ब्रह्म पुराण · अध्याय 231
आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे
ततो द्वापरविध्वंसं युगान्तं स्पृहयामहे ॥
प्राप्ता वयं हि तत् कालम् अनया धर्मतृष्णया
आदद्याम परं धर्मं सुखम् अल्पेन कर्मणा ॥
संत्रासोद्वेगजननं युगान्तं समुपस्थितम्
प्रनष्टधर्मं धर्मज्ञ निमित्तैर् वक्तुम् अर्हसि ॥
अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः
युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः ॥
अक्षत्रियाश् च राजानो विप्राः शूद्रोपजीविनः
शूद्राश् च ब्राह्मणाचारा भविष्यन्ति युगक्षये ॥
श्रोत्रियाः काण्डपृष्ठाश् च निष्कर्माणि हवींषि च
एकपङ्क्त्याम् अशिष्यन्ति युगान्ते मुनिसत्तमाः ॥
अशिष्टवन्तो ऽर्थपरा नरा मद्यामिषप्रियाः
मित्रभार्यां भजिष्यन्ति युगान्ते पुरुषाधमाः ॥
राजवृत्तिस्थिताश् चौरा राजानश् चौरशीलिनः
भृत्या ह्य् अनिर्दिष्टभुजो भविष्यन्ति युगक्षये ॥
धनानि श्लाघनीयानि सतां वृत्तम् अपूजितम्
अकुत्सना च पतिते भविष्यति युगक्षये ॥
प्रनष्टनासाः पुरुषा मुक्तकेशा विरूपिणः
ऊनषोडशवर्षाश् च प्रसोष्यन्ति तथा स्त्रियः ॥
अट्टशूला जनपदाः शिवशूलाश् चतुष्पथाः
प्रमदाः केशशूलाश् च भविष्यन्ति युगक्षये ॥
सर्वे ब्रह्म वदिष्यन्ति द्विजा वाजसनेयिकाः
शूद्राभा वादिनश् चैव ब्राह्मणाश् चान्त्यवासिनः ॥
शुक्लदन्ता जिताक्षाश् च मुण्डाः काषायवाससः
शूद्रा धर्मं वदिष्यन्ति शाठ्यबुद्ध्योपजीविनः ॥
श्वापदप्रचुरत्वं च गवां चैव परिक्षयः
साधूनां परिवृत्तिश् च विद्याद् अन्तगते युगे ॥
अन्त्या मध्ये निवत्स्यन्ति मध्याश् चान्तनिवासिनः
निर्ह्रीकाश् च प्रजाः सर्वा नष्टास् तत्र युगक्षये ॥
तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः
ऋतवो विपरीताश् च भविष्यन्ति युगक्षये ॥
तथा द्विहायना दम्याः कलौ लाङ्गलधारिणः
चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति ॥
सर्वे शूरकुले जाताः क्षमानाथा भवन्ति हि
यथा निम्नाः प्रजाः सर्वा भविष्यन्ति युगक्षये ॥
पितृदेयानि दत्तानि भविष्यन्ति तथा सुताः
न च धर्मं चरिष्यन्ति मानवा निर्गते युगे ॥
ऊषरा बहुला भूमिः पन्थानस् तस्करावृताः
सर्वे ... वाणिकाश् चैव भविष्यन्ति युगक्षये ॥
पितृदायाददत्तानि विभजन्ति तथा सुताः
हरणे यत्नवन्तो ऽपि लोभादिभिर् विरोधिनः ॥
सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते
भविष्यन्ति युगस्यान्ते नार्यः केशैर् अलंकृताः ॥
निर्वीर्यस्य रतिस् तत्र गृहस्थस्य भविष्यति
युगान्ते समनुप्राप्ते नान्या भार्यासमा रतिः ॥
कुशीलानार्यभूयिष्ठा वृथारूपसमन्विताः
पुरुषाल्पं बहुस्त्रीकं तद् युगान्तस्य लक्षणम् ॥
बहुयाचनको लोको न दास्यति परस्परम्
राजचौराग्निदण्डादि क्षीणः क्षयम् उपैष्यति ॥
अफलानि च सस्यानि तरुणा वृद्धशीलिनः
अशीलाः सुखिनो लोके भविष्यन्ति युगक्षये ॥
वर्षासु परुषा वाता नीचाः शर्करवर्षिणः
संदिग्धः परलोकश् च भविष्यति युगक्षये ॥
वैश्या इव च राजन्या धनधान्योपजीविनः
युगापक्रमणे पूर्वं भविष्यन्ति न बान्धवाः ॥
अप्रवृत्ताः प्रपश्यन्ति समयाः शपथास् तथा
ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति ॥
भविष्यत्य् अफलो हर्षः क्रोधश् च सफलो नृणाम्
अजाश् चापि निरोत्स्यन्ति पयसो ऽर्थे युगक्षये ॥
अशास्त्रविहितो यज्ञ एवम् एव भविष्यति
अप्रमाणं करिष्यन्ति नराः पण्डितमानिनः ॥
शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति न संशयः
सर्वः सर्वं विजानाति वृद्धान् अनुपसेव्य वै ॥
न कश्चिद् अकविर् नाम युगान्ते समुपस्थिते
नक्षत्राणि वियोगानि न कर्मस्था द्विजातयः ॥
चौरप्रायाश् च राजानो युगान्ते समुपस्थिते
कुण्डीवृषा नैकृतिकाः सुरापा ब्रह्मवादिनः ॥
अश्वमेधेन यक्ष्यन्ते युगान्ते द्विजसत्तमाः
याजयिष्यन्त्य् अयाज्यांस् तु तथाभक्ष्यस्य भक्षिणः ॥
ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते
भोःशब्दम् अभिधास्यन्ति न च कश्चित् पठिष्यति ॥
एकशङ्खास् तथा नार्यो गवेधुकपिनद्धकाः
नक्षत्राणि विवर्णानि विपरिता दिशो दश ॥
संध्यारागो विदग्धाङ्गो भविष्यति युगक्षये
प्रेषयन्ति पितॄन् पुत्रा वधूः श्वश्रूः स्वकर्मसु ॥
युगेष्व् एवं निवत्स्यन्ति प्रमदाश् च नरास् तथा
अकृत्वाग्राणि भोक्ष्यन्ति द्विजाश् चैवाहुताग्नयः ॥
भिक्षां बलिम् अदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम्
वञ्चयित्वा पतीन् सुप्तान् गमिष्यन्ति स्त्रियो ऽन्यतः ॥
न व्याधितान् नाप्य् अरूपान् नोद्यतान् नाप्य् असूयकान्
कृते न प्रतिकर्ता च युगे क्षीणे भविष्यति ॥
एवं विलम्बिते धर्मे मानुषाः करपीडिताः
कुत्र देशे निवत्स्यन्ति किमाहारविहारिणः ॥
किंकर्माणः किमीहन्तः किंप्रमाणाः किमायुषः
कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम् ॥
अत ऊर्ध्वं च्युते धर्मे गुणहीनाः प्रजास् तथा
शीलव्यसनम् आसाद्य प्राप्स्यन्ति ह्रासम् आयुषः ॥
आयुर्हान्या बलग्नानिर् बलग्नान्या विवर्णता
वैवर्ण्याद् व्याधिसंपीडा निर्वेदो व्याधिपीडनात् ॥
निर्वेदाद् आत्मसंबोधः संबोधाद् धर्मशीलता
एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम् ॥
उद्देशतो धर्मशीलाः केचिन् मध्यस्थतां गताः
किंधर्मशीलाः केचित् तु केचिद् अत्र कुतूहलाः ॥
प्रत्यक्षम् अनुमानं च प्रमाणम् इति निश्चिताः
अप्रमाणं करिष्यन्ति सर्वम् इत्य् अपरे जनाः ॥
नास्तिक्यपरताश् चापि केचिद् धर्मविलोपकाः
भविष्यन्ति नरा मूढा द्विजाः पण्डितमानिनः ॥
तदात्वमात्रश्रद्धेया शास्त्रज्ञानबहिष्कृताः
दाम्भिकास् ते भविष्यन्ति नरा ज्ञानविलोपिताः ॥
तथा विलुलिते धर्मे जनाः श्रेष्ठपुरस्कृताः
शुभान् समाचरिष्यन्ति दानशीलपरायणाः ॥
सर्वभक्षाः स्वयंगुप्ता निर्घृणा निरपत्रपाः
भविष्यन्ति तदा लोके तत् कषायस्य लक्षणम् ॥
कषायोपप्लवे काले ज्ञाननिष्ठाप्रणाशने
सिद्धिम् अल्पेन कालेन प्राप्स्यन्ति निरुपस्कृताः ॥
विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरे जनाः
संश्रयिष्यन्ति भो विप्रास् तत् कषायस्य लक्षणम् ॥
महायुद्धं महावर्षं महावातं महातपः
भविष्यति युगे क्षीणे तत् कषायस्य लक्षणम् ॥
विप्ररूपेण यक्षांसि राजानः कर्णवेदिनः
पृथिवीम् उपभोक्ष्यन्ति युगान्ते समुपस्थिते ॥
निःस्वाध्यायवषट्काराः कुनेतारो ऽभिमानिनः
क्रव्यादा ब्रह्मरूपेण सर्वभक्ष्या वृथाव्रताः ॥
मूर्खाश् चार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदाः
व्यवहारोपवृत्ताश् च च्युता धर्माश् च शाश्वतात् ॥
हर्तारः पररत्नानां परदारप्रधर्षकाः
कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः ॥
तेषु प्रभवमाणेषु जनेष्व् अपि च सर्वशः
अभाविनो भविष्यन्ति मुनयो बहुरूपिणः ॥
कलौ युगे समुत्पन्नाः प्रधानपुरुषाश् च ये
कथायोगेन तान् सर्वान् पूजयिष्यन्ति मानवाः ॥
सस्यचौरा भविष्यन्ति तथा चैलापहारिणः
भोक्ष्यभोज्यहराश् चैव करण्डानां च हारिणः ॥
चौराश् चौरस्य हर्तारो हन्ता हन्तुर् भविष्यति
चौरैश् चौरक्षये चापि कृते क्षेमं भविष्यति ॥
निःसारे क्षुभिते काले निष्क्रिये संव्यवस्थिते
नरा वनं श्रयिष्यन्ति करभारप्रपीडिताः ॥
यज्ञकर्मण्य् उपरते रक्षांसि श्वापदानि च
कीटमूषिकसर्पाश् च धर्षयिष्यन्ति मानवान् ॥
क्षेमं सुभिक्षम् आरोग्यं सामग्र्यं चैव बन्धुषु
उद्देशेषु नराः श्रेष्ठा भविष्यन्ति युगक्षये ॥
स्वयंपालाः स्वयं चौराः प्लवसंभारसंभृताः
मण्डलैः संभविष्यन्ति देशे देशे पृथक् पृथक् ॥
स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः
नराः सर्वे भविष्यन्ति तदा कालपरिक्षयात् ॥
ततः सर्वे समादाय कुमारान् प्रद्रुता भयात्
कौशिकीं संतरिष्यन्ति नराः क्षुद्भयपीडिताः ॥
अङ्गान् वङ्गान् कलिङ्गांश् च काश्मीरान् अथ कोशलान्
ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः ॥
कृत्स्नं च हिमवत्पार्श्वं कूलं च लवणाम्भसः
विविधं जीर्णपत्त्रं च वल्कलान्य् अजिनानि च ॥
स्वयं कृत्वा निवत्स्यन्ति तस्मिन् भूते युगक्षये
अरण्येषु च वत्स्यन्ति नरा म्लेच्छगणैः सह ॥
नैव शून्या नवारण्या भविष्यति वसुंधरा
अगोप्तारश् च गोप्तारो भविष्यन्ति नराधिपाः ॥
मृगैर् मत्स्यैर् विहंगैश् च श्वापदैः सर्पकीटकैः
मधुशाकफलैर् मूलैर् वर्तयिष्यन्ति मानवाः ॥
शीर्णपर्णफलाहारा वल्कलान्य् अजिनानि च
स्वयं कृत्वा निवत्स्यन्ति यथा मुनिजनस् तथा ॥
बीजानाम् अकृतस्नेहा आहताः काष्ठशङ्कुभिः
अजैडकं खरोष्ट्रं च पालयिष्यन्ति नित्यशः ॥
नदीस्रोतांसि रोत्स्यन्ति तोयार्थं कूलम् आश्रिताः
पक्वान्नव्यवहारेण विपणन्तः परस्परम् ॥
तनूरुहैर् यथाजातैः समलान्तरसंभृतैः
बह्वपत्याः प्रजाहीनाः कुलशीलविवर्जिताः ॥
एवं भविष्यन्ति तदा नराश् चाधर्मजीविनः
हीना हीनं तथा धर्मं प्रजा समनुवत्स्यति ॥
आयुस् तत्र च मर्त्यानां परं त्रिंशद् भविष्यति
दुर्बला विषयग्लाना जराशोकैर् अभिप्लुताः ॥
भविष्यन्ति तदा तेषां रोगैर् इन्द्रियसंक्षयः
आयुःप्रत्ययसंरोधाद् विषयाद् उपरंस्यते ॥
शुश्रूषवो भविष्यन्ति साधूनां दर्शने रताः
सत्यं च प्रतिपत्स्यन्ति व्यवहारोपसंक्षयात् ॥
भविष्यन्ति च कामानाम् अलाभाद् धर्मशीलिनः
करिष्यन्ति च संस्कारं स्वयं च क्षयपीडिताः ॥
एवं शुश्रूषवो दाने सत्ये प्राण्यभिरक्षणे
ततः पादप्रवृत्ते तु धर्मे श्रेयो निपत्स्यते ॥
तेषां लब्धानुमानानां गुणेषु परिवर्तताम्
स्वादु किं त्व् इति विज्ञाय धर्म एव च दृश्यते ॥
यथा हानिक्रमं प्राप्तास् तथा ऋद्धिक्रमं गताः
प्रगृहीते ततो धर्मे प्रपश्यन्ति कृतं युगम् ॥
साधुवृत्तिः कृतयुगे कषाये हानिर् उच्यते
एक एव तु कालो ऽयं हीनवर्णो यथा शशी ॥
छन्नश् च तमसा सोमो यथा कलियुगं तथा
मुक्तश् च तमसा सोम एवं कृतयुगं च तत् ॥
अर्थवादः परं ब्रह्म वेदार्थ इति तं विदुः
अविविक्तम् अविज्ञातं दायाद्यम् इह धार्यते ॥
इष्टवादस् तपो नाम तपो हि स्थविरीकृतः
गुणैः कर्माभिनिर्वृत्तिर् गुणाः शुध्यन्ति कर्मणा ॥
आशीस् तु पुरुषं दृष्ट्वा देशकालानुवर्तिनी
युगे युगे यथाकालम् ऋषिभिः समुदाहृता ॥
धर्मार्थकाममोक्षाणां देवानां च प्रतिक्रिया
आशिषश् च शिवाः पुण्यास् तथैवायुर् युगे युगे ॥
तथा युगानां परिवर्तनानि चिरप्रवृत्तानि विधिस्वभावात्
क्षणं न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0