ब्रह्म पुराण · अध्याय 22
ततश् चानन्तरं विप्रा नरका रौरवादयः
पापिनो येषु पात्यन्ते ताञ् शृणुध्वं द्विजोत्तमाः ॥
रौरवः शौकरो रोधस् तानो विशसनस् तथा
महाज्वालस् तप्तकुड्यो महालोभो विमोहनः ॥
रुधिरान्धो वसातप्तः कृमीशः कृमिभोजनः
असिपत्त्रवनं कृष्णो लालाभक्षश् च दारुणः ॥
तथा पूयवहः पापो वह्निज्वालो ह्य् अधःशिराः
सदंशः कृष्णसूत्रश् च तमश् चावीचिर् एव च ॥
श्वभोजनो ऽथाप्रतिष्ठोम आवीचिश् च तथापरः
इत्य् एवमादयश् चान्ये नरका भृशदारुणाः ॥
यमस्य विषये घोराः शस्त्राग्निविषदर्शिनः
पतन्ति येषु पुरुषाः पापकर्मरताश् च ये ॥
कूटसाक्षी तथा सम्यक् पक्षपातेन यो वदेत्
यश् चान्यद् अनृतं वक्ति स नरो याति रौरवम् ॥
भ्रूणहा पुरहन्ता च गोघ्नश् च मुनिसत्तमाः
यान्ति ते रौरवं घोरं यश् चोच्छ्वासनिरोधकः ॥
सुरापो ब्रह्महा हर्ता सुवर्णस्य च शूकरे
प्रयाति नरके यश् च तैः संसर्गम् उपैति वै ॥
राजन्यवैश्यहा चैव तथैव गुरुतल्पगः
तप्तकुम्भे स्वसृगामी हन्ति राजभटं च यः ॥
माध्वीविक्रयकृन् वध्य पालः केसरविक्रयी
तप्तलोहे पतन्त्य् एते यश् च भक्तं परित्यजेत् ॥
सुतां स्नुषां चापि गत्वा महाज्वाले निपात्यते
अवमन्ता गुरूणां यो यश् चाक्रोष्टा नराधमः ॥
वेददूषयिता यश् च वेदविक्रयकश् च यः
अगम्यगामी यश् च स्यात् ते यान्ति शबलं द्विजाः ॥
चौरो विमोहे पतति मर्यादादूषकस् तथा
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥
स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत्
पितृदेवातिथीन् यस् तु पर्यश्नाति नराधमः ॥
लालाभक्ष्ये स यात्य् उग्रे शरकर्ता च वेधके
करोति कर्णिनो यश् च यश् च खड्गादिकृन् नरः ॥
प्रयान्त्य् एते विशसने नरके भृशदारुणे
असत्प्रतिग्रहीता च नरके यात्य् अधोमुखे ॥
अयाज्ययाजकस् तत्र तथा नक्षत्रसूचकः
कृमिपूये नरश् चैको याति मिष्टान्नभुक् सदा ॥
लाक्षामांसरसानां च तिलानां लवणस्य च
विक्रेता ब्राह्मणो याति तम् एव नरकं द्विजाः ॥
मार्जारकुक्कुटच्छाग श्ववराहविहंगमान्
पोषयन् नरकं याति तम् एव द्विजसत्तमाः ॥
रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस् तथा
सूची माहिषिकश् चैव पर्वगामी च यो द्विजः ॥
अगारदाही मित्रघ्नः शकुनिग्रामयाजकः
रुधिरान्धे पतन्त्य् एते सोमं विक्रीणते च ये ॥
मधुहा ग्रामहन्ता च याति वैतरणीं नरः
रेतःपानादिकर्तारो मर्यादाभेदिनश् च ये ॥
ते कृच्छ्रे यान्त्य् अशौचाश् च कुहकाजीविनश् च ये
असिपत्त्रवनं याति वनच्छेदी वृथैव यः ॥
औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै
यान्ति तत्रैव ते विप्रा यश् चापाकेषु वह्निदः ॥
व्रतोपलोपको यश् च स्वाश्रमाद् विच्युतश् च यः
संदंशयातनामध्ये पततस् ताव् उभाव् अपि ॥
दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः
पुत्रैर् अध्यापिता ये तु ते पतन्ति श्वभोजने ॥
एते चान्ये च नरकाः शतशो ऽथ सहस्रशः
येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥
तथैव पापान्य् एतानि तथान्यानि सहस्रशः
भुज्यन्ते जातिपुरुषैर् नरकान्तरगोचरैः ॥
वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः
कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥
अधःशिरोभिर् दृश्यन्ते नारकैर् दिवि देवताः
देवाश् चाधोमुखान् सर्वान् अधः पश्यन्ति नारकान् ॥
स्थावराः कृमयो ऽज्वाश् च पक्षिणः पशवो नराः
धार्मिकास् त्रिदशास् तद्वन् मोक्षिणश् च यथाक्रमम् ॥
सहस्रभागः प्रथमाद् द्वितीयो ऽनुक्रमात् तथा
सर्वे ह्य् एते महाभागा यावन् मुक्तिसमाश्रयाः ॥
यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः
पापकृद् याति नरकं प्रायश्चित्तपराङ्मुखः ॥
पापानाम् अनुरूपाणि प्रायश्चित्तानि यद् यथा
तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥
पापे गुरूणि गुरुणि स्वल्पान्य् अल्पे च तद्विदः
प्रायश्चित्तानि विप्रेन्द्रा जगुः स्वायंभुवादयः ॥
प्रायश्चित्तान्य् अशेषाणि तपःकर्मात्मकानि वै
यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम् ॥
कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते
प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥
प्रातर् निशि तथा संध्या मध्याह्नादिषु संस्मरन्
नारायणम् अवाप्नोति सद्यः पापक्षयान् नरः ॥
विष्णुसंस्मरणात् क्षीण समस्तक्लेशसंचयः
मुक्तिं प्रयाति भो विप्रा विष्णोस् तस्यानुकीर्तनात् ॥
वासुदेवे मनो यस्य जपहोमार्चनादिषु
तस्यान्तरायो विप्रेन्द्रा देवेन्द्रत्वादिकं फलम् ॥
क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम्
क्व जपो वासुदेवेति मुक्तिबीजम् अनुत्तमम् ॥
तस्माद् अहर्निशं विष्णुं संस्मरन् पुरुषो द्विजः
न याति नरकं शुद्धः संक्षीणाखिलपातकः ॥
मनःप्रीतिकरः स्वर्गो नरकस् तद्विपर्ययः
नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तमाः ॥
वस्त्व् एकम् एव दुःखाय सुखायेर्ष्योदयाय च
कोपाय च यतस् तस्माद् वस्तु दुःखात्मकं कुतः ॥
तद् एव प्रीतये भूत्वा पुनर् दुःखाय जायते
तद् एव कोपालयतः प्रसादाय च जायते ॥
तस्माद् दुःखात्मकं नास्ति न च किंचित् सुखात्मकम्
मनसः परिणामो ऽयं सुखदुःखादिलक्षणः ॥
ज्ञानम् एव परं ब्रह्मा ज्ञानं बन्धाय चेष्यते
ज्ञानात्मकम् इदं विश्वं न ज्ञानाद् विद्यते परम् ॥
विद्याविद्ये हि भो विप्रा ज्ञानम् एवावधार्यताम्
एवम् एतद् मयाख्यातं भवतां मण्डलं भुवः ॥
पातालानि च सर्वाणि तथैव नरका द्विजाः
समुद्राः पर्वताश् चैव द्वीपा वर्षाणि निम्नगाः
संक्षेपात् सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छथ ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0