ब्रह्म पुराण · अध्याय 230
अस्माभिस् तु श्रुतं व्यास यत् त्वया समुदाहृतम्
प्रादुर्भावाश्रितं पुण्यं माया विष्णोश् च दुर्विदा ॥
श्रोतुम् इच्छामहे त्वत्तो यथावद् उपसंहृतिम्
महाप्रलयसंज्ञां च कल्पान्ते च महामुने ॥
श्रूयतां भो मुनिश्रेष्ठा यथावद् अनुसंहृतिः
कल्पान्ते प्राकृते चैव प्रलये जायते यथा ॥
अहोरात्रं पितॄणां तु मासो ऽब्दं त्रिदिवौकसाम्
चतुर्युगसहस्रे तु ब्रह्मणो ऽहर् द्विजोत्तमाः ॥
कृतं त्रेता द्वापरं च कलिश् चेति चतुर्युगम्
दैवैर् वर्षसहस्रैस् तु तद् द्वादशाभिर् उच्यते ॥
चतुर्युगाण्य् अशेषाणि सदृशानि स्वरूपतः
आद्यं कृतयुगं प्रोक्तं मुनयो ऽन्त्यं तथा कलिम् ॥
आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यतः
क्रियते चोपसंहारस् तथान्ते ऽपि कलौ युगे ॥
कलेः स्वरूपं भगवन् विस्तराद् वक्तुम् अर्हसि
धर्मश् चतुष्पाद् भगवान् यस्मिन् वैकल्यम् ऋच्छति ॥
कलिस्वरूपं भो विप्रा यत् पृच्छध्वं ममानघाः
निबोधध्वं समासेन वर्तते यन् महत्तरम् ॥
वर्णाश्रमाचारवती प्रवृत्तिर् न कलौ नृणाम्
न साम-ऋग्यजुर्वेद विनिष्पादनहैतुकी ॥
विवाहा न कलौ धर्मा न शिष्या गुरुसंस्थिताः
न पुत्रा धार्मिकाश् चैव न च वह्निक्रियाक्रमः ॥
यत्र तत्र कुले जातो बली सर्वेश्वरः कलौ
सर्वेभ्य एव वर्णेभ्यो नरः कन्योपजीवनः ॥
येन तेनैव योगेन द्विजातिर् दीक्षितः कलौ
यैव सैव च विप्रेन्द्राः प्रायश्चित्तक्रिया कलौ ॥
सर्वम् एव कलौ शास्त्रं यस्य यद् वचनं द्विजाः
देवताश् च कलौ सर्वाः सर्वः सर्वस्य चाश्रमः ॥
उपवासस् तथायासो वित्तोत्सर्गस् तथा कलौ
धर्मो यथाभिरुचितैर् अनुष्ठानैर् अनुष्ठितः ॥
वित्तेन भविता पुंसां स्वल्पेनैव मदः कलौ
स्त्रीणां रूपमदश् चैव केशैर् एव भविष्यति ॥
सुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते
कलौ स्त्रियो भविष्यन्ति तदा केशैर् अलंकृताः ॥
परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः
भर्ता भविष्यति कलौ वित्तवान् एव योषिताम् ॥
यो यो ददाति बहुलं स स स्वामी तदा नृणाम्
स्वामित्वहेतुसंबन्धो भविताभिजनस् तदा ॥
गृहान्ता द्रव्यसंघाता द्रव्यान्ता च तथा मतिः
अर्थाश् चाथोपभोगान्ता भविष्यन्ति तदा कलौ ॥
स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः
अन्यायावाप्तवित्तेषु पुरुषेषु स्पृहालवः ॥
अभ्यर्थितो ऽपि सुहृदा स्वार्थहानिं तु मानवः
पणस्यार्धार्धमात्रे ऽपि करिष्यति तदा द्विजाः ॥
सदा सपौरुषं चेतो भावि विप्र तदा कलौ
क्षीरप्रदानसंबन्धि भाति गोषु च गौरवम् ॥
अनावृष्टिभयात् प्रायः प्रजाः क्षुद्भयकातराः
भविष्यन्ति तदा सर्वा गगनासक्तदृष्टयः ॥
मूलपर्णफलाहारास् तापसा इव मानवाः
आत्मानं घातयिष्यन्ति तदावृष्ट्याभिदुःखिताः ॥
दुर्भिक्षम् एव सततं सदा क्लेशम् अनीश्वराः
प्राप्स्यन्ति व्याहतसुखं प्रमादान् मानवाः कलौ ॥
अस्नातभोजिनो नाग्नि देवतातिथिपूजनम्
करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥
लोलुपा ह्रस्वदेहाश् च बह्वन्नादनतत्पराः
बहुप्रजाल्पभाग्याश् च भविष्यन्ति कलौ स्त्रियः ॥
उभाभ्याम् अथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः
कुर्वत्यो गुरुभर्तॄणाम् आज्ञां भेत्स्यन्त्य् अनावृताः ॥
स्वपोषणपराः क्रुद्धा देहसंस्कारवर्जिताः
परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥
दुःशीला दुष्टशीलेषु कुर्वत्यः सततं स्पृहाम्
असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥
वेदादानं करिष्यन्ति वडवाश् च तथाव्रताः
गृहस्थाश् च न होष्यन्ति न दास्यन्त्य् उचितान्य् अपि ॥
भवेयुर् वनवासा वै ग्राम्याहारपरिग्रहाः
भिक्षवश् चापि पुत्रा हि स्नेहसंबन्धयन्त्रकाः ॥
अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः
हारिणो जनवित्तानां संप्राप्ते च कलौ युगे ॥
यो यो ऽश्वरथनागाढ्यः स स राजा भविष्यति
यश् च यश् चाबलः सर्वः स स भृत्यः कलौ युगे ॥
वैश्याः कृषिवणिज्यादि संत्यज्य निजकर्म यत्
शूद्रवृत्त्या भविष्यन्ति कारुकर्मोपजीविनः ॥
भैक्ष्यव्रतास् तथा शूद्राः प्रव्रज्यालिङ्गिनो ऽधमाः
पाखण्डसंश्रयां वृत्तिम् आश्रयिष्यन्त्य् असंस्कृताः ॥
दुर्भिक्षकरपीडाभिर् अतीवोपद्रुता जनाः
गोधूमान्नयवान्नाद्यान् देशान् यास्यन्ति दुःखिताः ॥
वेदमार्गे प्रलीने च पाखण्डाढ्ये ततो जने
अधर्मवृद्ध्या लोकानाम् अल्पम् आयुर् भविष्यति ॥
अशास्त्रविहितं घोरं तप्यमानेषु वै तपः
नरेषु नृपदोषेण बालमृत्युर् भविष्यति ॥
भवित्री योषितां सूतिः पञ्चषट्सप्तवार्षिकी
नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ॥
पलितोद्गमश् च भविता तदा द्वादशवार्षिकः
न जीविष्यति वै कश्चित् कलौ वर्षाणि विंशतिम् ॥
अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ
यतस् ततो विनश्यन्ति कालेनाल्पेन मानवाः ॥
यदा यदा हि पाखण्ड वृत्तिर् अत्रोपलक्ष्यते
तदा तदा कलेर् वृद्धिर् अनुमेया विचक्षणैः ॥
यदा यदा सतां हानिर् वेदमार्गानुसारिणाम्
तदा तदा कलेर् वृद्धिर् अनुमेया विचक्षणैः ॥
प्रारम्भाश् चावसीदन्ति यदा धर्मकृतां नृणाम्
तदानुमेयं प्राधान्यं कलेर् विप्रा विचक्षणैः ॥
यदा यदा न यज्ञानाम् ईश्वरः पुरुषोत्तमः
इज्यते पुरुषैर् यज्ञैस् तदा ज्ञेयं कलेर् बलम् ॥
न प्रीतिर् वेदवादेषु पाखण्डेषु यदा रतिः
कलेर् वृद्धिस् तदा प्राज्ञैर् अनुमेया द्विजोत्तमाः ॥
कलौ जगत्पतिं विष्णुं सर्वस्रष्टारम् ईश्वरम्
नार्चयिष्यन्ति भो विप्राः पाखण्डोपहता नराः ॥
किं देवैः किं द्विजैर् वेदैः किं शौचेनाम्बुजल्पना
इत्य् एवं प्रलपिष्यन्ति पाखण्डोपहता नराः ॥
अल्पवृष्टिश् च पर्जन्यः स्वल्पं सस्यफलं तथा
फलं तथाल्पसारं च विप्राः प्राप्ते कलौ युगे ॥
जानुप्रायाणि वस्त्राणि शमीप्राया महीरुहाः
शूद्रप्रायास् तथा वर्णा भविष्यन्ति कलौ युगे ॥
अणुप्रायाणि धान्यानि आजप्रायं तथा पयः
भविष्यति कलौ प्राप्त औशीरं चानुलेपनम् ॥
श्वश्रूश्वशुरभूयिष्ठा गुरवश् च नृणां कलौ
शालाद्याहारिभार्याश् च सुहृदो मुनिसत्तमाः ॥
कस्य माता पिता कस्य यदा कर्मात्मकः पुमान्
इति चोदाहरिष्यन्ति श्वशुरानुगता नराः ॥
वाङ्मनःकायजैर् दोषैर् अभिभूताः पुनः पुनः
नराः पापान्य् अनुदिनं करिष्यन्त्य् अल्पमेधसः ॥
निःसत्यानाम् अशौचानां निर्ह्रीकाणां तथा द्विजाः
यद् यद् दुःखाय तत् सर्वं कलिकाले भविष्यति ॥
निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते
तदा प्रविरलो विप्रः कश्चिल् लोके भविष्यति ॥
तत्राल्पेनैव कालेन पुण्यस्कन्धम् अनुत्तमम्
करोति यः कृतयुगे क्रियते तपसा हि यः ॥
कस्मिन् काले ऽल्पको धर्मो ददाति सुमहाफलम्
वक्तुम् अर्हस्य् अशेषेण श्रोतुं वाञ्छा प्रवर्तते ॥
धन्ये कलौ भवेद् विप्रास् त्व् अल्पक्लेशैर् महत् फलम्
तथा भवेतां स्त्रीशूद्रौ धन्यौ चान्यन् निबोधत ॥
यत् कृते दशभिर् वर्षैस् त्रेतायां हायनेन तत्
द्वापरे तच् च मासेन अहोरात्रेण तत् कलौ ॥
तपसो ब्रह्मचर्यस्य जपादेश् च फलं द्विजाः
प्राप्नोति पुरुषस् तेन कलौ साध्व् इति भाषितुम् ॥
ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरे ऽर्चयन्
यद् आप्नोति तद् आप्नोति कलौ संकीर्त्य केशवम् ॥
धर्मोत्कर्षम् अतीवात्र प्राप्नोति पुरुषः कलौ
स्वल्पायासेन धर्मज्ञास् तेन तुष्टो ऽस्म्य् अहं कलौ ॥
व्रतचर्यापरैर् ग्राह्या वेदाः पूर्वं द्विजातिभिः
ततस् तु धर्मसंप्राप्तैर् यष्टव्यं विधिवद् धनैः ॥
वृथा कथा वृथा भोज्यं वृथा स्वं च द्विजन्मनाम्
पतनाय तथा भाव्यं तैस् तु संयतिभिः सह ॥
असम्यक्करणे दोषास् तेषां सर्वेषु वस्तुषु
भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥
पारतन्त्र्यात् समस्तेषु तेषां कार्येषु वै ततः
लोकान् क्लेशेन महता यजन्ति विनयान्विताः ॥
द्विजशुश्रूषणेनैव पाकयज्ञाधिकारवान्
निजं जयति वै लोकं शूद्रो धन्यतरस् ततः ॥
भक्ष्याभक्ष्येषु नाशास्ति येषां पापेषु वा यतः
नियमो मुनिशार्दूलास् तेनासौ साध्व् इतीरितम् ॥
स्वधर्मस्याविरोधेन नरैर् लभ्यं धनं सदा
प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि ॥
तस्यार्जने महान् क्लेशः पालनेन द्विजोत्तमाः
तथा सद्विनियोगाय विज्ञेयं गहनं नृणाम् ॥
एभिर् अन्यैस् तथा क्लेशैः पुरुषा द्विजसत्तमाः
निजाञ् जयन्ति वै लोकान् प्राजापत्यादिकान् क्रमात् ॥
योषिच् छुश्रूषणाद् भर्तुः कर्मणा मनसा गिरा
एतद् विषयम् आप्नोति तत्सालोक्यं यतो द्विजाः ॥
नातिक्लेशेन महता तान् एव पुरुषो यथा
तृतीयं व्याहृतं तेन मया साध्व् इति योषितः ॥
एतद् वः कथितं विप्रा यन्निमित्तम् इहागताः
तत् पृच्छध्वं यथाकामम् अहं वक्ष्यामि वः स्फुटम् ॥
अल्पेनैव प्रयत्नेन धर्मः सिध्यति वै कलौ
नरैर् आत्मगुणाम्भोभिः क्षालिताखिलकिल्बिषैः ॥
शूद्रैश् च द्विजशुश्रूषा तत्परैर् मुनिसत्तमाः
तथा स्त्रीभिर् अनायासात् पतिशुश्रूषयैव हि ॥
ततस् त्रितयम् अप्य् एतन् मम धन्यतमं मतम्
धर्मसंराधने क्लेशो द्विजातीनां कृतादिषु ॥
तथा स्वल्पेन तपसा सिद्धिं यास्यन्ति मानवाः
धन्या धर्मं चरिष्यन्ति युगान्ते मुनिसत्तमाः ॥
भवद्भिर् यद् अभिप्रेतं तद् एतत् कथितं मया
अपृष्टेनापि धर्मज्ञाः किम् अन्यत् क्रियतां द्विजाः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0