भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 228

228.1

एकादश्याम् उभे पक्षे निराहारः समाहितः
स्नात्वा सम्यग् विधानेन धौतवासा जितेन्द्रियः ॥

228.2

संपूज्य विधिवद् विष्णुं श्रद्धया सुसमाहितः
पुष्पैर् गन्धैस् तथा दीपैर् धूपैर् नैवेद्यकैस् तथा ॥

228.3

उपहारैर् बहुविधैर् जप्यैर् होमप्रदक्षिणैः
स्तोत्रैर् नानाविधैर् दिव्यैर् गीतवाद्यैर् मनोहरैः ॥

228.4

दण्डवत्प्रणिपातैश् च जयशब्दैस् तथोत्तमैः
एवं संपूज्य विधिवद् रात्रौ कृत्वा प्रजागरम् ॥

228.5

कथां वा गीतिकां विष्णोर् गायन् विष्णुपरायणः
याति विष्णोः परं स्थानं नरो नास्त्य् अत्र संशयः ॥

228.6

प्रजागरे गीतिकायाः फलं विष्णोर् महामुने
ब्रूहि तच् छ्रोतुम् इच्छामः परं कौतूहलं हि नः ॥

228.7

शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्य् अनुपूर्वशः
गीतिकायाः फलं विष्णोर् जागरे यद् उदाहृतम् ॥

228.8

अवन्ती नाम नगरी बभूव भुवि विश्रुता
तत्रास्ते भगवान् विष्णुः शङ्खचक्रगदाधरः ॥

228.9

तस्या नगर्याः पर्यन्ते चाण्डालो गीतिकोविदः
सद्वृत्त्योत्पादितधनो भृत्यानां भरणे रतः ॥

228.10

विष्णुभक्तः स चाण्डालो मासि मासि दृढव्रतः
एकादश्यां समागम्य सोपवासो ऽथ गायति ॥

228.11

गीतिका विष्णुनामाङ्काः प्रादुर्भावसमाश्रिताः
गान्धारषड्जनैषाद स्वरपञ्चमधैवतैः ॥

228.12

रात्रिजागरणे विष्णुं गाथाभिर् उपगायति
प्रभाते च प्रणम्येशं द्वादश्यां गृहम् एत्य च ॥

228.13

जामातृभागिनेयांश् च भोजयित्वा सकन्यकाः
ततः सपरिवारस् तु पश्चाद् भुङ्क्ते द्विजोत्तमाः ॥

228.14

एवं तस्यासतस् तत्र कुर्वतो विष्णुप्रीणनम्
गीतिकाभिर् विचित्राभिर् वयः प्रतिगतं बहु ॥

228.15

एकदा चैत्रमासे तु कृष्णैकादशिगोचरे
विष्णुशुश्रूषणार्थाय ययौ वनम् अनुत्तमम् ॥

228.16

वनजातानि पुष्पाणि ग्रहीतुं भक्तितत्परः
क्षिप्रातटे महारण्ये विभीतकतरोर् अधः ॥

228.17

दृष्टः स राक्षसेनाथ गृहीतश् चापि भक्षितुम्
चाण्डालस् तम् अथोवाच नाद्य भक्ष्यस् त्वया ह्य् अहम् ॥

228.18

प्रातर् भोक्ष्यसि कल्याण सत्यम् एष्याम्य् अहं पुनः
अद्य कार्यं मम महत् तस्मान् मुञ्चस्व राक्षस ॥

228.19

श्वः सत्येन समेष्यामि ततः खादसि माम् इति
विष्णुशुश्रूषणार्थाय रात्रिजागरणं मया
कार्यं न व्रतविघ्नं मे कर्तुम् अर्हसि राक्षस ॥

228.20

तं राक्षसः प्रत्युवाच दशरात्रम् अभोजनम्
ममाभूद् अद्य च भवान् मया लब्धो मतङ्गज ॥

228.21

न मोक्ष्ये भक्षयिष्यामि क्षुधया पीडितो भृशम्
निशाचरवचः श्रुत्वा मातङ्गस् तम् उवाच ह
सान्त्वयञ् श्लक्ष्णया वाचा स सत्यवचनैर् दृढैः ॥

228.22

सत्यमूलं जगत् सर्वं ब्रह्मराक्षस तच् छृणु
सत्येनाहं शपिष्यामि पुनरागमनाय च ॥

228.23

आदित्यश् चन्द्रमा वह्निर् वायुर् भूर् द्यौर् जलं मनः
अहोरात्रं यमः संध्ये द्वे विदुर् नरचेष्टितम् ॥

228.24

परदारेषु यत् पापं यत् परद्रव्यहारिषु
यच् च ब्रह्महनः पापं सुरापे गुरुतल्पगे ॥

228.25

वन्ध्यापतेश् च यत् पापं यत् पापं वृषलीपतेः
यच् च देवलके पापं मत्स्यमांसाशिनश् च यत् ॥

228.26

क्रोडमांसाशिनो यच् च कूर्ममांसाशिनश् च यत्
वृथा मांसाशिनो यच् च पृष्ठमांसाशिनश् च यत् ॥

228.27

कृतघ्ने मित्रघातके यत् पापं दिधिषूपतौ
सूतकस्य च यत् पापं यत् पापं क्रूरकर्मणः ॥

228.28

कृपणस्य च यत् पापं यच् च वन्ध्यातिथेर् अपि
अमावास्याष्टमी षष्ठी कृष्णशुक्लचतुर्दशी ॥

228.29

तासु यद् गमनात् पापं यद् विप्रो व्रजति स्त्रियम्
रजस्वलां तथा पश्चाच् छ्राद्धं कृत्वा स्त्रियं व्रजेत् ॥

228.30

सर्वस्वस्नातभोज्यानां यत् पापं मलभोजने
मित्रभार्यां गच्छतां च यत् पापं पिशुनस्य च ॥

228.31

दम्भमायानुरक्ते च यत् पापं मधुघातिनः
ब्राह्मणस्य प्रतिश्रुत्य यत् पापं तदयच्छतः ॥

228.32

यच् च कन्यानृते पापं यच् च गोश्वतरानृते
स्त्रीबालहन्तुर् यत् पापं यच् च मिथ्याभिभाषिणः ॥

228.33

देववेदद्विजनृप पुत्रमित्रसतीस्त्रियः
यच् च निन्दयतां पापं गुरुमिथ्यापचारतः ॥

228.34

अग्नित्यागिषु यत् पापम् अग्निदायिषु यद् वने
गृहेष्ट्या पातके यच् च यद् गोघ्ने यद् द्विजाधमे ॥

228.35

यत् पापं परिवित्ते च यत् पापं परिवेदिनः
तयोर् दातृग्रहीत्रोश् च यत् पापं भ्रूणघातिनः ॥

228.36

किं चात्र बहुभिः प्रोक्तैः शपथैस् तव राक्षस
श्रूयतां शपथं भीमं दुर्वाच्यम् अपि कथ्यते ॥

228.37

स्वकन्याजीविनः पापं गूढसत्येन साक्षिणः
अयाज्ययाजके षण्ढे यत् पापं श्रवणे ऽधमे ॥

228.38

प्रव्रज्यावसिते यच् च ब्रह्मचारिणि कामुके
एतैस् तु पापैर् लिप्ये ऽहं यदि नैष्यामि ते ऽन्तिकम् ॥

228.39

मातङ्गवचनं श्रुत्वा विस्मितो ब्रह्मराक्षसः
प्राह गच्छस्व सत्येन समयं चैव पालय ॥

228.40

इत्य् उक्तः कुणपाशेन श्वपाकः कुसुमानि तु
समादायागमच् चैव विष्णोः स निलयं गतः ॥

228.41

तानि प्रादाद् ब्राह्मणाय सो ऽपि प्रक्षाल्य चाम्भसा
विष्णुम् अभ्यर्च्य निलयं जगाम स तपोधनाः ॥

228.42

सो ऽपि मातङ्गदायादः सोपवासस् तु तां निशाम्
गायन् हि बाह्यभूमिष्ठः प्रजागरम् उपाकरोत् ॥

228.43

प्रभातायां तु शर्वर्यां स्नात्वा देवं नमस्य च
सत्यं स समयं कर्तुं प्रतस्थे यत्र राक्षसः ॥

228.44

तं व्रजन्तं पथि नरः प्राह भद्र क्व गच्छसि
स तथाकथयत् सर्वं सो ऽप्य् एनं पुनर् अब्रवीत् ॥

228.45

धर्मार्थकाममोक्षाणां शरीरं साधनं यतः
महता तु प्रयत्नेन शरीरं पालयेद् बुधः ॥

228.46

जीवधर्मार्थसुखं नरस् तथाप्नोति मोक्षगतिम् अग्र्याम्
जीवन् कीर्तिम् उपैति च भवति मृतस्य का कथा लोके

228.47

मातङ्गस् तद् वचः श्रुत्वा प्रत्युवाचाथ हेतुमत् ॥

228.48

भद्र सत्यं पुरस्कृत्य गच्छामि शपथाः कृताः ॥

228.49

तं भूयः प्रत्युवाचाथ किम् एवं मूढधीर् भवान्
किं न श्रुतं त्वया साधो मनुना यद् उदीरितम् ॥

228.50

गोस्त्रीद्विजानां परिरक्षणार्थं विवाहकाले सुरतप्रसङ्गे
प्राणात्यये सर्वधनापहारे पञ्चानृतान्य् आहुर् अपातकानि

228.51

धर्मवाक्यं न च स्त्रीषु न विवाहे तथा रिपौ
वञ्चने चार्थहानौ च स्वनाशे ऽनृतके तथा
एवं तद् वाक्यम् आकर्ण्य मातङ्गः प्रत्युवाच ह ॥

228.52

मैवं वदस्व भद्रं ते सत्यं लोकेषु पूज्यते
सत्येनावाप्यते सौख्यं यत् किंचिज् जगतीगतम् ॥

228.53

सत्येनार्कः प्रतपति सत्येनापो रसात्मिकाः
ज्वलत्य् अग्निश् च सत्येन वाति सत्येन मारुतः ॥

228.54

धर्मार्थकामसंप्राप्तिर् मोक्षप्राप्तिश् च दुर्लभा
सत्येन जायते पुंसां तस्मात् सत्यं न संत्यजेत् ॥

228.55

सत्यं ब्रह्म परं लोके सत्यं यज्ञेषु चोत्तमम्
सत्यं स्वर्गसमायातं तस्मात् सत्यं न संत्यजेत् ॥

228.56

इत्य् उक्त्वा सो ऽथ मातङ्गस् तं प्रक्षिप्य नरोत्तमम्
जगाम तत्र यत्रास्ते प्राणिहा ब्रह्मराक्षसः ॥

228.57

तम् आगतं समीक्ष्यासौ चाण्डालं ब्रह्मराक्षसः
विस्मयोत्फुल्लनयनः शिरःकम्पं तम् अब्रवीत् ॥

228.58

साधु साधु महाभाग सत्यवाक्यानुपालक
न मातङ्गम् अहं मन्ये भवन्तं सत्यलक्षणम् ॥

228.59

कर्मणानेन मन्ये त्वां ब्राह्मणं शुचिम् अव्ययम्
यत् किंचित् त्वां भद्रमुखं प्रवक्ष्ये धर्मसंश्रयम्
किं तत्र भवता रात्रौ कृतं विष्णुगृहे वद ॥

228.60

तम् अभ्युवाच मातङ्गः शृणु विष्णुगृहे मया
यत् कृतं रजनीभागे यथातथ्यं वदामि ते ॥

228.61

विष्णोर् देवकुलस्याधः स्थितेनानम्रमूर्तिना
प्रजागरः कृतो रात्रौ गायता विष्णुगीतिकाम् ॥

228.62

तं ब्रह्मराक्षसः प्राह कियन्तं कालम् उच्यताम्
प्रजागरो विष्णुगृहे कृतं भक्तिमता वद ॥

228.63

तम् अभ्युवाच प्रहसन् विंशत्य् अब्दानि राक्षस
एकादश्यां मासि मासि कृतस् तत्र प्रजागरः
मातङ्गवचनं श्रुत्वा प्रोवाच ब्रह्मराक्षसः ॥

228.64

यद् अद्य त्वां प्रवक्ष्यामि तद् भवान् वक्तुम् अर्हति
एकरात्रिकृतं साधो मम देहि प्रजागरम् ॥

228.65

एवं त्वां मोक्षयिष्यामि मोक्षयिष्यामि नान्यथा
त्रिः सत्येन महाभाग इत्य् उक्त्वा विरराम ह ॥

228.66

मातङ्गस् तम् उवाचाथ मयात्मा ते निशाचर
निवेदितः किम् उक्तेन खादस्व स्वेच्छयापि माम् ॥

228.67

तम् आह राक्षसो भूयो यामद्वयप्रजागरम्
सगीतं मे प्रयच्छस्व कृपां कर्तुं त्वम् अर्हसि ॥

228.68

मातङ्गो राक्षसं प्राह किम् असंबद्धम् उच्यते
खादस्व स्वेच्छया मां त्वं न प्रदास्ये प्रजागरम्
मातङ्गवचनं श्रुत्वा प्राह तं ब्रह्मराक्षसः ॥

228.69

को हि दुष्टमतिर् मन्दो भवन्तं द्रष्टुम् उत्सहेत्
धर्षयितुं पीडयितुं रक्षितं धर्मकर्मणा ॥

228.70

दीनस्य पापग्रस्तस्य विषयैर् मोहितस्य च
नरकार्तस्य मूढस्य साधवः स्युर् दयान्विताः ॥

228.71

तन् मम त्वं महाभाग कृपां कृत्वा प्रजागरम्
यामस्यैकस्य मे देहि गच्छ वा निलयं स्वकम् ॥

228.72

तं पुनः प्राह चाण्डालो न यास्यामि निजं गृहम्
न चापि तव दास्यामि कथंचिद् यामजागरम्
तं प्रहस्याथ चाण्डालं प्रोवाच ब्रह्मराक्षसः ॥

228.73

रात्र्यवसाने या गीता गीतिका कौतुकाश्रया
तस्याः फलं प्रयच्छस्व त्राहि पापात् समुद्धर ॥

228.74

एवम् उच्चारिते तेन मातङ्गस् तम् उवाच ह ॥

228.75

किं पूर्वं भवता कर्म विकृतं कृतम् अञ्जसा
येन त्वं दोषजातेन संभूतो ब्रह्मराक्षसः ॥

228.76

तस्य तद् वाक्यम् आकर्ण्य मातङ्गं ब्रह्मराक्षसः
प्रोवाच दुःखसंतप्तः संस्मृत्य स्वकृतं कृतम् ॥

228.77

श्रूयतां यो ऽहम् आसं वै पूर्वं यच् च मया कृतम्
यस्मिन् कृते पापयोनिं गतवान् अस्मि राक्षसीम् ॥

228.78

सोमशर्म इति ख्यातः पूर्वम् आसम् अहं द्विजः
पुत्रो ऽध्ययनशीलस्य देवशर्मस्य यज्वनः ॥

228.79

कस्यचिद् यजमानस्य सूत्रमन्त्रबहिष्कृतः
नृपस्य कर्मसक्तेन यूपकर्मसुनिष्ठितः ॥

228.80

आग्नीध्रं चाकरोद् यज्ञे लोभमोहप्रपीडितः
तस्मिन् परिसमाप्ते तु मौर्ख्याद् दम्भम् अनुष्ठितः ॥

228.81

यष्टुम् आरब्धवान् अस्मि द्वादशाहं महाक्रतुम्
प्रवर्तमाने तस्मिंस् तु कुक्षिशूलो ऽभवन् मम ॥

228.82

संपूर्णे दशरात्रे तु न समाप्ते तथा क्रतौ
विरूपाक्षस्य दीयन्त्याम् आहुत्यां राक्षसे क्षणे ॥

228.83

मृतो ऽहं तेन दोषेण संभूतो ब्रह्मराक्षसः
मूर्खेण मन्त्रहीनेन सूत्रस्वरविवर्जितम् ॥

228.84

अजानता यज्ञविद्यां यद् इष्टं याजितं च यत्
तेन कर्मविपाकेन संभूतो ब्रह्मराक्षसः ॥

228.85

तन् मां पापमहाम्भोधौ निमग्नं त्वं समुद्धर
प्रजागरे गीतिकैकां पश्चिमां दातुम् अर्हसि ॥

228.86

तम् उवाचाथ चाण्डालो यदि प्राणिवधाद् भवान्
निवृत्तिं कुरुते दद्यां ततः पश्चिमगीतिकाम् ॥

228.87

बाढम् इत्य् अवदत् सो ऽपि मातङ्गो ऽपि ददौ तदा
गीतिकाफलम् आमन्त्र्य मुहूर्तार्धप्रजागरम् ॥

228.88

तस्मिन् गीतिफले दत्ते मातङ्गं ब्रह्मराक्षसः
प्रणम्य प्रययौ हृष्टस् तीर्थवर्यं पृथूदकम् ॥

228.89

तत्रानशनसंकल्पं कृत्वा प्राणाञ् जहौ द्विजाः
राक्षसत्वाद् विनिर्मुक्तो गीतिकाफलबृंहितः ॥

228.90

पृथूदकप्रभावाच् च ब्रह्मलोकं च दुर्लभम्
दश वर्षसहस्राणि निरातङ्को ऽवसत् ततः ॥

228.91

तस्यान्ते ब्राह्मणो जातो बभूव स्मृतिमान् वशी
तस्याहं चरितं भूयः कथयिष्यामि भो द्विजाः ॥

228.92

मातङ्गस्य कथाशेषं शृणुध्वं गदतो मम
राक्षसे तु गते धीमान् गृहम् एत्य यतात्मवान् ॥

228.93

तद्विप्रचरितं स्मृत्वा निर्विण्णः शुचिर् अप्य् असौ
पुत्रेषु भार्यां निक्षिप्य ददौ भूम्याः प्रदक्षिणाम् ॥

228.94

कोकामुखात् समारभ्य यावद् वै स्कन्ददर्शनम्
दृष्ट्वा स्कन्दं ययौ धारा चक्रे चापि प्रदक्षिणम् ॥

228.95

ततो ऽद्रिवरम् आगम्य विन्ध्यम् उच्चशिलोच्चयम्
पापप्रमोचनं तीर्थम् आससाद स तु द्विजाः ॥

228.96

स्नानं पापहरं चक्रे स तु चाण्डालवंशजः
विमुक्तपापः सस्मार पूर्वजातीर् अनेकशः ॥

228.97

स पूर्वजन्मन्य् अभवद् भिक्षुः संयतवाङ्मनाः
यतकायश् च मतिमान् वेदवेदाङ्गपारगः ॥

228.98

एकदा गोषु नगराद् ध्रियमाणासु तस्करैः
भिक्षावधूता रजसा मुक्ता तेनाथ भिक्षुणा ॥

228.99

स तेनाधर्मदोषेण चाण्डालीं योनिम् आगतः
पापप्रमोचने स्नातः स मृतो नर्मदातटे ॥

228.100

मूर्खो ऽभूद् ब्राह्मणवरो वाराणस्यां च भो द्विजाः
तत्रास्य वसतो ऽब्दैस् तु त्रिंशद्भिः सिद्धपूरुषः ॥

228.101

विरूपरूपी बभ्राम योगमालाबलान्वितः
तं दृष्ट्वा सोपहासार्थम् अभिवाद्याभ्युवाच ह ॥

228.102

कुशलं सिद्धपुरुषं कुतस् त्व् आगम्यते त्वया ॥

228.103

एवं संभाषितस् तेन ज्ञातो ऽहम् इति चिन्त्य तु
प्रत्युवाचाथ वन्द्यस् तं स्वर्गलोकाद् उपागतः ॥

228.104

तं सिद्धं प्राह मूर्खो ऽसौ किं त्वं वेत्सि त्रिविष्टपे
नारायणोरुप्रभवाम् उर्वशीम् अप्सरोवराम् ॥

228.105

सिद्धस् तम् आह तां वेद्मि शक्रचामरधारिणीम्
स्वर्गस्याभरणं मुख्यम् उर्वशीं साधुसंभवाम् ॥

228.106

विप्रः सिद्धम् उवाचाथ ऋजुमार्गविवर्जितः
तन् मित्र मत्कृते वार्त्ताम् उर्वश्या भवतादरात् ॥

228.107

कथनीया यच् च सा ते ब्रूयाद् आख्यास्यते भवान्
बाढम् इत्य् अब्रवीत् सिद्धः सो ऽपि विप्रो मुदान्वितः ॥

228.108

बभूव सिद्धो ऽपि ययौ मेरुपृष्ठं सुरालयम्
समेत्य चोर्वशीं प्राह यद् उक्तो ऽसौ द्विजेन तु ॥

228.109

सा प्राह तं सिद्धवरं नाहं काशिपतिं द्विजम्
जानामि सत्यम् उक्तं ते न चेतसि मम स्थितम् ॥

228.110

इत्य् उक्तः प्रययौ सो ऽपि कालेन बहुना पुनः
वाराणसीं ययौ सिद्धो दृष्टो मूर्खेण वै पुनः ॥

228.111

दृष्टः पृष्टः किल भूयः किम् आहोरुभवा तव
सिद्धो ऽब्रवीन् न जानामि माम् उवाचोर्वशी स्वयम् ॥

228.112

सिद्धवाक्यं ततः श्रुत्वा स्मितभिन्नौष्ठसंपुटः
पुनः प्राह कथं वेत्सीत्य् एवं वाच्या त्वयोर्वशी ॥

228.113

बाढम् एवं करिष्यामीत्य् उक्त्वा सिद्धो दिवं गतः
ददर्श शक्रभवनान् निष्क्रामन्तीम् अथोर्वशीम् ॥

228.114

प्रोवाच तां सिद्धवरः सा च तं सिद्धम् अब्रवीत्
नियमं कंचिद् अपि हि करोतु द्विजसत्तमः ॥

228.115

येनाहं कर्मणा सिद्ध तं जानामि न चान्यथा
तद् उर्वशीवचो ऽभ्येत्य तस्मै मूर्खद्विजाय तु ॥

228.116

कथयाम् आस सिद्धस् तु सो ऽपीमं नियमं जगौ
तवाग्रे सिद्धपुरुष नियमो ऽयं कृतो मया ॥

228.117

न भोक्ष्ये ऽद्यप्रभृति वै शकटं सत्यम् ईरितम्
इत्य् उक्तः प्रययौ सिद्धः स्वर्गे दृष्ट्वोर्वशीम् अथ ॥

228.118

प्राहासौ शकटं भोक्ष्ये नाद्यप्रभृति कर्हिचित्
तं सिद्धम् उर्वशी प्राह ज्ञातो ऽसौ सांप्रतं मया ॥

228.119

नियमग्रहणाद् एव मूर्खो माम् उपहासकः
इत्य् उक्त्वा प्रययौ शीघ्रं वासं नारायणात्मजा ॥

228.120

सिद्धो ऽपि विचचारासौ कामचारी महीतलम्
उर्वश्य् अपि वरारोहा गत्वा वाराणसीं पुरीम् ॥

228.121

मत्स्योदरीजले स्नानं चक्रे दिव्यवपुर्धरा
अथासाव् अपि मूर्खस् तु नदीं मत्स्योदरीं मुने ॥

228.122

जगामाथ ददर्शासौ स्नायमानाम् अथोर्वशीम्
तां दृष्ट्वा ववृधे ऽथास्य मन्मथः क्षोभकृद् दृढम् ॥

228.123

चकार मूर्खश् चेष्टाश् च तं विवेदोर्वशी स्वयम्
तं मूर्खं सिद्धगदितं ज्ञात्वा सस्मितम् आह तम् ॥

228.124

किम् इच्छसि महाभाग मत्तः शीघ्रम् इहोच्यताम्
करिष्यामि वचस् तुभ्यं त्वं विश्रब्धं करिष्यसि ॥

228.125

आत्मप्रदानेन मम प्राणान् रक्ष शुचिस्मिते ॥

228.126

तं प्राहाथोर्वशी विप्रं नियमस्थास्मि सांप्रतम्
त्वं तिष्ठस्व क्षणम् अथ प्रतीक्षस्वागतं मम ॥

228.127

स्थितो ऽस्मीत्य् अब्रवीद् विप्रः सापि स्वर्गं जगाम ह
मासमात्रेण सायाता ददर्श तं कृशं द्विजम् ॥

228.128

स्थितं मासं नदीतीरे निराहारं सुराङ्गना
तं दृष्ट्वा निश्चययुतं भूत्वा वृद्धवपुस् ततः ॥

228.129

सा चकार नदीतीरे शकटं शर्करावृतम्
घृतेन मधुना चैव नदीं मत्स्योदरीं गता ॥

228.130

स्नात्वाथ भूमौ वसन्ती शकटं च यथार्थतः
तं ब्राह्मणं समाहूय वाक्यम् आह सुलोचना ॥

228.131

मया तीव्रं व्रतं विप्र चीर्णं सौभाग्यकारणात्
व्रतान्ते निष्कृतिं दद्यां प्रतिगृह्णीष्व भो द्विज ॥

228.132

स प्राह किम् इदं लोके दीयते शर्करावृतम्
क्षुत्क्षामकण्ठः पृच्छामि साधु भद्रे समीरय ॥

228.133

सा प्राह शकटो विप्र शर्करापिष्टसंयुतः
इमं त्वं समुपादाय प्राणं तर्पय मा चिरम् ॥

228.134

स तच् छ्रुत्वाथ संस्मृत्य क्षुधया पीडितो ऽपि सन्
प्राह भद्रे न गृह्णामि नियमो हि कृतो मया ॥

228.135

पुरतः सिद्धवर्गस्य न भोक्ष्ये शकटं त्व् इति
परिज्ञानार्थम् उर्वश्या ददस्वान्यस्य कस्यचित् ॥

228.136

साब्रवीन् नियमो भद्र कृतः काष्ठमये त्वया
नासौ काष्ठमयो भुङ्क्ष्व क्षुधया चातिपीडितः ॥

228.137

तां ब्राह्मणः प्रत्युवाच न मया तद् विशेषणम्
कृतं भद्रे ऽथ नियमः सामान्येनैव मे कृतः ॥

228.138

तं भूयः प्राह सा तन्वी न चेद् भोक्ष्यसि ब्राह्मण
गृहं गृहीत्वा गच्छस्व कुटुम्बं तव भोक्ष्यति ॥

228.139

स ताम् उवाच सुदति न तावद् यामि मन्दिरम्
इहायाता वरारोहा त्रैलोक्ये ऽप्य् अधिका गुणैः ॥

228.140

सा मया मदनार्तेन प्रार्थिताश्वासितस् तया
स्थीयतां क्षणम् इत्य् एवं स्थास्यामीति मयोदितम् ॥

228.141

मासमात्रं गतायास् तु तस्या भद्रे स्थितस्य च
मम सत्यानुरक्तस्य संगमाय धृतव्रते ॥

228.142

तस्य सा वचनं श्रुत्वा कृत्वा स्वं रूपम् उत्तमम्
विहस्य भावगम्भीरम् उर्वशी प्राह तं द्विजम् ॥

228.143

साधु सत्यं त्वया विप्र व्रतं निष्ठितचेतसा
निष्पादितं हठाद् एव मम दर्शनम् इच्छता ॥

228.144

अहम् एवोर्वशी विप्र त्वां जिज्ञासार्थम् आगता
परीक्षितो निश्चितवान् भवान् सत्यतपा ऋषिः ॥

228.145

गच्छ शूकरवोद्देशं रूपतीर्थेति विश्रुतम्
सिद्धिं यास्यसि विप्रेन्द्र ततस् त्वं माम् अवाप्स्यसि ॥

228.146

इत्य् उक्त्वा दिवम् उत्पत्य सा जगामोर्वशी द्विजाः
स च सत्यतपा विप्रो रूपतीर्थं जगाम ह ॥

228.147

तत्र शान्तिपरो भूत्वा नियमव्रतधृक् शुचिः
देहोत्सर्गे जगामासौ गान्धर्वं लोकम् उत्तमम् ॥

228.148

तत्र मन्वन्तरशतं भोगान् भुक्त्वा यथार्थतः
बभूव सुकुले राजा प्रजारञ्जनतत्परः ॥

228.149

स यज्वा विविधैर् यज्ञैः समाप्तवरदक्षिणैः
पुत्रेषु राज्यं निक्षिप्य ययौ शौकरवं पुनः ॥

228.150

रूपतीर्थे मृतो भूयः शक्रलोकम् उपागतः
तत्र मन्वन्तरशतं भोगान् भुक्त्वा ततश् च्युतः ॥

228.151

प्रतिष्ठाने पुरवरे बुधपुत्रः पुरूरवाः
बभूव तत्र चोर्वश्याः संगमाय तपोधनाः ॥

228.152

एवं पुरा सत्यतपा द्विजातिस् तीर्थे प्रसिद्धे स हि रूपसंज्ञे
आराध्य जन्मन्य् अथ चार्च्य विष्णुम् अवाप्य भोगान् अथ मुक्तिम् एति

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc