भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 232

232.1

सर्वेषाम् एव भूतानां त्रिविधः प्रतिसंचरः
नैमित्तिकः प्राकृतिकस् तथैवात्यन्तिको मतः ॥

232.2

ब्राह्मो नैमित्तिकस् तेषां कल्पान्ते प्रतिसंचरः
आत्यन्तिको वै मोक्षश् च प्राकृतो द्विपरार्धिकः ॥

232.3

परार्धसंख्यां भगवंस् त्वम् आचक्ष्व यथोदिताम्
द्विगुणीकृतयज्ज्ञेयः प्राकृतः प्रतिसंचरः ॥

232.4

स्थानात् स्थानं दशगुणम् एकैकं गण्यते द्विजाः
ततो ऽष्टादशमे भागे परार्धम् अभिधीयते ॥

232.5

परार्धं द्विगुणं यत् तु प्राकृतः स लयो द्विजाः
तदाव्यक्ते ऽखिलं व्यक्तं सहेतौ लयम् एति वै ॥

232.6

निमेषो मानुषो यो ऽयं मात्रामात्रप्रमाणतः
तैः पञ्चदशभिः काष्ठा त्रिंशत् काष्ठास् तथा कला ॥

232.7

नाडिका तु प्रमाणेन कला च दश पञ्च च
उन्मानेनाम्भसः सा तु पलान्य् अर्धत्रयोदश ॥

232.8

हेममाषैः कृतच्छिद्रा चतुर्भिश् चतुरङ्गुलैः
मागधेन प्रमाणेन जलप्रस्थस् तु स स्मृतः ॥

232.9

नाडिकाभ्याम् अथ द्वाभ्यां मुहूर्तो द्विजसत्तमाः
अहोरात्रं मुहूर्तास् तु त्रिंशन् मासो दिनैस् तथा ॥

232.10

मासैर् द्वादशभिर् वर्षम् अहोरात्रं तु तद् दिवि
त्रिभिर् वर्षशतैर् वर्षं षष्ट्या चैवासुरद्विषाम् ॥

232.11

तैस् तु द्वादशसाहस्रैश् चतुर्युगम् उदाहृतम्
चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥

232.12

स कल्पस् तत्र मनवश् चतुर्दश द्विजोत्तमाः
तदन्ते चैव भो विप्रा ब्रह्मनैमित्तिको लयः ॥

232.13

तस्य स्वरूपम् अत्युग्रं द्विजेन्द्रा गदतो मम
शृणुध्वं प्राकृतं भूयस् ततो वक्ष्याम्य् अहं लयम् ॥

232.14

चतुर्युगसहस्रान्ते क्षीणप्राये महीतले
अनावृष्टिर् अतीवोग्रा जायते शतवार्षिकी ॥

232.15

ततो यान्य् अल्पसाराणि तानि सत्त्वान्य् अनेकशः
क्षयं यान्ति मुनिश्रेष्ठाः पार्थिवान्य् अतिपीडनात् ॥

232.16

ततः स भगवान् कृष्णो रुद्ररूपी तथाव्ययः
क्षयाय यतते कर्तुम् आत्मस्थाः सकलाः प्रजाः ॥

232.17

ततः स भगवान् विष्णुर् भानोः सप्तसु रश्मिषु
स्थितः पिबत्य् अशेषाणि जलानि मुनिसत्तमाः ॥

232.18

पीत्वाम्भांसि समस्तानि प्राणिभूतगतानि वै
शोषं नयति भो विप्राः समस्तं पृथिवीतलम् ॥

232.19

समुद्रान् सरितः शैलाञ् शैलप्रस्रवणानि च
पातालेषु च यत् तोयं तत् सर्वं नयति क्षयम् ॥

232.20

ततस् तस्याप्य् अभावेन तोयाहारोपबृंहिताः
सहस्ररश्मयः सप्त जायन्ते तत्र भास्कराः ॥

232.21

अधश् चोर्ध्वं च ते दीप्तास् ततः सप्त दिवाकराः
दहन्त्य् अशेषं त्रैलोक्यं सपातालतलं द्विजाः ॥

232.22

दह्यमानं तु तैर् दीप्तैस् त्रैलोक्यं दीप्तभास्करैः
साद्रिनगार्णवाभोगं निःस्नेहम् अभिजायते ॥

232.23

ततो निर्दग्धवृक्षाम्बु त्रैलोक्यम् अखिलं द्विजाः
भवत्य् एषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥

232.24

ततः कालाग्निरुद्रो ऽसौ भूतसर्गहरो हरः
शेषाहिश्वाससंतापात् पातालानि दहत्य् अधः ॥

232.25

पातालानि समस्तानि स दग्ध्वा ज्वलनो महान्
भूमिम् अभ्येत्य सकलं दग्ध्वा तु वसुधातलम् ॥

232.26

भुवो लोकं ततः सर्वं स्वर्गलोकं च दारुणः
ज्वालामालामहावर्तस् तत्रैव परिवर्तते ॥

232.27

अम्बरीषम् इवाभाति त्रैलोक्यम् अखिलं तदा
ज्वालावर्तपरीवारम् उपक्षीणबलास् ततः ॥

232.28

ततस् तापपरीतास् तु लोकद्वयनिवासिनः
हृतावकाशा गच्छन्ति महर्लोकं द्विजास् तदा ॥

232.29

तस्माद् अपि महाताप तप्ता लोकास् ततः परम्
गच्छन्ति जनलोकं ते दशावृत्या परैषिणः ॥

232.30

ततो दग्ध्वा जगत् सर्वं रुद्ररूपी जनार्दनः
मुखनिःश्वासजान् मेघान् करोति मुनिसत्तमाः ॥

232.31

ततो गजकुलप्रख्यास् तडिद्वन्तो निनादिनः
उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः ॥

232.32

केचिद् अञ्जनसंकाशाः केचित् कुमुदसंनिभाः
धूमवर्णा घनाः केचित् केचित् पीताः पयोधराः ॥

232.33

केचिद् धरिद्रावर्णाभा लाक्षारसनिभास् तथा
केचिद् वैदूर्यसंकाशा इन्द्रनीलनिभास् तथा ॥

232.34

शङ्खकुन्दनिभाश् चान्ये जातीकुन्दनिभास् तथा
इन्द्रगोपनिभाः केचिन् मनःशिलानिभास् तथा ॥

232.35

पद्मपत्त्रनिभाः केचिद् उत्तिष्ठन्ति घनाघनाः
केचित् पुरवराकाराः केचित् पर्वतसंनिभाः ॥

232.36

कूटागारनिभाश् चान्ये केचित् स्थलनिभा घनाः
महाकाया महारावा पूरयन्ति नभस्तलम् ॥

232.37

वर्षन्तस् ते महासारास् तम् अग्निम् अतिभैरवम्
शमयन्त्य् अखिलं विप्रास् त्रैलोक्यान्तरविस्तृतम् ॥

232.38

नष्टे चाग्नौ शतं ते ऽपि वर्षाणाम् अधिकं घनाः
प्लावयन्तो जगत् सर्वं वर्षन्ति मुनिसत्तमाः ॥

232.39

धाराभिर् अक्षमात्राभिः प्लावयित्वाखिलां भुवम्
भुवो लोकं तथैवोर्ध्वं प्लावयन्ति दिवं द्विजाः ॥

232.40

अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे
वर्षन्ति ते महामेघा वर्षाणाम् अधिकं शतम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc