भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 235

235.1

इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम्
यं विदित्वाव्ययं तत्र युञ्जामः पुरुषोत्तमम् ॥

235.2

श्रुत्वा स वचनं तेषां कृष्णद्वैपायनस् तदा
अब्रवीत् परमप्रीतो योगी योगविदां वरः ॥

235.3

योगं वक्ष्यामि भो विप्राः शृणुध्वं भवनाशनम्
यम् अभ्यस्याप्नुयाद् योगी मोक्षं परमदुर्लभम् ॥

235.4

श्रुत्वादौ योगशास्त्राणि गुरुम् आराध्य भक्तितः
इतिहासं पुराणं च वेदांश् चैव विचक्षणः ॥

235.5

आहारं योगदोषांश् च देशकालं च बुद्धिमान्
ज्ञात्वा समभ्यसेद् योगं निर्द्वंद्वो निष्परिग्रहः ॥

235.6

भुञ्जन् सक्तुं यवागूं च तक्रमूलफलं पयः
यावकं कणपिण्याकम् आहारं योगसाधनम् ॥

235.7

न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा
न द्वंद्वे न च शीते च न चोष्णे नानिलात्मके ॥

235.8

सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे
सरीसृपे श्मशाने च न नद्यन्ते ऽग्निसंनिधौ ॥

235.9

न चैत्ये न च वल्मीके सभये कूपसंनिधौ
न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित् ॥

235.10

देशान् एतान् अनादृत्य मूढत्वाद् यो युनक्ति वै
प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः ॥

235.11

बाधिर्यं जडता लोपः स्मृतेर् मूकत्वम् अन्धता
ज्वरश् च जायते सद्यस् तद्वद् अज्ञानसंभवः ॥

235.12

तस्मात् सर्वात्मना कार्या रक्षा योगविदा सदा
धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥

235.13

आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे
शून्यागारे शुचौ रम्ये चैकान्ते देवतालये ॥

235.14

रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः
पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः ॥

235.15

आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले
नातिनीचे न चोच्छ्रिते निःस्पृहः सत्यवाक् शुचिः ॥

235.16

युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः
सर्वद्वंद्वसहो धीरः समकायाङ्घ्रिमस्तकः ॥

235.17

नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः
संस्थाप्य दृष्टिं नासाग्रे प्राणान् आयम्य वाग्यतः ॥

235.18

समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः
प्रणवं दीर्घम् उद्यम्य संवृतास्यः सुनिश्चलः ॥

235.19

रजसा तमसो वृत्तिं सत्त्वेन रजसस् तथा
संछाद्य निर्मले शान्ते स्थितः संवृतलोचनः ॥

235.20

हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम्
युञ्जीत सततं योगी मुक्तिदं पुरुषोत्तमम् ॥

235.21

करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत्
क्षेत्रज्ञश् च परे योज्यस् ततो युञ्जति योगवित् ॥

235.22

मनो यस्यान्तम् अभ्येति परमात्मनि चञ्चलम्
संत्यज्य विषयांस् तस्य योगसिद्धिः प्रकाशिता ॥

235.23

यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते
समाधौ योगयुक्तस्य तदाभ्येति परं पदम् ॥

235.24

असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु
भवत्य् आनन्दम् आसाद्य तदा निर्वाणम् ऋच्छति ॥

235.25

शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम्
प्राप्य योगबलाद् योगी मुच्यते नात्र संशयः ॥

235.26

निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः
सर्वत्रानित्यबुद्धिस् तु योगी मुच्येत नान्यथा ॥

235.27

इन्द्रियाणि न सेवेत वैराग्येण च योगवित्
सदा चाभ्यासयोगेन मुच्यते नात्र संशयः ॥

235.28

न च पद्मासनाद् योगो न नासाग्रनिरीक्षणात्
मनसश् चेन्द्रियाणां च संयोगो योग उच्यते ॥

235.29

एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः
संसारमोक्षहेतुश् च किम् अन्यच् छ्रोतुम् इच्छथ ॥

235.30

श्रुत्वा ते वचनं तस्य साधु साध्व् इति चाब्रुवन्
व्यासं प्रशस्य संपूज्य पुनः प्रष्टुं समुद्यताः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc