भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 233

233.1

सप्तर्षिस्थानम् आक्रम्य स्थिते ऽम्भसि द्विजोत्तमाः
एकार्णवं भवत्य् एतत् त्रैलोक्यम् अखिलं ततः ॥

233.2

अथ निःश्वासजो विष्णोर् वायुस् ताञ् जलदांस् ततः
नाशं नयति भो विप्रा वर्षाणाम् अधिकं शतम् ॥

233.3

सर्वभूतमयो ऽचिन्त्यो भगवान् भूतभावनः
अनादिर् आदिर् विश्वस्य पीत्वा वायुम् अशेषतः ॥

233.4

एकार्णवे ततस् तस्मिञ् शेषशय्यास्थितः प्रभुः
ब्रह्मरूपधरः शेते भगवान् आदिकृद् धरिः ॥

233.5

जनलोकगतैः सिद्धैः सनकाद्यैर् अभिष्टुतः
ब्रह्मलोकगतैश् चैव चिन्त्यमानो मुमुक्षुभिः ॥

233.6

आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः
आत्मानं वासुदेवाख्यं चिन्तयन् परमेश्वरः ॥

233.7

एष नैमित्तिको नाम विप्रेन्द्राः प्रतिसंचरः
निमित्तं तत्र यच् छेते ब्रह्मरूपधरो हरिः ॥

233.8

यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत्
निमीलत्य् एतद् अखिलं मायाशय्याशये ऽच्युते ॥

233.9

पद्मयोनेर् दिनं यत् तु चतुर्युगसहस्रवत्
एकार्णवकृते लोके तावती रात्रिर् उच्यते ॥

233.10

ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्य् अजः
ब्रह्मस्वरूपधृग् विष्णुर् यथा वः कथितं पुरा ॥

233.11

इत्य् एष कल्पसंहारो अन्तरप्रलयो द्विजाः
नैमित्तिको वः कथितः शृणुध्वं प्राकृतं परम् ॥

233.12

अवृष्ट्यग्न्यादिभिः सम्यक् कृते शय्यालये द्विजाः
समस्तेष्व् एव लोकेषु पातालेष्व् अखिलेषु च ॥

233.13

महदादेर् विकारस्य विशेषात् तत्र संक्षये
कृष्णेच्छाकारिते तस्मिन् प्रवृत्ते प्रतिसंचरे ॥

233.14

आपो ग्रसन्ति वै पूर्वं भूमेर् गन्धादिकं गुणम्
आत्तगन्धा ततो भूमिः प्रलयाय प्रकल्पते ॥

233.15

प्रनष्टे गन्धतन्मात्रे भवत्य् उर्वी जलात्मिका
आपस् तदा प्रवृत्तास् तु वेगवत्यो महास्वनाः ॥

233.16

सर्वम् आपूरयन्तीदं तिष्ठन्ति विचरन्ति च
सलिलेनैवोर्मिमता लोकालोकः समन्ततः ॥

233.17

अपाम् अपि गुणो यस् तु ज्योतिषा पीयते तु सः
नश्यन्त्य् आपः सुतप्ताश् च रसतन्मात्रसंक्षयात् ॥

233.18

ततश् चापो ऽमृतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै
अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते ॥

233.19

स चाग्निः सर्वतो व्याप्य आदत्ते तज् जलं तदा
सर्वम् आपूर्यतो चाभिस् तदा जगद् इदं शनैः ॥

233.20

अर्चिभिः संतते तस्मिंस् तिर्यग् ऊर्ध्वम् अधस् तथा
ज्योतिषो ऽपि परं रूपं वायुर् अत्ति प्रभाकरम् ॥

233.21

प्रलीने च ततस् तस्मिन् वायुभूते ऽखिलात्मके
प्रनष्टे रूपतन्मात्रे कृतरूपो विभावसुः ॥

233.22

प्रशाम्यति तदा ज्योतिर् वायुर् दोधूयते महान्
निरालोके तदा लोके वायुसंस्थे च तेजसि ॥

233.23

ततः प्रलयम् आसाद्य वायुसंभवम् आत्मनः
ऊर्ध्वं च वायुस् तिर्यक् च दोधवीति दिशो दश ॥

233.24

वायोस् त्व् अपि गुणं स्पर्शम् आकाशं ग्रसते ततः
प्रशाम्यति तदा वायुः खं तु तिष्ठत्य् अनावृतम् ॥

