ब्रह्म पुराण · अध्याय 21
विस्तार एष कथितः पृथिव्या मुनिसत्तमाः
सप्ततिस् तु सहस्राणि तदुच्छ्रायो ऽपि कथ्यते ॥
दशसाहस्रम् एकैकं पातालं मुनिसत्तमाः
अतलं वितलं चैव नितलं सुतलं तथा ॥
तलातलं रसातलं पातालं चापि सप्तमम्
कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनी ॥
भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः
तेषु दानवदैतेय जातयः शतशः स्थिताः ॥
नागानां च महाङ्गानां ज्ञातयश् च द्विजोत्तमाः
स्वर्लोकाद् अपि रम्याणि पातालानीति नारदः ॥
प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम्
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ॥
नागाभरणभूषाश् च पातालं केन तत्समम्
दैत्यदानवकन्याभिर् इतश् चेतश् च शोभिते ॥
पाताले कस्य न प्रीतिर् विमुक्तस्यापि जायते
दिवार्करश्मयो यत्र प्रभास् तन्वन्ति नातपम् ॥
शशिनश् च न शीताय निशि द्योताय केवलम्
भक्ष्यभोज्यमहापान मदमत्तैश् च भोगिभिः ॥
यत्र न ज्ञायते कालो गतो ऽपि दनुजादिभिः
वनानि नद्यो रम्याणि सरांसि कमलाकराः ॥
पुंस्कोकिलादिलापाश् च मनोज्ञान्य् अम्बराणि च
भूषणान्य् अतिरम्याणि गन्धाद्यं चानुलेपनम् ॥
वीणावेणुमृदङ्गानां निःस्वनाश् च सदा द्विजाः
एतान्य् अन्यानि रम्याणि भाग्यभोग्यानि दानवैः ॥
दैत्योरगैश् च भुज्यन्ते पातालान्तरगोचरैः
पातालानाम् अधश् चास्ते विष्णोर् या तामसी तनुः ॥
शेषाख्या यद्गुणान् वक्तुं न शक्ता दैत्यदानवाः
यो ऽनन्तः पठ्यते सिद्धैर् देवदेवर्षिपूजितः ॥
सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः
फणामणिसहस्रेण यः स विद्योतयन् दिशः ॥
सर्वान् करोति निर्वीर्यान् हिताय जगतो ऽसुरान्
मदाघूर्णितनेत्रो ऽसौ यः सदैवैककुण्डलः ॥
किरीटी स्रग्धरो भाति साग्निश्वेत इवाचलः
नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः ॥
साभ्रगङ्गाप्रपातो ऽसौ कैलासाद्रिर् इवोत्तमः
लाङ्गलासक्तहस्ताग्रो बिभ्रन् मुशलम् उत्तमम् ॥
उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया
कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः ॥
संकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम्
स बिभ्रच्छिखरीभूतम् अशेषं क्षितिमण्डलम् ॥
आस्ते पातालमूलस्थः शेषो ऽशेषसुरार्चितः
तस्य वीर्यं प्रभावश् च स्वरूपं रूपम् एव च ॥
नहि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैर् अपि
यस्यैषा सकला पृथ्वी फणामणिशिखारुणा ॥
आस्ते कुसुममालेव कस् तद्वीर्यं वदिष्यति
यदा विजृम्भते ऽनन्तो मदाघूर्णितलोचनः ॥
तदा चलति भूर् एषा साद्रितोयाधिकानना
गन्धर्वाप्सरसः सिद्धाः किंनरोरगवारणाः ॥
नान्तं गुणानां गच्छन्ति ततो ऽनन्तो ऽयम् अव्ययः
यस्य नागवधूहस्तैर् लापितं हरिचन्दनम् ॥
मुहुः श्वासानिलायस्तं याति दिक्पटवासताम्
यम् आराध्य पुराणर्षिर् गर्गो ज्योतींषि तत्त्वतः ॥
ज्ञातवान् सकलं चैव निमित्तपठितं फलम्
तेनेयं नागवर्येण शिरसा विधृता मही
बिभर्ति सकलांल् लोकान् सदेवासुरमानुषान् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0