भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 229

229.1

श्रुतं फलं गीतिकाया अस्माभिः सुप्रजागरे
कृष्णस्य येन चाण्डालो गतो ऽसौ परमां गतिम् ॥

229.2

यथा विष्णौ भवेद् भक्तिस् तन् नो ब्रूहि महामते
तपसा कर्मणा येन श्रोतुम् इच्छाम सांप्रतम् ॥

229.3

शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्य् अनुपूर्वशः
यथा कृष्णे भवेद् भक्तिः पुरुषस्य महाफला ॥

229.4

संसारे ऽस्मिन् महाघोरे सर्वभूतभयावहे
महामोहकरे नॄणां नानादुःखशताकुले ॥

229.5

तिर्यग्योनिसहस्रेषु जायमानः पुनः पुनः
कथंचिल् लभते जन्म देही मानुष्यकं द्विजाः ॥

229.6

मानुषत्वे ऽपि विप्रत्वं विप्रत्वे ऽपि विवेकिता
विवेकाद् धर्मबुद्धिस् तु बुद्ध्या तु श्रेयसां ग्रहः ॥

229.7

यावत् पापक्षयं पुंसां न भवेज् जन्म संचितम्
तावन् न जायते भक्तिर् वासुदेवे जगन्मये ॥

229.8

तस्माद् वक्ष्यामि भो विप्रा भक्तिः कृष्णे यथा भवेत्
अन्यदेवेषु या भक्तिः पुरुषस्येह जायते ॥

229.9

कर्मणा मनसा वाचा तद्गतेनान्तरात्मना
तेन तस्य भवेद् भक्तिर् यजने मुनिसत्तमाः ॥

229.10

स करोति ततो विप्रा भक्तिं चाग्नेः समाहितः
तुष्टे हुताशने तस्य भक्तिर् भवति भास्करे ॥

229.11

पूजां करोति सततम् आदित्यस्य ततो द्विजाः
प्रसन्ने भास्करे तस्य भक्तिर् भवति शंकरे ॥

229.12

पूजां करोति विधिवत् स तु शंभोः प्रयत्नतः
तुष्टे त्रिलोचने तस्य भक्तिर् भवति केशवे ॥

229.13

संपूज्य तं जगन्नाथं वासुदेवाख्यम् अव्ययम्
ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमाः ॥

229.14

अवैष्णवा नरा ये तु दृश्यन्ते च महामुने
किं ते विष्णुं नार्चयन्ति ब्रूहि तत्कारणं द्विज ॥

229.15

द्वौ भूतसर्गौ विख्यातौ लोके ऽस्मिन् मुनिसत्तमाः
आसुरश् च तथा दैवः पुरा सृष्टः स्वयंभुवा ॥

229.16

दैवीं प्रकृतिम् आसाद्य पूजयन्ति ततो ऽच्युतम्
आसुरीं योनिम् आपन्ना दूषयन्ति नरा हरिम् ॥

229.17

मायया हतविज्ञाना विष्णोस् ते तु नराधमाः
अप्राप्य तं हरिं विप्रास् ततो यान्त्य् अधमां गतिम् ॥

229.18

तस्य या गह्वरी माया दुर्विज्ञेया सुरासुरैः
महामोहकरी नॄणां दुस्तरा चाकृतात्मभिः ॥

229.19

इच्छामस् तां महामायां ज्ञातुं विष्णोः सुदुस्तराम्
वक्तुम् अर्हसि धर्मज्ञ परं कौतूहलं हि नः ॥

229.20

स्वप्नेन्द्रजालसंकाशा माया सा लोककर्षणी
कः शक्नोति हरेर् मायां ज्ञातुं तां केशवाद् ऋते ॥

229.21

या वृत्ता ब्राह्मणस्यासीन् मायार्थे नारदस्य च
विडम्बनां तु तां विप्राः शृणुध्वं गदतो मम ॥

229.22

प्राग् आसीन् नृपतिः श्रीमान् आग्नीध्र इति विश्रुतः
नगरे कामदमनस् तस्याथ तनयः शुचिः ॥

229.23

धर्मारामः क्षमाशीलः पितृशुश्रूषणे रतः
प्रजानुरञ्जको दक्षः श्रुतिशास्त्रकृतश्रमः ॥

229.24

पितास्य त्व् अकरोद् यत्नं विवाहाय न चैच्छत
तं पिता प्राह किम् इति नेच्छसे दारसंग्रहम् ॥

229.25

सर्वम् एतत् सुखार्थं हि वाञ्छन्ति मनुजाः किल
सुखमूला हि दाराश् च तस्मात् तं त्वं समाचर ॥

229.26

स पितुर् वचनं श्रुत्वा तूष्णीम् आस्ते च गौरवात्
मुहुर् मुहुस् तं च पिता चोदयाम् आस भो द्विजाः ॥

229.27

अथासौ पितरं प्राह तात नामानुरूपता
मया समाश्रिता व्यक्ता वैष्णवी परिपालिनी ॥

229.28

तं पिता प्राह संगम्य नैष धर्मो ऽस्ति पुत्रक
न विधारयितव्या स्यात् पुरुषेण विपश्चिता ॥

229.29

कुरु मद्वचनं पुत्र प्रभुर् अस्मि पिता तव
मा निमज्ज कुलं मह्यं नरके संततिक्षयात् ॥

229.30

स हि तं पितुर् आदेशं श्रुत्वा प्राह सुतो वशी
प्रीतः संस्मृत्य पौराणीं संसारस्य विचित्रताम् ॥

229.31

शृणु तात वचो मह्यं तत्त्ववाक्यं सहेतुकम्
नामानुरूपं कर्तव्यं सत्यं भवति पार्थिव ॥

229.32

मया जन्मसहस्राणि जरामृत्युशतानि च
प्राप्तानि दारसंयोग वियोगानि च सर्वशः ॥

229.33

तृणगुल्मलतावल्ली सरीसृपमृगद्विजाः
पशुस्त्रीपुरुषाद्यानि प्राप्तानि शतशो मया ॥

229.34

गणकिंनरगन्धर्व विद्याधरमहोरगाः
यक्षगुह्यकरक्षांसि दानवाप्सरसः सुराः ॥

229.35

नदीश्वरसहस्रं च प्राप्तं तात पुनः पुनः
सृष्टस् तु बहुशः सृष्टौ संहारे चापि संहृतः ॥

229.36

दारसंयोगयुक्तस्य तातेदृङ् मे विडम्बना
इतस् तृतीये यद् वृत्तं मम जन्मनि तच् छृणु
कथयामि समासेन तीर्थमाहात्म्यसंभवम् ॥

229.37

अतीत्य जन्मानि बहूनि तात नृदेवगन्धर्वमहोरगाणाम्
विद्याधराणां खगकिंनराणां जातो हि वंशे सुतपा महर्षिः

229.38

ततो महाभूद् अचला हि भक्तिर् जनार्दने लोकपतौ मधुघ्ने
व्रतोपवासैर् विविधैश् च भक्त्या संतोषितश् चक्रगदास्त्रधारी

229.39

तुष्टो ऽभ्यगात् पक्षिपतिं महात्मा विष्णुः समारुह्य वरप्रदो मे
प्राहोच्चशब्दं व्रियतां द्विजाते वरो हि यं वाञ्छसि तं प्रदास्ये

229.40

ततो ऽहम् ऊचे हरिम् ईशितारं तुष्टो ऽसि चेत् केशव तद् वृणोमि
या सा त्वदीया परमा हि माया तां वेत्तुम् इच्छामि जनार्दनो ऽहम्

229.41

अथाब्रवीन् मे मधुकैटभारिः किं ते तया ब्रह्मन् मायया वै
धर्मार्थकामानि ददानि तुभ्यं पुत्राणि मुख्यानि निरामयत्वम्

229.42

ततो मुरारिं पुनर् उक्तवान् अहं भूयो ऽर्थधर्मार्थजिगीषितैव यत्
माया तवेमाम् इह वेत्तुम् इच्छे ममाद्य तां दर्शय पुष्कराक्ष

229.44

पूर्वं सुरर्षिर् द्विज नारदाख्यो ब्रह्मात्मजो ऽभून् मम भक्तियुक्तः
तेनापि पूर्वं भवता यथैव संतोषितो भक्तिमता हि तद्वत्

229.45

वरं च दत्तं गतवान् अहं च स चापि वव्रे वरम् एतद् एव
निवारितो माम् अतिमूढभावाद् भवान् यथैवं वृतवान् वरं च

229.46

ततो मयोक्तो ऽम्भसि नारद त्वं मायां हि मे वेत्स्यसि संनिमग्नः
ततो निमग्नो ऽम्भसि नारदो ऽसौ कन्या बभौ काशिपतेः सुशीला

229.47

तां यौवनाढ्याम् अथ चारुधर्मिणे विदर्भराज्ञस् तनयाय वै ददौ
स्वधर्मणे सो ऽपि तया समेतः सिषेव कामान् अतुलान् महर्षिः

229.48

स्वर्गे गते ऽसौ पितरि प्रतापवान् राज्यं क्रमायातम् अवाप्य हृष्टः
विदर्भराष्ट्रं परिपालयानः पुत्रैः सपौत्रैर् बहुभिर् वृतो ऽभूत्

229.49

अथाभवद् भूमिपतेः सुधर्मणः काशीश्वरेणाथ समं सुयुद्धम्
तत्र क्षयं प्राप्य सपुत्रपौत्रं विदर्भराट् काशिपतिश् च युद्धे

229.50

ततः सुशीला पितरं सपुत्रं ज्ञात्वा पतिं चापि सपुत्रपौत्रम्
पुराद् विनिःसृत्य रणावनिं गता दृष्ट्वा सुशीला कदनं महान्तम्

229.51

भर्तुर् बले तत्र पितुर् बले च दुःखान्विता सा सुचिरं विलप्य
जगाम सा मातरम् आर्तरूपा भ्रातॄन् सुतान् भ्रातृसुतान् सपौत्रान्

229.52

भर्तारम् एषा पितरं च गृह्य महाश्मशाने च महाचितिं सा
कृत्वा हुताशं प्रददौ स्वयं च यदा समिद्धो हुतभुग् बभूव

229.53

तदा सुशीला प्रविवेश वेगाद् धा पुत्र हा पुत्र इति ब्रुवाणा
तदा पुनः सा मुनिर् नारदो ऽभूत् स चापि वह्निः स्फटिकामलाभः

229.55

कस् ते तु पुत्रो वद मे महर्षे मृतं च कं शोचसि नष्टबुद्धिः
व्रीडान्वितो ऽभूद् अथ नारदो ऽसौ ततो ऽहम् एनं पुनर् एव चाह

229.56

इतीदृशा नारद कष्टरूपा माया मदीया कमलासनाद्यैः
शक्या न वेत्तुं समहेन्द्ररुद्रैः कथं भवान् वेत्स्यति दुर्विभाव्याम्

229.57

स वाक्यम् आकर्ण्य महामहर्षिर् उवाच भक्तिं मम देहि विष्णो
प्राप्ते ऽथ काले स्मरणं तथैव सदा च संदर्शनम् ईश ते ऽस्तु

229.58

यत्राहम् आर्तश् चितिम् अद्य रूढस् तत् तीर्थम् अस्त्व् अच्युतपापहन्त्रा
अधिष्ठितं केशव नित्यम् एव त्वया सहासं कमलोद्भवेन

229.59

ततो मयोक्तो द्विज नारदो ऽसौ तीर्थं सितोदे हि चितिस् तवास्तु
स्थास्याम्य् अहं चात्र सदैव विष्णुर् महेश्वरः स्थास्यति चोत्तरेण

229.60

यदा विरञ्चेर् वदनं त्रिनेत्रः स च्छेत्स्यतेयं च ममोग्रवाचम्
तदा कपालस्य तु मोचनाय समेष्यते तीर्थम् इदं त्वदीयम्

229.61

स्नातस्य तीर्थे त्रिपुरान्तकस्य पतिष्यते भूमितले कपालम्
ततस् तु तीर्थेति कपालमोचनं ख्यातं पृथिव्यां च भविष्यते तत्

229.62

तदा प्रभृत्य् अम्बुदवाहनो ऽसौ न मोक्ष्यते तीर्थवरं सुपुण्यम्
न चैव तस्मिन् द्विज संप्रचक्षते तत् क्षेत्रम् उग्रं त्व् अथ ब्रह्मवध्या

229.63

यदा न मोक्षत्य् अमरारिहन्ता तत् क्षेत्रमुख्यं महद् आप्तपुण्यम्
तदा विमुक्तेति सुरै रहस्यं तीर्थं स्तुतं पुण्यदम् अव्ययाख्यम्

229.64

कृत्वा तु पापानि नरो महान्ति तस्मिन् प्रविष्टः शुचिर् अप्रमादी
यदा तु मां चिन्तयते स शुद्धः प्रयाति मोक्षं भगवत्प्रसादात्

229.65

भूत्वा तस्मिन् रुद्रपिशाचसंज्ञो योन्यन्तरे दुःखम् उपाश्नुते ऽसौ
विमुक्तपापो बहुवर्षपूगैर् उत्पत्तिम् आयास्यति विप्रगेहे

229.66

शुचिर् यतात्मास्य ततो ऽन्तकाले रुद्रो हितं तारकम् अस्य कीर्तयेत्
इत्य् एवम् उक्त्वा द्विजवर्य नारदं गतो ऽस्मि दुग्धार्णवम् आत्मगेहम्

229.67

स चापि विप्रस् त्रिदिवं चचार गन्धर्वराजेन समर्च्यमानः
एतत् तवोक्तं ननु बोधनाय माया मदीया नहि शक्यते सा

229.68

ज्ञातुं भवान् इच्छति चेत् ततो ऽद्य एवं विशस्वाप्सु च वेत्सि येन
एवं द्विजातिर् हरिणा प्रबोधितो भाव्यर्थयोगान् निममज्ज तोये

229.69

कोकामुखे तात ततो हि कन्या चाण्डालवेश्मन्य् अभवद् द्विजः सः
रूपान्विता शीलगुणोपपन्ना अवाप सा यौवनम् आससाद

229.70

चाण्डालपुत्रेण सुबाहुनापि विवाहिता रूपविवर्जितेन
पतिर् न तस्या हि मतो बभूव सा तस्य चैवाभिमता बभूव

229.71

पुत्रद्वयं नेत्रहीनं बभूव कन्या च पश्चाद् बधिरा तथान्या
पतिर् दरिद्रस् त्व् अथ सापि मुग्धा नदीगता रोदिति तत्र नित्यम्

229.72

गता कदाचित् कलशं गृहीत्वा सान्तर् जलं स्नातुम् अथ प्रविष्टा
यावद् द्विजो ऽसौ पुनर् एव तावज् जातः क्रियायोगरतः सुशीलः

229.73

तस्याः स भर्ताथ चिरंगतेति द्रष्टुं जगामाथ नदीं सुपुण्याम्
ददर्श कुम्भं न च तां तटस्थां ततो ऽतिदुःखात् प्ररुरोद नादयन्

229.74

ततो ऽन्धयुग्मं बधिरा च कन्या दुःखान्वितासौ समुपाजगाम
ते वै रुदन्तं पितरं च दृष्ट्वा दुःखान्विता वै रुरुदुर् भृशार्ताः

229.75

ततः स पप्रच्छ नदीतटस्थान् द्विजान् भवद्भिर् यदि योषिद् एका
दृष्टा तु तोयार्थम् उपाद्रवन्ती आख्यात ते प्रोचुर् इमां प्रविष्टा

229.76

नदीं न भूयस् तु समुत्ततार एतावद् एवेह समीहितं नः
स तद्वचो घोरतरं निशम्य रुरोद शोकाश्रुपरिप्लुताक्षः

229.77

तं वै रुदन्तं ससुतं सकन्यं दृष्ट्वाहम् आर्तः सुतरां बभूव
आर्तिश् च मे ऽभूद् अथ संस्मृतिश् च चाण्डालयोषाहम् इति क्षितीश

229.78

ततो ऽब्रवं तं नृपते मतङ्गं किमर्थम् आर्तेन हि रुद्यते त्वया
तस्या न लाभो भवितातिमौर्ख्याद् आक्रन्दितेनेह वृथा हि किं ते

229.79

स माम् उवाचात्मजयुग्मम् अन्धं कन्या चैका बधिरेयं तथैव
कथं द्विजाते अधुनार्तम् एतम् आश्वासयिष्ये ऽप्य् अथ पोषयिष्ये

229.80

इत्य् एवम् उक्त्वा स सुतैश् च सार्धं फूत्कृत्य फूत्कृत्य च रोदिति स्म
यथा यथा रोदिति स श्वपाकस् तथा तथा मे ह्य् अभवत् कृतापि

229.81

ततो ऽहम् आर्तं तु निवार्य तं वै स्ववंशवृत्तान्तम् अथाचचक्षे
ततः स दुःखात् सह पुत्रकैः संविवेश कोकामुखम् आर्तरूपः

229.82

प्रविष्टमात्रे सलिले मतङ्गस् तीर्थप्रभावाच् च विमुक्तपापः
विमानम् आरुह्य शशिप्रकाशं ययौ दिवं तात ममोपपश्यतः

229.83

तस्मिन् प्रविष्टे सलिले मृते च ममार्तिर् आसीद् अतिमोहकर्त्री
ततो ऽतिपुण्ये नृपवर्य कोका जले प्रविष्टस् त्रिदिवं गतश् च

229.84

भूयो ऽभवं वैश्यकुले व्यथार्तो जातिस्मरस् तीर्थवरप्रसादात्
ततो ऽतिनिर्विण्णमना गतो ऽहं कोकामुखं संयतवाक्यचित्तः

229.85

व्रतं समास्थाय कलेवरं स्वं संशोषयित्वा दिवम् आरुरोह
तस्माच् च्युतस् त्वद्भवने च जातो जातिस्मरस् तात हरिप्रसादात्

229.86

सो ऽहं समाराध्य मुरारिदेवं कोकामुखे त्यक्तशुभाशुभेच्छः
इत्य् एवम् उक्त्वा पितरं प्रणम्य गत्वा च कोकामुखम् अग्रतीर्थम्

229.87

इत्थं स कामदमनः सहपुत्रपौत्रः कोकामुखे तीर्थवरे सुपुण्ये
त्यक्त्वा तनुं दोषमयीं ततस् तु गतो दिवं सूर्यसमैर् विमानैः

229.88

एवं मयोक्ता परमेश्वरस्य माया सुराणाम् अपि दुर्विचिन्त्या
स्वप्नेन्द्रजालप्रतिमा मुरारेर् यया जगन् मोहम् उपैति विप्राः

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc