् पुराणे सांख्यागतं तन् निखिलं मुनीन्द्राः
यच् चेतिहासेषु महत्सु दृष्टं यथार्थशास्त्रेषु विशिष्टदृष्टम्
ज्ञानं च लोके यद् इहास्ति किंचित् सांख्यागतं तच् च महामुनीन्द्राः
समस्तदृष्टं परमं बलं च ज्ञानं च मोक्षश् च यथावद् उक्तम्
तपांसि सूक्ष्माणि च यानि चैव सांख्ये यथावद् विहितानि विप्राः
विपर्ययं तस्य हितं सदैव गच्छन्ति सांख्याः सततं सुखेन
तांश् चापि संधार्य ततः कृतार्थाः पतन्ति विप्रायतनेषु भूयः
हित्वा च देहं प्रविशन्ति मोक्षं दिवौकसश् चापि च योगसांख्याः
अतो ऽधिकं ते ऽभिरता महार्हे सांख्ये द्विजा भो इह शिष्टजुष्टे
तेषां तु तिर्यग्गमनं हि दृष्टं नाधो गतिः पापकृतां निवासः
न वा प्रधाना अपि ते द्विजातयो ये ज्ञानम् एतन् मुनयो न सक्ताः
सांख्यं विशालं परमं पुराणं महार्णवं विमलम् उदारकान्तम्
कृत्स्नं हि सांख्या मुनयो महात्म नारायणे धारयताप्रमेयम्
एतन् मयोक्तं परमं हि तत्त्वं नारायणाद् विश्वम् इदं पुराणम्
स सर्गकाले च करोति सर्गं संहारकाले च हरेत भूयः
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0