भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 239

239.1

सांख्यं योगस्य नो विप्र विशेषं वक्तुम् अर्हसि
तव धर्मज्ञ सर्वं हि विदितं मुनिसत्तम ॥

239.2

सांख्याः सांख्यं प्रशंसन्ति योगान् योगविदुत्तमाः
वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै ॥

239.3

अनीश्वरः कथं मुच्येद् इत्य् एवं मुनिसत्तमाः
वदन्ति कारणैः श्रेष्ठं योगं सम्यङ् मनीषिणः ॥

239.4

वदन्ति कारणं वेदं सांख्यं सम्यग् द्विजातयः
विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥

239.5

ऊर्ध्वं स देहात् सुव्यक्तं विमुच्येद् इति नान्यथा
एतद् आहुर् महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् ॥

239.6

स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम्
शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसंमतैः ॥

239.7

प्रत्यक्षं हेतवो योगाः सांख्याः शास्त्रविनिश्चयाः
उभे चैते मते तत्त्वे समवेते द्विजोत्तमाः ॥

239.8

उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसंमते
अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥

239.9

तुल्यं शौचं तयोर् युक्तं दया भूतेषु चानघाः
व्रतानां धारणं तुल्यं दर्शनं त्व् असमं तयोः ॥

239.10

यदि तुल्यं व्रतं शौचं दया चात्र महामुने
तुल्यं तद्दर्शनं कस्मात् तन् नो ब्रूहि द्विजोत्तम ॥

239.11

रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम्
योगास्थिरोदितान् दोषान् पञ्चैतान् प्राप्नुवन्ति तान् ॥

239.12

यथा वानिमिषाः स्थूलं जालं छित्त्वा पुनर् जलम्
प्राप्नुवन्ति तथा योगात् तत् पदं वीतकल्मषाः ॥

239.13

तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः
प्राप्नुयुर् विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥

239.14

लोभजानि तथा विप्रा बन्धनानि बलान्वितः
छित्त्वा योगात् परं मार्गं गच्छन्ति विमलं शुभम् ॥

239.15

अचलास् त्व् आविला विप्रा वागुरासु तथापरे
विनश्यन्ति न संदेहस् तद्वद् योगबलाद् ऋते ॥

239.16

बलहीनाश् च विप्रेन्द्रा यथा जालं गता द्विजाः
बन्धं न गच्छन्त्य् अनघा योगास् ते तु सुदुर्लभाः ॥

239.17

यथा च शकुनाः सूक्ष्मं प्राप्य जालम् अरिंदमाः
तत्राशक्ता विपद्यन्ते मुच्यन्ते तु बलान्विताः ॥

239.18

कर्मजैर् बन्धनैर् बद्धास् तद्वद् योगपरा द्विजाः
अबला न विमुच्यन्ते मुच्यन्ते च बलान्विताः ॥

239.19

अल्पकश् च यथा विप्रा वह्निः शाम्यति दुर्बलः
आक्रान्त इन्धनैः स्थूलैस् तद्वद् योगबलः स्मृतः ॥

239.20

स एव च तदा विप्रा वह्निर् जातबलः पुनः
समीरणगतः कृत्स्नां दहेत् क्षिप्रं महीम् इमाम् ॥

239.21

तत्त्वज्ञानबलो योगी दीप्ततेजा महाबलः
अन्तकाल इवादित्यः कृत्स्नं संशोषयेज् जगत् ॥

239.22

दुर्बलश् च यथा विप्राः स्रोतसा ह्रियते नरः
बलहीनस् तथा योगी विषयैर् ह्रियते च सः ॥

239.23

तद् एव तु यथा स्रोतो विष्कम्भयति वारणः
तद्वद् योगबलं लब्ध्वा न भवेद् विषयैर् हृतः ॥

239.24

विशन्ति वा वशाद् वाथ योगाद् योगबलान्विताः
प्रजापतीन् मनून् सर्वान् महाभूतानि चेश्वराः ॥

239.25

न यमो नान्तकः क्रुद्धो न मृत्युर् भीमविक्रमः
विशन्ते तद् द्विजाः सर्वे योगस्यामिततेजसः ॥

239.26

आत्मनां च सहस्राणि बहूनि द्विजसत्तमाः
योगं कुर्याद् बलं प्राप्य तैश् च सर्वैर् महीं चरेत् ॥

239.27

प्राप्नुयाद् विषयान् कश्चित् पुनश् चोग्रं तपश् चरेत्
संक्षिप्येच् च पुनर् विप्राः सूर्यस् तेजोगुणान् इव ॥

239.28

बलस्थस्य हि योगस्य बलार्थं मुनिसत्तमाः
विमोक्षप्रभवं विष्णुम् उपपन्नम् असंशयम् ॥

239.29

बलानि योगप्रोक्तानि मयैतानि द्विजोत्तमाः
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनर् द्विजाः ॥

239.30

आत्मनश् च समाधाने धारणां प्रति वा द्विजाः
निदर्शनानि सूक्ष्माणि शृणुध्वं मुनिसत्तमाः ॥

239.31

अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः
युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्य् असंशयम् ॥

239.32

स्नेहपात्रे यथा पूर्णे मन आधाय निश्चलम्
पुरुषो युक्त आरोहेत् सोपानं युक्तमानसः ॥

239.33

मुक्तस् तथायम् आत्मानं योगं तद्वत् सुनिश्चलम्
करोत्य् अमलम् आत्मानं भास्करोपमदर्शने ॥

239.34

यथा च नावं विप्रेन्द्राः कर्णधारः समाहितः
महार्णवगतां शीघ्रं नयेद् विप्रांस् तु पत्तनम् ॥

239.35

तद्वद् आत्मसमाधानं युक्तो योगेन योगवित्
दुर्गमं स्थानम् आप्नोति हित्वा देहम् इमं द्विजाः ॥

239.36

सारथिश् च यथा युक्तः सदश्वान् सुसमाहितः
देशम् इष्टं नयत्य् आशु धन्विनं पुरुषर्षभम् ॥

239.37

तथैव च द्विजा योगी धारणासु समाहितः
प्राप्नोत्य् आशु परं स्थानं लक्ष्यमुक्त इवाशुगः ॥

239.38

आविश्यात्मनि चात्मानं यो ऽवतिष्ठति सो ऽचलः
पाशं हत्वेव मीनानां पदम् आप्नोति सो ऽजरम् ॥

239.39

नाभ्यां शीर्षे च कुक्षौ च हृदि वक्षसि पार्श्वयोः
दर्शने श्रवणे वापि घ्राणे चामितविक्रमः ॥

239.40

स्थानेष्व् एतेषु यो योगी महाव्रतसमाहितः
आत्मना सूक्ष्मम् आत्मानं युङ्क्ते सम्यग् द्विजोत्तमाः ॥

239.41

सुशीघ्रम् अचलप्रख्यं कर्म दग्ध्वा शुभाशुभम्
उत्तमं योगम् आस्थाय यदीच्छति विमुच्यते ॥

239.42

आहारान् कीदृशान् कृत्वा कानि जित्वा च सत्तम
योगी बलम् अवाप्नोति तद् भवान् वक्तुम् अर्हति ॥

239.43

कणानां भक्षणे युक्तः पिण्याकस्य च भो द्विजाः
स्नेहानां वर्जने युक्तो योगी बलम् अवाप्नुयात् ॥

239.44

भुञ्जानो यावकं रूक्षं दीर्घकालं द्विजोत्तमाः
एकाहारी विशुद्धात्मा योगी बलम् अवाप्नुयात् ॥

239.45

पक्षान् मासान् ऋतूंश् चित्रान् संचरंश् च गुहास् तथा
अपः पीत्वा पयोमिश्रा योगी बलम् अवाप्नुयात् ॥

239.46

अखण्डम् अपि वा मासं सततं मुनिसत्तमाः
उपोष्य सम्यक् शुद्धात्मा योगी बलम् अवाप्नुयात् ॥

239.47

कामं जित्वा तथा क्रोधं शीतोष्णं वर्षम् एव च
भयं शोकं तथा स्वापं पौरुषान् विषयांस् तथा ॥

239.48

अरतिं दुर्जयां चैव घोरां दृष्ट्वा च भो द्विजाः
स्पर्शं निद्रां तथा तन्द्रां दुर्जयां मुनिसत्तमाः ॥

239.49

दीपयन्ति महात्मानं सूक्ष्मम् आत्मानम् आत्मना
वीतरागा महाप्राज्ञा ध्यानाध्ययनसंपदा ॥

239.50

दुर्गस् त्व् एष मतः पन्था ब्राह्मणानां विपश्चिताम्
यः कश्चिद् व्रजति क्षिप्रं क्षेमेण मुनिपुंगवाः ॥

239.51

यथा कश्चिद् वनं घोरं बहुसर्पसरीसृपम्
श्वभ्रवत् तोयहीनं च दुर्गमं बहुकण्टकम् ॥

239.52

अभक्तम् अटवीप्रायं दावदग्धमहीरुहम्
पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेत् तथा ॥

239.53

योगमार्गं समासाद्य यः कश्चिद् व्रजते द्विजः
क्षेमेणोपरमेन् मार्गाद् बहुदोषो ऽपि संमतः ॥

239.54

आस्थेयं क्षुरधारासु निशितासु द्विजोत्तमाः
धारणा सा तु योगस्य दुर्गेयम् अकृतात्मभिः ॥

239.55

विषमा धारणा विप्रा यान्ति वै न शुभां गतिम्
नेतृहीना यथा नावः पुरुषाणां तु वै द्विजाः ॥

239.56

यस् तु तिष्ठति योगाधौ धारणासु यथाविधि
मरणं जन्मदुःखित्वं सुखित्वं स विशिष्यते ॥

239.57

नानाशास्त्रेषु नियतं नानामुनिनिषेवितम्
परं योगस्य पन्थानं निश्चितं तं द्विजातिषु ॥

239.58

परं हि तद् ब्रह्ममयं मुनीन्द्रा ब्रह्माणम् ईशं वरदं च विष्णुम्
भवं च धर्मं च महानुभावं यद् ब्रह्मपुत्रान् सुमहानुभावान्

239.59

तमश् च कष्टं सुमहद् रजश् च सत्त्वं च शुद्धं प्रकृतिं परां च
सिद्धिं च देवीं वरुणस्य पत्नीं तेजश् च कृत्स्नं सुमहच् च धैर्यम्

239.60

ताराधिपं खे विमलं सुतारं विश्वांश् च देवान् उरगान् पितॄंश् च
शैलांश् च कृत्स्नान् उदधींश् च वाचलान् नदीश् च सर्वाः सनगांश् च नागान्

239.61

साध्यांस् तथा यक्षगणान् दिशश् च गन्धर्वसिद्धान् पुरुषान् स्त्रियश् च
परस्परं प्राप्य महान् महात्मा विशेत योगी नचिराद् विमुक्तः

239.62

कथा च या विप्रवराः प्रसक्ता दैवे महावीर्यमतौ शुभेयम्
योगान् स सर्वान् अनुभूय मर्त्या नारायणं तं द्रुतम् आप्नुवन्ति

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc