ब्रह्म पुराण · अध्याय 23
कथितं भवता सर्वम् अस्माकं सकलं तथा
भुवर्लोकादिकांल् लोकाञ् श्रोतुम् इच्छामहे वयम् ॥
तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा
समाचक्ष्व महाभाग यथावल् लोमहर्षण ॥
रविचन्द्रमसोर् यावन् मयूखैर् अवभास्यते
ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥
यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला
नभस् तावत्प्रमाणं हि विस्तारपरिमण्डलम् ॥
भूमेर् योजनलक्षे तु सौरं विप्रास् तु मण्डलम्
लक्षे दिवाकराच् चापि मण्डलं शशिनः स्थितम् ॥
पूर्णे शतसहस्रे तु योजनानां निशाकरात्
नक्षत्रमण्डलं कृत्स्नम् उपरिष्टात् प्रकाशते ॥
द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात्
तावत्प्रमाणभागे तु बुधस्याप्य् उशना स्थितः ॥
अङ्गारको ऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः
लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥
सौरिर् बृहस्पतेर् ऊर्ध्वं द्विलक्षे समवस्थितः
सप्तर्षिमण्डलं तस्माल् लक्षम् एकं द्विजोत्तमाः ॥
ऋषिभ्यस् तु सहस्राणां शताद् ऊर्ध्वं व्यवस्थितः
मेढीभूतः समस्तस्य ज्योतिश् चक्रस्य वै ध्रुवः ॥
त्रैलोक्यम् एतत् कथितं संक्षेपेण द्विजोत्तमाः
इज्याफलस्य भूर् एषा इज्या चात्र प्रतिष्ठिता ॥
ध्रुवाद् ऊर्ध्वं महर्लोको यत्र ते कल्पवासिनः
एकयोजनकोटी तु महर्लोको विधीयते ॥
द्वे कोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः
सनन्दनाद्याः कथिता विप्राश् चामलचेतसः ॥
चतुर्गुणोत्तरं चोर्ध्वं जनलोकात् तपः स्मृतम्
वैराजा यत्र ते देवाः स्थिता देहविवर्जिताः ॥
षड्गुणेन तपोलोकात् सत्यलोको विराजते
अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम् ॥
पादगम्यं तु यत् किंचिद् वस्त्व् अस्ति पृथिवीमयम्
स भूर्लोकः समाख्यातो विस्तारो ऽस्य मयोदितः ॥
भूमिसूर्यान्तरं यत् तु सिद्धादिमुनिसेवितम्
भुवर्लोकस् तु सो ऽप्य् उक्तो द्वितीयो मुनिसत्तमाः ॥
ध्रुवसूर्यान्तरं यत् तु नियुतानि चतुर्दश
स्वर्लोकः सो ऽपि कथितो लोकसंस्थानचिन्तकैः ॥
त्रैलोक्यम् एतत् कृतकं विप्रैश् च परिपठ्यते
जनस् तपस् तथा सत्यम् इति चाकृतकं त्रयम् ॥
कृतकाकृतको मध्ये महर्लोक इति स्मृतः
शून्यो भवति कल्पान्ते यो ऽन्तं न च विनश्यति ॥
एते सप्त महालोका मया वः कथिता द्विजाः
पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥
एतद् अण्डकटाहेन तिर्यग् ऊर्ध्वम् अधस् तथा
कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥
दशोत्तरेण पयसा द्विजाश् चाण्डं च तद् वृतम्
स चाम्बुपरिवारो ऽसौ वह्निना वेष्टितो बहिः ॥
वह्निस् तु वायुना वायुर् विप्रास् तु नभसावृतः
आकाशो ऽपि मुनिश्रेष्ठा महता परिवेष्टितः ॥
दशोत्तराण्य् अशेषाणि विप्राश् चैतानि सप्त वै
महान्तं च समावृत्य प्रधानं समवस्थितम् ॥
अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते
तद् अनन्तम् असंख्यातं प्रमाणेनापि वै यतः ॥
हेतुभूतम् अशेषस्य प्रकृतिः सा परा द्विजाः
अण्डानां तु सहस्राणां सहस्राण्य् अयुतानि च ॥
ईदृशानां तथा तत्र कोटिकोटिशतानि च
दारुण्य् अग्निर् यथा तैलं तिले तद्वत् पुमान् इह ॥
प्रधाने ऽवस्थितो व्यापी चेतनात्मनिवेदनः
प्रधानं च पुमांश् चैव सर्वभूतानुभूतया ॥
विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्मिणौ
तयोः सैव पृथग्भावे कारणं संश्रयस्य च ॥
क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः
यथा शैत्यं जले वातो बिभर्ति कणिकागतम् ॥
जगच् छक्तिस् तथा विष्णोः प्रधानपुरुषात्मकम्
यथा च पादपो मूल स्कन्धशाखादिसंयुतः ॥
आद्यबीजात् प्रभवति बीजान्य् अन्यानि वै ततः
प्रभवन्ति ततस् तेभ्यो भवन्त्य् अन्ये परे द्रुमाः ॥
ते ऽपि तल्लक्षणद्रव्य कारणानुगता द्विजाः
एवम् अव्याकृतात् पूर्वं जायन्ते महदादयः ॥
विशेषान्तास् ततस् तेभ्यः संभवन्ति सुरादयः
तेभ्यश् च पुत्रास् तेषां तु पुत्राणां परमे सुताः ॥
बीजाद् वृक्षप्ररोहेण यथा नापचयस् तरोः
भूतानां भूतसर्गेण नैवास्त्य् अपचयस् तथा ॥
संनिधानाद् यथाकाश कालाद्याः कारणं तरोः
तथैवापरिणामेन विश्वस्य भगवान् हरिः ॥
व्रीहिबीजे यथा मूलं नालं पत्त्राङ्कुरौ तथा
काण्डकोषास् तथा पुष्पं क्षीरं तद्वच् च तण्डुलः ॥
तुषाः कणाश् च सन्तो वै यान्त्य् आविर्भावम् आत्मनः
प्ररोहहेतुसामग्र्यम् आसाद्य मुनिसत्तमाः ॥
तथा कर्मस्व् अनेकेषु देवाद्यास् तनवः स्थिताः
विष्णुशक्तिं समासाद्य प्ररोहम् उपयान्ति वै ॥
स च विष्णुः परं ब्रह्म यतः सर्वम् इदं जगत्
जगच् च यो यत्र चेदं यस्मिन् विलयम् एष्यति ॥
तद् ब्रह्म परमं धाम सदसत् परमं पदम्
यस्य सर्वम् अभेदेन जगद् एतच् चराचरम् ॥
स एव मूलप्रकृतिर् व्यक्तरूपी जगच् च सः
तस्मिन्न् एव लयं सर्वं याति तत्र च तिष्ठति ॥
कर्ता क्रियाणां स च इज्यते क्रतुः स एव तत्कर्मफलं च तस्य यत्
युगादि यस्माच् च भवेद् अशेषतो हरेर् न किंचिद् व्यतिरिक्तम् अस्ति तत्
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0