233.25

अरूपम् अरसस्पर्शम् अगन्धवद् अमूर्तिमत्
सर्वम् आपूरयच् चैव सुमहत् तत् प्रकाशते ॥

233.26

परिमण्डलतस् तत् तु आकाशं शब्दलक्षणम्
शब्दमात्रं तथाकाशं सर्वम् आवृत्य तिष्ठति ॥

233.27

ततः शब्दगुणं तस्य भूतादिर् ग्रसते पुनः
भूतेन्द्रियेषु युगपद् भूतादौ संस्थितेषु वै ॥

233.28

अभिमानात्मको ह्य् एष भूतादिस् तामसः स्मृतः
भूतादिं ग्रसते चापि महाबुद्धिर् विचक्षणा ॥

233.29

उर्वी महांश् च जगतः प्रान्ते ऽन्तर् बाह्यतस् तथा
एवं सप्त महाबुद्धिः क्रमात् प्रकृतयस् तथा ॥

233.30

प्रत्याहारैस् तु ताः सर्वाः प्रविशन्ति परस्परम्
येनेदम् आवृतं सर्वम् अण्डम् अप्सु प्रलीयते ॥

233.31

सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम्
उदकावरणं ह्य् अत्र ज्योतिषा पीयते तु तत् ॥

233.32

ज्योतिर् वायौ लयं याति यात्य् आकाशे समीरणः
आकाशं चैव भूतादिर् ग्रसते तं तथा महान् ॥

233.33

महान्तम् एभिः सहितं प्रकृतिर् ग्रसते द्विजाः
गुणसाम्यम् अनुद्रिक्तम् अन्यूनं च द्विजोत्तमाः ॥

233.34

प्रोच्यते प्रकृतिर् हेतुः प्रधानं कारणं परम्
इत्य् एषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणी ॥

233.35

व्यक्तस्वरूपम् अव्यक्ते तस्यां विप्राः प्रलीयते
एकः शुद्धो ऽक्षरो नित्यः सर्वव्यापी तथा पुनः ॥

233.36

सो ऽप्य् अंशः सर्वभूतस्य द्विजेन्द्राः परमात्मनः
नश्यन्ति सर्वा यत्रापि नामजात्यादिकल्पनाः ॥

233.37

सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्य् आत्मनः परे
स ब्रह्म तत् परं धाम परमात्मा परेश्वरः ॥

233.38

स विष्णुः सर्वम् एवेदं यतो नावर्तते पुनः
प्रकृतिर् या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी ॥

233.39

पुरुषश् चाप्य् उभाव् एतौ लीयेते परमात्मनि
परमात्मा च सर्वेषाम् आधारः परमेश्वरः ॥

233.40

विष्णुनाम्ना स वेदेषु वेदान्तेषु च गीयते
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥

233.41

ताभ्याम् उभाभ्यां पुरुषैर् यज्ञमूर्तिः स इज्यते
ऋग्यजुःसामभिर् मार्गैः प्रवृत्तैर् इज्यते ह्य् असौ ॥

233.42

यज्ञेश्वरो यज्ञपुमान् पुरुषैः पुरुषोत्तमः
ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स इज्यते ॥

233.43

निवृत्तैर् योगमार्गैश् च विष्णुर् मुक्तिफलप्रदः
ह्रस्वदीर्घप्लुतैर् यत् तु किंचिद् वस्त्व् अभिधीयते ॥

233.44

यच् च वाचाम् अविषयस् तत् सर्वं विष्णुर् अव्ययः
व्यक्तः स एवम् अव्यक्तः स एव पुरुषो ऽव्ययः ॥

233.45

परमात्मा च विश्वात्मा विश्वरूपधरो हरिः
व्यक्ताव्यक्तात्मिका तस्मिन् प्रकृतिः सा विलीयते ॥

233.46

पुरुषश् चापि भो विप्रा यस् तद् अव्याकृतात्मनि
द्विपरार्धात्मकः कालः कथितो यो मया द्विजाः ॥

233.47

तद् अहस् तस्य विप्रेन्द्रा विष्णोर् ईशस्य कथ्यते
व्यक्ते तु प्रकृतौ लीने प्रकृत्यां पुरुषे तथा ॥

233.48

तत्रास्थिते निशा तस्य तत्प्रमाणा तपोधनाः
नैवाहस् तस्य च निशा नित्यस्य परमात्मनः ॥

233.49

उपचारात् तथाप्य् एतत् तस्येशस्य तु कथ्यते
इत्य् एष मुनिशार्दूलाः कथितः प्राकृतो लयः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc