भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 227

227.1

अहो कृष्णस्य माहात्म्यं श्रुतम् अस्माभिर् अद्भुतम्
सर्वपापहरं पुण्यं धन्यं संसारनाशनम् ॥

227.2

संपूज्य विधिवद् भक्त्या वासुदेवं महामुने
कां गतिं यान्ति मनुजा वासुदेवार्चने रताः ॥

227.3

किं प्राप्नुवन्ति ते मोक्षं किं वा स्वर्गं महामुने
अथवा किं मुनिश्रेष्ठ प्राप्नुवन्त्य् उभयं फलम् ॥

227.4

छेत्तुम् अर्हसि सर्वज्ञ संशयं नो हृदि स्थितम्
छेत्ता नान्यो ऽस्ति लोके ऽस्मिंस् त्वदृते मुनिसत्तम ॥

227.5

साधु साधु मुनिश्रेष्ठा भवद्भिर् यद् उदाहृतम्
शृणुध्वम् आनुपूर्व्येण वैष्णवानां सुखावहम् ॥

227.6

दीक्षामात्रेण कृष्णस्य नरा मोक्षं व्रजन्ति वै
किं पुनर् ये सदा भक्त्या पूजयन्त्य् अच्युतं द्विजाः ॥

227.7

न तेषां दुर्लभः स्वर्गो मोक्षश् च मुनिसत्तमाः
लभन्ते वैष्णवाः कामान् यान् यान् वाञ्छन्ति दुर्लभान् ॥

227.8

रत्नपर्वतम् आरुह्य नरो रत्नं यथाददेत्
स्वेच्छया मुनिशार्दूलास् तथा कृष्णान् मनोरथान् ॥

227.9

कल्पवृक्षं समासाद्य फलानि स्वेच्छया यथा
गृह्णाति पुरुषो विप्रास् तथा कृष्णान् मनोरथान् ॥

227.10

श्रद्धया विधिवत् पूज्य वासुदेवं जगद्गुरुम्
धर्मार्थकाममोक्षाणां प्राप्नुवन्ति नराः फलम् ॥

227.11

आराध्य तं जगन्नाथं विशुद्धेनान्तरात्मना
प्राप्नुवन्ति नराः कामान् सुराणाम् अपि दुर्लभान् ॥

227.12

ये ऽर्चयन्ति सदा भक्त्या वासुदेवाख्यम् अव्ययम्
न तेषां दुर्लभं किंचिद् विद्यते भुवनत्रये ॥

227.13

धन्यास् ते पुरुषा लोके ये ऽर्चयन्ति सदा हरिम्
सर्वपापहरं देवं सर्वकामफलप्रदम् ॥

227.14

ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः
संपूज्य तं सुरवरं प्राप्नुवन्ति परां गतिम् ॥

227.15

तस्माच् छृणुध्वं मुनयो यत् पृच्छत ममानघाः
प्रवक्ष्यामि समासेन गतिं तेषां महात्मनाम् ॥

227.16

त्यक्त्वा मानुष्यकं देहं रोगायतनम् अध्रुवम्
जरामरणसंयुक्तं जलबुद्बुदसंनिभम् ॥

227.17

मांसशोणितदुर्गन्धं विष्ठामूत्रादिभिर् युतम्
अस्थिस्थूणम् अमेध्यं च स्नायुचर्मशिरान्वितम् ॥

227.18

कामगेन विमानेन दिव्यगन्धर्वनादिना
तरुणादित्यवर्णेन किङ्किणीजालमालिना ॥

227.19

उपगीयमाना गन्धर्वैर् अप्सरोभिर् अलंकृताः
व्रजन्ति लोकपालानां भवनं तु पृथक् पृथक् ॥

227.20

मन्वन्तरप्रमाणं तु भुक्त्वा कालं पृथक् पृथक्
भुवनानि पृथक् तेषां सर्वभोगैर् अलंकृताः ॥

227.21

ततो ऽन्तरिक्षं लोकं ते यान्ति सर्वसुखप्रदम्
तत्र भुक्त्वा वरान् भोगान् दशमन्वन्तरं द्विजाः ॥

227.22

तस्माद् गन्धर्वलोकं तु यान्ति वै वैष्णवा द्विजाः
विंशन्मन्वन्तरं कालं तत्र भुक्त्वा मनोरमान् ॥

227.23

भोगान् आदित्यलोकं तु तस्माद् यान्ति सुपूजिताः
त्रिंशन्मन्वन्तरं तत्र भोगान् भुक्त्वातिदैवतान् ॥

227.24

तस्माद् व्रजन्ति ते विप्राश् चन्द्रलोकं सुखप्रदम्
मन्वन्तराणां ते तत्र चत्वारिंशद् गुणान्वितम् ॥

227.25

कालं भुक्त्वा शुभान् भोगाञ् जरामरणवर्जिताः
तस्मान् नक्षत्रलोकं तु विमानैः समलंकृतम् ॥

227.26

व्रजन्ति ते मुनिश्रेष्ठा गुणैः सर्वैर् अलंकृताः
मन्वन्तराणां पञ्चाशद् भुक्त्वा भोगान् यथेप्सितान् ॥

227.27

तस्माद् व्रजन्ति ते विप्रा देवलोकं सुदुर्लभम्
षष्टिमन्वन्तरं यावत् तत्र भुक्त्वा सुदुर्लभान् ॥

227.28

भोगान् नानाविधान् विप्रा ऋग्द्व्यष्टकसमन्वितान्
शक्रलोकं पुनस् तस्माद् गच्छन्ति सुरपूजिताः ॥

227.29

मन्वन्तराणां तत्रैव भुक्त्वा कालं च सप्ततिम्
भोगान् उच्चावचान् दिव्यान् मनसः प्रीतिवर्धनान् ॥

227.30

तस्माद् व्रजन्ति ते लोकं प्राजापत्यम् अनुत्तमम्
भुक्त्वा तत्रेप्सितान् भोगान् सर्वकामगुणान्वितान् ॥

227.31

मन्वन्तरम् अशीतिं च कालं सर्वसुखप्रदम्
तस्मात् पैतामहं लोकं यान्ति ते वैष्णवा द्विजाः ॥

227.32

मन्वन्तराणां नवति क्रीडित्वा तत्र वै सुखम्
इहागत्य पुनस् तस्माद् विप्राणां प्रवरे कुले ॥

227.33

जायन्ते योगिनो विप्रा वेदशास्त्रार्थपारगाः
एवं सर्वेषु लोकेषु भुक्त्वा भोगान् यथेप्सितान् ॥

227.34

इहागत्य पुनर् यान्ति उपर्य् उपरि च क्रमात्
संभवे संभवे ते तु शतवर्षं द्विजोत्तमाः ॥

227.35

भुक्त्वा यथेप्सितान् भोगान् यान्ति लोकान्तरं ततः
दशजन्म यदा तेषां क्रमेणैवं प्रपूर्यते ॥

227.36

तदा लोकं हरेर् दिव्यं ब्रह्मलोकाद् व्रजन्ति ते
गत्वा तत्राक्षयान् भोगान् भुक्त्वा सर्वगुणान्वितान् ॥

227.37

मन्वन्तरशतं यावज् जन्ममृत्युविवर्जिताः
गच्छन्ति भुवनं पश्चाद् वाराहस्य द्विजोत्तमाः ॥

227.38

दिव्यदेहाः कुण्डलिनो महाकाया महाबलाः
क्रीडन्ति तत्र विप्रेन्द्राः कृत्वा रूपं चतुर्भुजम् ॥

227.39

दश कोटिसहस्राणि वर्षाणां द्विजसत्तमाः
तिष्ठन्ति शाश्वते भावे सर्वैर् देवैर् नमस्कृताः ॥

227.40

ततो यान्ति तु ते धीरा नरसिंहगृहं द्विजाः
क्रीडन्ते तत्र मुदिता वर्षकोट्ययुतानि च ॥

227.41

तदन्ते वैष्णवं यान्ति पुरं सिद्धनिषेवितम्
क्रीडन्ते तत्र सौख्येन वर्षाणाम् अयुतानि च ॥

227.42

ब्रह्मलोके पुनर् विप्रा गच्छन्ति साधकोत्तमाः
तत्र स्थित्वा चिरं कालं वर्षकोटिशतान् बहून् ॥

227.43

नारायणपुरं यान्ति ततस् ते साधकेश्वराः
भुक्त्वा भोगांश् च विविधान् वर्षकोट्यर्बुदानि च ॥

227.44

अनिरुद्धपुरं पश्चाद् दिव्यरूपा महाबलाः
गच्छन्ति साधकवराः स्तूयमानाः सुरासुरैः ॥

227.45

तत्र कोटिसहस्राणि वर्षाणां च चतुर्दश
तिष्ठन्ति वैष्णवास् तत्र जरामरणवर्जिताः ॥

227.46

प्रद्युम्नस्य पुरं पश्चाद् गच्छन्ति विगतज्वराः
तत्र तिष्ठन्ति ते विप्रा लक्षकोटिशतत्रयम् ॥

227.47

स्वच्छन्दगामिनो हृष्टा बलशक्तिसमन्विताः
गच्छन्ति योगिनः पश्चाद् यत्र संकर्षणः प्रभुः ॥

227.48

तत्रोषित्वा चिरं कालं भुक्त्वा भोगान् सहस्रशः
विशन्ति वासुदेवैति विरूपाख्ये निरञ्जने ॥

227.49

विनिर्मुक्ताः परे तत्त्वे जरामरणवर्जिते
तत्र गत्वा विमुक्तास् ते भवेयुर् नात्र संशयः ॥

227.50

एवं क्रमेण भुक्तिं ते प्राप्नुवन्ति मनीषिणः
मुक्तिं च मुनिशार्दूला वासुदेवार्चने रताः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc