भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 217

217.1

श्रुत्वैवं यममार्गं ते नरकेषु च यातनाम्
पप्रच्छुश् च पुनर् व्यासं संशयं मुनिसत्तमाः ॥

217.2

भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद
मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ॥

217.3

ज्ञातिसंबन्धिवर्गश् च मित्रवर्गस् तथैव च
गृहं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः
गच्छन्त्य् अमुत्र लोके वै कश् च तान् अनुगच्छति ॥

217.4

एकः प्रसूयते विप्रा एक एव हि नश्यति
एकस् तरति दुर्गाणि गच्छत्य् एकस् तु दुर्गतिम् ॥

217.5

असहायः पिता माता तथा भ्राता सुतो गुरुः
ज्ञातिसंबन्धिवर्गश् च मित्रवर्गस् तथैव च ॥

217.6

मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः
मुहूर्तम् इव रोदित्वा ततो यान्ति पराङ्मुखाः ॥

217.7

तैस् तच् छरीरम् उत्सृष्टं धर्म एको ऽनुगच्छति
तस्माद् धर्मः सहायश् च सेवितव्यः सदा नृभिः ॥

217.8

प्राणी धर्मसमायुक्तो गच्छेत् स्वर्गगतिं पराम्
तथैवाधर्मसंयुक्तो नरकं चोपपद्यते ॥

217.9

तस्मात् पापागतैर् अर्थैर् नानुरज्येत पण्डितः
धर्म एको मनुष्याणां सहायः परिकीर्तितः ॥

217.10

लोभान् मोहाद् अनुक्रोशाद् भयाद् वाथ बहुश्रुतः
नरः करोत्य् अकार्याणि परार्थे लोभमोहितः ॥

217.11

धर्मश् चार्थश् च कामश् च त्रितयं जीवतः फलम्
एतत् त्रयम् अवाप्तव्यम् अधर्मपरिवर्जितम् ॥

217.12

श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम्
शरीरनिचयं ज्ञातुं बुद्धिर् नो ऽत्र प्रजायते ॥

217.13

मृतं शरीरं हि नृणां सूक्ष्मम् अव्यक्ततां गतम्
अचक्षुर्विषयं प्राप्तं कथं धर्मो ऽनुगच्छति ॥

217.14

पृथिवी वायुर् आकाशम् आपो ज्योतिर् मनोन्तरम्
बुद्धिर् आत्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥

217.15

प्राणिनाम् इह सर्वेषां साक्षिभूता दिवानिशम्
एतैश् च सह धर्मो हि तं जीवम् अनुगच्छति ॥

217.16

त्वग् अस्थि मांसं शुक्रं च शोणितं च द्विजोत्तमाः
शरीरं वर्जयन्त्य् एते जीवितेन विवर्जितम् ॥

217.17

ततो धर्मसमायुक्तः स जीवः सुखम् एधते
इहलोके परे चैव किं भूयः कथयामि वः ॥

217.18

तद् दर्शितं भगवता यथा धर्मो ऽनुगच्छति
एतत् तु ज्ञातुम् इच्छामः कथं रेतः प्रवर्तते ॥

217.19

अन्नम् अश्नन्ति ये देवाः शरीरस्था द्विजोत्तमाः
पृथिवी वायुर् आकाशम् आपो ज्योतिर् मनस् तथा ॥

217.20

ततस् तृप्तेषु भो विप्रास् तेषु भूतेषु पञ्चसु
मनःषष्ठेषु शुद्धात्मा रेतः संपद्यते महत् ॥

217.21

ततो गर्भः संभवति श्लेष्मा स्त्रीपुंसयोर् द्विजाः
एतद् वः सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छथ ॥

217.22

आख्यातं नो भगवता गर्भः संजायते यथा
यथा जातस् तु पुरुषः प्रपद्यते तद् उच्यताम् ॥

217.23

आसन्नमात्रपुरुषस् तैर् भूतैर् अभिभूयते
विप्रयुक्तस् तु तैर् भूतैः पुनर् यात्य् अपरां गतिम् ॥

217.24

स च भूतसमायुक्तः प्राप्नोति जीवम् एव हि
ततो ऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम्
देवताः पञ्चभूतस्थाः किं भूयः श्रोतुम् इच्छथ ॥

217.25

त्वग् अस्थि मांसम् उत्सृज्य तैस् तु भूतैर् विवर्जितः
जीवः स भगवन् क्वस्थः सुखदुःखे समश्नुते ॥

217.26

जीवः कर्मसमायुक्तः शीघ्रं रेतःसमागतः
स्त्रीणां पुष्पं समासाद्य ततः कालेन भो द्विजाः ॥

217.27

यमस्य पुरुषैः क्लेशो यमस्य पुरुषैर् वधः
दुःखं संसारचक्रं च नरः क्लेशं च विन्दति ॥

217.28

इह लोके स तु प्राणी जन्मप्रभृति भो द्विजाः
सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलम् आश्रितः ॥

217.29

यदि धर्मं समायुज्य जन्मप्रभृति सेवते
ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ॥

217.30

अथान्तरान्तरं धर्मम् अधर्मम् उपसेवते
सुखस्यानन्तरं दुःखं स जीवो ऽप्य् अधिगच्छति ॥

217.31

अधर्मेण समायुक्तो यमस्य विषयं गतः
महादुःखं समासाद्य तिर्यग्योनौ प्रजायते ॥

217.32

कर्मणा येन येनेह यस्यां योनौ प्रजायते
जीवो मोहसमायुक्तस् तन् मे शृणुत सांप्रतम् ॥

217.33

यद् एतद् उच्यते शास्त्रैः सेतिहासैश् च छन्दसि
यमस्य विषयं घोरं मर्त्यलोकं प्रवर्तते ॥

217.34

इह स्थानानि पुण्यानि देवतुल्यानि भो द्विजाः
तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः ॥

217.35

यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः
कर्मभिर् नियतैर् बद्धो जन्तुर् दुःखान्य् उपाश्नुते ॥

217.36

येन येन हि भावेन येन वै कर्मणा गतिम्
प्रयाति पुरुषो घोरां तथा वक्ष्याम्य् अतः परम् ॥

217.37

अधीत्य चतुरो वेदान् द्विजो मोहसमन्वितः
पतितात् प्रतिगृह्याथ खरयोनौ प्रजायते ॥

217.38

खरो जीवति वर्षाणि दश पञ्च च भो द्विजाः
खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति ॥

217.39

बलीवर्दो मृतश् चापि जायते ब्रह्मराक्षसः
ब्रह्मरक्षस् तु मासांस् त्रींस् ततो जायेत ब्राह्मणः ॥

217.40

पतितं याजयित्वा तु कृमियोनौ प्रजायते
तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः ॥

217.41

क्रिमिभावाद् विनिर्मुक्तस् ततो जायेत गर्दभः
गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि शूकरः ॥

217.42

कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः
श्वा वर्षम् एकं भवति ततो जायेत मानवः ॥

217.43

उपाध्यायस्य यः पापं शिष्यः कुर्याद् अबुद्धिमान्
स जन्मानीह संसारे त्रीन् आप्नोति न संशयः ॥

217.44

प्राक् श्वा भवति भो विप्रास् ततः क्रव्यात् ततः खरः
प्रेत्य च परिक्लिष्टेषु पश्चाज् जायेत ब्राह्मणः ॥

217.45

मनसापि गुरोर् भार्यां यः शिष्यो याति पापकृत्
उदग्रान् प्रैति संसारान् अधर्मेणेह चेतसा ॥

217.46

श्वयोनौ तु स संभूतस् त्रीणि वर्षाणि जीवति
तत्रापि निधनं प्राप्तः क्रिमियोनौ प्रजायते ॥

217.47

कृमिभावम् अनुप्राप्तो वर्षम् एकं तु जीवति
ततस् तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते ॥

217.48

यदि पुत्रसमं शिष्यं गुरुर् हन्याद् अकारणम्
आत्मनः कामकारेण सो ऽपि हिंस्रः प्रजायते ॥

217.49

पितरं मातरं चैव यस् तु पुत्रो ऽवमन्यते
सो ऽपि विप्रा मृतो जन्तुः पूर्वं जायेत गर्दभः ॥

217.50

गर्दभत्वं तु संप्राप्य दश वर्षाणि जीवति
संवत्सरं तु कुम्भीरस् ततो जायेत मानवः ॥

217.51

पुत्रस्य मातापितरौ यस्य रुष्टाव् उभाव् अपि
गुर्वपध्यानतः सो ऽपि मृतो जायेत गर्दभः ॥

217.52

खरो जीवति मासांश् च दश चापि चतुर्दश
बिडालः सप्त मासांस् तु ततो जायेत मानवः ॥

217.53

मातापितराव् आक्रुश्य सारीकः संप्रजायते
ताडयित्वा तु ताव् एव जायते कच्छपो द्विजाः ॥

217.54

कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः
व्यालो भूत्वा तु षण् मासांस् ततो जायेत मानुषः ॥

217.55

भर्तृपिण्डम् उपाश्नीनो राजद्विष्टानि सेवते
सो ऽपि मोहसमापन्नो मृतो जायेत वानरः ॥

217.56

वानरो दश वर्षाणि सप्त वर्षाणि मूषकः
श्वा च भूत्वा तु षण् मासांस् ततो जायेत मानवः ॥

217.57

न्यासापहर्ता तु नरो यमस्य विषयं गतः
संसाराणां शतं गत्वा कृमियोनौ प्रजायते ॥

217.58

तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः
दुष्कृतस्य क्षयं कृत्वा ततो जायेत मानुषः ॥

217.59

असूयको नरश् चापि मृतो जायेत शार्ङ्गकः
विश्वासहर्ता च नरो मीनो जायेत दुर्मतिः ॥

217.60

भूत्वा मीनो ऽष्ट वर्षाणि मृगो जायेत भो द्विजाः
मृगस् तु चतुरो मासांस् ततश् छागः प्रजायते ॥

217.61

छागस् तु निधनं प्राप्य पूर्णे संवत्सरे ततः
कीटः संजायते जन्तुस् ततो जायेत मानुषः ॥

217.62

धान्यान् यवांस् तिलान् माषान् कुलित्थान् सर्षपांश् चणान्
कलायान् अथ मुद्गांश् च गोधूमान् अतसीस् तथा ॥

217.63

सस्यान्य् अन्यानि हर्ता च मर्त्यो मोहाद् अचेतनः
संजायते मुनिश्रेष्ठा मूषिको निरपत्रपः ॥

217.64

ततः प्रेत्य मुनिश्रेष्ठा मृतो जायेत शूकरः
शूकरो जातमात्रस् तु रोगेण म्रियते पुनः ॥

217.65

श्वा ततो जायते मूकः कर्मणा तेन मानवः
भूत्वा श्वा पञ्च वर्षाणि ततो जायेत मानवः ॥

217.66

परदाराभिमर्शं तु कृत्वा जायेत वै वृकः
श्वा शृगालस् ततो गृध्रो व्यालः कङ्को बकस् तथा ॥

217.67

भ्रातुर् भार्यां तु पापात्मा यो धर्षयति मोहितः
पुंस्कोकिलत्वम् आप्नोति सो ऽपि संवत्सरं द्विजाः ॥

217.68

सखिभार्यां गुरोर् भार्यां राजभार्यां तथैव च
प्रधर्षयित्वा कामात्मा मृतो जायेत शूकरः ॥

217.69

शूकरः पञ्च वर्षाणि दश वर्षाणि वै बकः
पिपीलिकस् तु मासांस् त्रीन् कीटः स्यान् मासम् एव च ॥

217.70

एतान् आसाद्य संसारान् कृमियोनौ प्रजायते
तत्र जीवति मासांस् तु कृमियोनौ चतुर्दश ॥

217.71

नरो ऽधर्मक्षयं कृत्वा ततो जायेत मानुषः
पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुम् इच्छति ॥

217.72

सो ऽपि विप्रा मृतो जन्तुः क्रिमियोनौ प्रजायते
तत्र जीवति वर्षाणि त्रयोदश द्विजोत्तमाः ॥

217.73

अधर्मसंक्षये मुक्तस् ततो जायेत मानुषः
देवकार्यम् अकृत्वा तु पितृकार्यम् अथापि वा ॥

217.74

अनिर्वाप्य पितॄन् देवान् मृतो जायेत वायसः
वायसः शतवर्षाणि ततो जायेत कुक्कुटः ॥

217.75

जायते व्यालकश् चापि मासं तस्मात् तु मानुषः
ज्येष्ठं पितृसमं चापि भ्रातरं यो ऽवमन्यते ॥

217.76

सो ऽपि मृत्युम् उपागम्य क्रौञ्चयोनौ प्रजायते
क्रौञ्चो जीवति वर्षाणि दश जायेत जीवकः ॥

217.77

ततो निधनम् आप्नोति मानुषत्वम् अवाप्नुयात्
वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ॥

217.78

ततः संप्राप्य निधनं जायते शूकरः पुनः
शूकरो जातमात्रस् तु रोगेण म्रियते द्विजाः ॥

217.79

श्वा च वै जायते मूढः कर्मणा तेन भो द्विजाः
श्वा भूत्वा कृतकर्मासौ जायते मानुषस् ततः ॥

217.80

तत्रापत्यं समुत्पाद्य मृतो जायेत मूषिकः
कृतघ्नस् तु मृतो विप्रा यमस्य विषयं गतः ॥

217.81

यमस्य विषये क्रूरैर् बद्धः प्राप्नोति वेदनाम्
दण्डकं मुद्गरं शूलम् अग्निदण्डं च दारुणम् ॥

217.82

असिपत्त्रवनं घोरं वालुकां कूटशाल्मलीम्
एताश् चान्याश् च बहवो यमस्य विषयं गताः ॥

217.83

यातनाः प्राप्य घोरास् तु ततो याति च भो द्विजाः
संसारचक्रम् आसाद्य क्रिमियोनौ प्रजायते ॥

217.84

क्रिमिर् भवति वर्षाणि दश पञ्च च भो द्विजाः
ततो गर्भं समासाद्य तत्रैव म्रियते नरः ॥

217.85

ततो गर्भशतैर् जन्तुर् बहुशः संप्रपद्यते
संसारान् सुबहून् गत्वा ततस् तिर्यक् प्रजायते ॥

217.86

ततो दुःखम् अनुप्राप्य बहुवर्षगणानि वै
स पुनर्भवसंयुक्तस् ततः कूर्मः प्रजायते ॥

217.87

दधि हृत्वा बकश् चापि प्लवो मत्स्यान् असंस्कृतान्
चोरयित्वा तु दुर्बुद्धिर् मधुदंशः प्रजायते ॥

217.88

फलं वा मूलकं हृत्वा पूपं वापि पिपीलिकः
चोरयित्वा तु निष्पावं जायते फलमूषकः ॥

217.89

पायसं चोरयित्वा तु तित्तिरत्वम् अवाप्नुयात्
हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते ॥

217.90

अपो हृत्वा तु दुर्बुद्धिर् वायसो जायते नरः
कांस्यं हृत्वा तु दुर्बुद्धिर् हारीतो जायते नरः ॥

217.91

राजतं भाजनं हृत्वा कपोतः संप्रजायते
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥

217.92

पत्त्रोर्णं चोरयित्वा तु कुररत्वं नियच्छति
कोशकारं ततो हृत्वा नरो जायेत नर्तकः ॥

217.93

अंशुकं चोरयित्वा तु शुको जायेत मानवः
चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते ॥

217.94

क्रौञ्चः कार्पासिकं हृत्वा मृतो जायेत मानवः
चोरयित्वा नरः पट्टं त्व् आविकं चैव भो द्विजाः ॥

217.95

क्षौमं च वस्त्रम् आहृत्य शशो जन्तुः प्रजायते
चूर्णं तु हृत्वा पुरुषो मृतो जायेत बर्हिणः ॥

217.96

हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः
वर्णकादींस् तथा गन्धांश् चोरयित्वेह मानवः ॥

217.97

चुच्छुन्दरित्वम् आप्नोति विप्रो लोभपरायणः
तत्र जीवति वर्षाणि ततो दश च पञ्च च ॥

217.98

अधर्मस्य क्षयं कृत्वा ततो जायेत मानवः
चोरयित्वा पयश् चापि बलाका संप्रजायते ॥

217.99

यस् तु चोरयते तैलं नरो मोहसमन्वितः
सो ऽपि विप्रा मृतो जन्तुस् तैलपायी प्रजायते ॥

217.100

अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः
अर्थार्थं यदि वा वैरी मृतो जायेत वै खरः ॥

217.101

खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते
स मृतो मृगयोनौ तु नित्योद्विग्नो ऽभिजायते ॥

217.102

मृगो विध्येत शस्त्रेण गते संवत्सरे ततः
हतो मृगस् ततो मीनः सो ऽपि जालेन बध्यते ॥

217.103

मासे चतुर्थे संप्राप्ते श्वापदः संप्रजायते
श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च ॥

217.104

ततस् तु निधनं प्राप्तः कालपर्यायचोदितः
अधर्मस्य क्षयं कृत्वा मानुषत्वम् अवाप्नुयात् ॥

217.105

वाद्यं हृत्वा तु पुरुषो लोमशः संप्रजायते
तथा पिण्याकसंमिश्रम् अन्नं यश् चोरयेन् नरः ॥

217.106

स जायते बभ्रुसटो दारुणो मूषिको नरः
दशन् वै मानुषान् नित्यं पापात्मा स द्विजोत्तमाः ॥

217.107

घृतं हृत्वा तु दुर्बुद्धिः काको मद्गुः प्रजायते
मत्स्यमांसम् अथो हृत्वा काको जायेत मानवः ॥

217.108

लवणं चोरयित्वा तु चिरिकाकः प्रजायते
विश्वासेन तु निक्षिप्तं यो ऽपनिह्नोति मानवः ॥

217.109

स गतायुर् नरस् तेन मत्स्ययोनौ प्रजायते
मत्स्ययोनिम् अनुप्राप्य मृतो जायेत मानुषः ॥

217.110

मानुषत्वम् अनुप्राप्य क्षीणायुर् उपजायते
पापानि तु नरः कृत्वा तिर्यग् जायेत भो द्विजाः ॥

217.111

न चात्मनः प्रमाणं तु धर्मं जानाति किंचन
ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा ॥

217.112

सुखदुःखसमायुक्ता व्याधिमन्तो भवन्त्य् उत
असंवीताः प्रजायन्ते म्लेच्छाश् चापि न संशयः ॥

217.113

नराः पापसमाचारा लोभमोहसमन्विताः
वर्जयन्ति हि पापानि जन्मप्रभृति ये नराः ॥

217.114

अरोगा रूपवन्तश् च धनिनस् ते भवन्त्य् उत
स्त्रियो ऽप्य् एतेन कल्पेन कृत्वा पापम् अवाप्नुयुः ॥

217.115

एतेषाम् एव पापानां भार्यात्वम् उपयान्ति ताः
प्रायेण हरणे दोषाः सर्व एव प्रकीर्तिताः ॥

217.116

एतद् वै लेशमात्रेण कथितं वो द्विजर्षभाः
अपरस्मिन् कथायोगे भूयः श्रोष्यथ भो द्विजाः ॥

217.117

एतन् मया महाभागा ब्रह्मणो वदतः पुरा
सुरर्षीणां श्रुतं मध्ये पृष्टं चापि यथा तथा ॥

217.118

मयापि तुभ्यं कार्त्स्न्येन यथावद् अनुवर्णितम्
एतच् छ्रुत्वा मुनिश्रेष्ठा धर्मे कुरुत मानसम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc