ब्रह्म पुराण · अध्याय 216
अहो ऽतिदुःखं घोरं च यममार्गे त्वयोदितम्
नरकाणि च घोराणि द्वारं याम्यं च सत्तम ॥
अस्त्य् उपायो न वा ब्रह्मन् यममार्गे ऽतिभीषणे
ब्रूहि येन नरा यान्ति सुखेन यमसादनम् ॥
इह ये धर्मसंयुक्तास् त्व् अहिंसानिरता नराः
गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः ॥
यस्मिन् मनुष्यलोकास् ते सभार्याः ससुतास् तथा
तम् अध्वानं च गच्छन्ति यथा तत् कथयामि वः ॥
विमानैर् विविधैर् दिव्यैः काञ्चनध्वजशोभितैः
धर्मराजपुरं यान्ति सेवमानाप्सरोगणैः ॥
ब्राह्मणेभ्यस् तु दानानि नानारूपाणि भक्तितः
ये प्रयच्छन्ति ते यान्ति सुखेनैव महापथे ॥
अन्नं ये तु प्रयच्छन्ति ब्राह्मणेभ्यः सुसंकृतम्
श्रोत्रियेभ्यो विशेषेण भक्त्या परमया युताः ॥
तरुणीभिर् वरस्त्रीभिः सेव्यमानाः प्रयत्नतः
धर्मराजपुरं यान्ति विमानैर् अभ्यलंकृतैः ॥
ये च सत्यं प्रभाषन्ते बहिर् अन्तश् च निर्मलाः
ते ऽपि यान्त्य् अमरप्रख्या विमानैर् यममन्दिरम् ॥
गोदानानि पवित्राणि विष्णुम् उद्दिश्य साधुषु
ये प्रयच्छन्ति धर्मज्ञाः कृशेषु कृशवृत्तिषु ॥
ते यान्ति दिव्यवर्णाभैर् विमानैर् मणिचित्रितैः
धर्मराजपुरं श्रीमान् सेव्यमानाप्सरोगणैः ॥
उपानद्युगलं छत्त्रं शय्यासनम् अथापि वा
ये प्रयच्छन्ति वस्त्राणि तथैवाभरणानि च ॥
ते यान्त्य् अश्वै रथैश् चैव कुञ्जरैश् चाप्य् अलंकृताः
धर्मराजपुरं दिव्यं छत्त्रैः सौवर्णराजतैः ॥
ये च भक्त्या प्रयच्छन्ति गुडपानकम् अर्चितम्
ओदनं च द्विजाग्र्येभ्यो विशुद्धेनान्तरात्मना ॥
ते यान्ति काञ्चनैर् यानैर् विविधैस् तु यमालयम्
वरस्त्रीभिर् यथाकामं सेव्यमानाः पुनः पुनः ॥
ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु
ब्राह्मणेभ्यः प्रयत्नेन शुद्ध्योपेतं सुसंस्कृतम् ॥
चक्रवाकप्रयुक्तैश् च विमानैस् तु हिरण्मयैः
यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् ॥
ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च
हंसयुक्तैर् विमानैस् तु यान्ति धर्मपुरं नराः ॥
ये तिलांस् तिलधेनुं च घृतधेनुम् अथापि वा
श्रोत्रियेभ्यः प्रयच्छन्ति विप्रेभ्यः श्रद्धयान्विताः ॥
सोममण्डलसंकाशैर् यानैस् ते यान्ति निर्मलैः
गन्धर्वैर् उपगीयन्ते पुरे वैवस्वतस्य ते ॥
येषां वाप्यश् च कूपाश् च तडागानि सरांसि च
दीर्घिकाः पुष्करिण्यश् च शीतलाश् च जलाशयाः ॥
यानैस् ते हेमचन्द्राभैर् दिव्यघण्टानिनादितैः
व्यजनैस् तालवृन्तैश् च वीज्यमाना महाप्रभाः ॥
येषां देवकुलान्य् अत्र चित्राण्य् आयतनानि च
रत्नैः प्रस्फुरमाणानि मनोज्ञानि शुभानि च ॥
ते यान्ति लोकपालैस् तु विमानैर् वातरंहसैः
धर्मराजपुरं दिव्यं नानाजनसमाकुलम् ॥
पानीयं ये प्रयच्छन्ति सर्वप्राण्युपजीवितम्
ते वितृष्णाः सुखं यान्ति विमानैस् तं महापथम् ॥
काष्ठपादुकयानानि पीठकान्य् आसनानि च
यैर् दत्तानि द्विजातिभ्यस् ते ऽध्वानं यान्ति वै सुखम् ॥
सौवर्णमणिपीठेषु पादौ कृत्वोत्तमेषु च
ते प्रयान्ति विमानैस् तु अप्सरोगणमण्डितैः ॥
आरामाणि विचित्राणि पुष्पाढ्यानीह मानवाः
रोपयन्ति फलाढ्यानि नराणाम् उपकारिणः ॥
वृक्षच्छायासु रम्यासु शीतलासु स्वलंकृताः
वरस्त्रीगीतवाद्यैश् च सेव्यमाना व्रजन्ति ते ॥
सुवर्णं रजतं वापि विद्रुमं मौक्तिकं तथा
ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः ॥
भूमिदा दीप्यमानाश् च सर्वकामैस् तु तर्पिताः
उदितादित्यसंकाशैर् विमानैर् भृशनादितैः ॥
कन्यां तु ये प्रयच्छन्ति ब्रह्मदेयाम् अलंकृताम्
दिव्यकन्यावृता यान्ति विमानैस् ते यमालयम् ॥
सुगन्धागुरुकर्पूरान् पुष्पधूपान् द्विजोत्तमाः
प्रयच्छन्ति द्विजातिभ्यो भक्त्या परमयान्विताः ॥
ते सुगन्धाः सुवेशाश् च सुप्रभाः सुविभूषिताः
यान्ति धर्मपुरं यानैर् विचित्रैर् अभ्यलंकृताः ॥
दीपदा यान्ति यानैश् च दीपयन्तो दिशो दश
आदित्यसदृशैर् यानैर् दीप्यमाना यथाग्नयः ॥
गृहावसथदातारो गृहैः काञ्चनमण्डितैः
व्रजन्ति बालार्कनिभैर् धर्मराजगृहं नराः ॥
जलभाजनदातारः कुण्डिकाकरकप्रदाः
पूजमानाप्सरोभिश् च यान्ति दृप्ता महागजैः ॥
पादाभ्यङ्गं शिरोभ्यङ्गं स्नानपानोदकं तथा
ये प्रयच्छन्ति विप्रेभ्यस् ते यान्त्य् अश्वैर् यमालयम् ॥
विश्रामयन्ति ये विप्राञ् श्रान्तान् अध्वनि कर्शितान्
चक्रवाकप्रयुक्तेन यान्ति यानेन ते सुखम् ॥
स्वागतेन च यो विप्रं पूजयेद् आसनेन च
स गच्छति तम् अध्वानं सुखं परमनिर्वृतः ॥
नमो ब्रह्मण्यदेवेति यो हरिं चाभिवादयेत्
गां च पापहरेत्य् उक्त्वा सुखं यान्ति च तत् पथम् ॥
अनन्तराशिनो ये च दम्भानृतविवर्जिताः
ते ऽपि सारसयुक्तैस् तु यान्ति यानैश् च तत् पथम् ॥
वर्तन्ते ह्य् एकभक्तेन शाठ्यदम्भविवर्जिताः
हंसयुक्तैर् विमानैस् तु सुखं यान्ति यमालयम् ॥
चतुर्थेनैकभक्तेन वर्तन्ते ये जितेन्द्रियाः
ते यान्ति धर्मनगरं यानैर् बर्हिणयोजितैः ॥
तृतीये दिवसे ये तु भुञ्जते नियतव्रताः
ते ऽपि हस्तिरथैर् दिव्यैर् यान्ति यानैश् च तत् पदम् ॥
षष्ठे ऽन्नभक्षको यस् तु शौचनित्यो जितेन्द्रियः
स याति कुञ्जरस्थस् तु शचीपतिर् इव स्वयम् ॥
धर्मराजपुरं दिव्यं नानामणिविभूषितम्
नानास्वरसमायुक्तं जयशब्दरवैर् युतम् ॥
पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः
पुरं तद् धर्मराजस्य सेव्यमानाः सुरासुरैः ॥
ये च मासोपवासं तु कुर्वते संयतेन्द्रियाः
ते ऽपि सूर्यप्रदीप्तैस् तु यान्ति यानैर् यमालयम् ॥
महाप्रस्थानम् एकाग्रो यः प्रयाति दृढव्रतः
सेव्यमानस् तु गन्धर्वैर् याति यानैर् यमालयम् ॥
शरीरं साधयेद् यस् तु वैष्णवेनान्तरात्मना
स रथेनाग्निवर्णेन यातीह त्रिदशालयम् ॥
अग्निप्रवेशं यः कुर्यान् नारायणपरायणः
स यात्य् अग्निप्रकाशेन विमानेन यमालयम् ॥
प्राणांस् त्यजति यो मर्त्यः स्मरन् विष्णुं सनातनम्
यानेनार्कप्रकाशेन याति धर्मपुरं नरः ॥
प्रविष्टो ऽन्तर् जलं यस् तु प्राणांस् त्यजति मानवः
सोममण्डलकल्पेन याति यानेन वै सुखम् ॥
स्वशरीरं हि गृध्रेभ्यो वैष्णवो यः प्रयच्छति
स याति रथमुख्येन काञ्चनेन यमालयम् ॥
स्त्रीग्रहे गोग्रहे वापि युद्धे मृत्युम् उपैति यः
स यात्य् अमरकन्याभिः सेव्यमानो रविप्रभः ॥
वैष्णवा ये च कुर्वन्ति तीर्थयात्रां जितेन्द्रियाः
तत् पथं यान्ति ते घोरं सुखयानैर् अलंकृताः ॥
ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर् भूरिदक्षिणैः
तप्तहाटकसंकाशैर् विमानैर् यान्ति ते सुखम् ॥
परपीडाम् अकुर्वन्तो भृत्यानां भरणादिकम्
कुर्वन्ति ते सुखं यान्ति विमानैः कनकोज्ज्वलैः ॥
ये क्षान्ताः सर्वभूतेषु प्राणिनाम् अभयप्रदाः
क्रोधमोहविनिर्मुक्ता निर्मदाः संयतेन्द्रियाः ॥
पूर्णचन्द्रप्रकाशेन विमानेन महाप्रभाः
यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः ॥
एकभावेन ये विष्णुं ब्रह्माणं त्र्यम्बकं रविम्
पूजयन्ति हि ते यान्ति विमानैर् भास्करप्रभैः ॥
ये च मांसं न खादन्ति सत्यशौचसमन्विताः
ते ऽपि यान्ति सुखेनैव धर्मराजपुरं नराः ॥
मांसान् मिष्टतरं नास्ति भक्ष्यभोज्यादिकेषु च
तस्मान् मांसं न भुञ्जीत नास्ति मिष्टैः सुखोदयः ॥
गोसहस्रं तु यो दद्याद् यस् तु मांसं न भक्षयेत्
समाव् एतौ पुरा प्राह ब्रह्मा वेदविदां वरः ॥
सर्वतीर्थेषु यत् पुण्यं सर्वयज्ञेषु यत् फलम्
अमांसभक्षणे विप्रास् तच् च तच् च च तत्समम् ॥
एवं सुखेन ते यान्ति यमलोकं च धार्मिकाः
दानव्रतपरा यानैर् यत्र देवो रवेः सुतः ॥
दृष्ट्वा तान् धार्मिकान् देवः स्वयं संमानयेद् यमः
स्वागतासनदानेन पाद्यार्घ्येण प्रियेण तु ॥
धन्या यूयं महात्मान आत्मनो हितकारिणः
येन दिव्यसुखार्थाय भवद्भिः सुकृतं कृतम् ॥
इदं विमानम् आरुह्य दिव्यस्त्रीभोगभूषिताः
स्वर्गं गच्छध्वम् अतुलं सर्वकामसमन्वितम् ॥
तत्र भुक्त्वा महाभोगान् अन्ते पुण्यपरिक्षयात्
यत् किंचिद् अल्पम् अशुभं फलं तद् इह भोक्ष्यथ ॥
ये तु तं धर्मराजानं नराः पुण्यानुभावतः
पश्यन्ति सौम्यमनसं पितृभूतम् इवात्मनः ॥
तस्माद् धर्मः सेवितव्यः सदा मुक्तिफलप्रदः
धर्माद् अर्थस् तथा कामो मोक्षश् च परिकीर्त्यते ॥
धर्मो माता पिता भ्राता धर्मो नाथः सुहृत् तथा
धर्मः स्वामी सखा गोप्ता तथा धाता च पोषकः ॥
धर्माद् अर्थो ऽर्थतः कामः कामाद् भोगः सुखानि च
धर्माद् ऐश्वर्यम् एकाग्र्यं धर्मात् स्वर्गगतिः परा ॥
धर्मस् तु सेवितो विप्रास् त्रायते महतो भयात्
देवत्वं च द्विजत्वं च धर्मात् प्राप्नोत्य् असंशयम् ॥
यदा च क्षीयते पापं नराणां पूर्वसंचितम्
तदैषां भजते बुद्धिर् धर्मं चात्र द्विजोत्तमाः ॥
जन्मान्तरसहस्रेषु मानुष्यं प्राप्य दुर्लभम्
यो हि नाचरते धर्मं भवेत् स खलु वञ्चितः ॥
कुत्सिता ये दरिद्राश् च विरूपा व्याधितास् तथा
परप्रेष्याश् च मूर्खाश् च ज्ञेया धर्मविवर्जिताः ॥
ये हि दीर्घायुषः शूराः पण्डिता भोगिनो ऽर्थिनः
अरोगा रूपवन्तश् च तैस् तु धर्मः पुरा कृतः ॥
एवं धर्मरता विप्रा गच्छन्ति गतिम् उत्तमाम्
अधर्मं सेवमानास् तु तिर्यग्योनिं व्रजन्ति ते ॥
ये नरा नरकध्वंसि वासुदेवम् अनुव्रताः
ते स्वप्ने ऽपि न पश्यन्ति यमं वा नरकाणि वा ॥
अनादिनिधनं देवं दैत्यदानवदारणम्
ये नमन्ति नरा नित्यं नहि पश्यन्ति ते यमम् ॥
कर्मणा मनसा वाचा ये ऽच्युतं शरणं गताः
न समर्थो यमस् तेषां ते मुक्तिफलभागिनः ॥
ये जना जगतां नाथं नित्यं नारायणं द्विजाः
नमन्ति नहि ते विष्णोः स्थानाद् अन्यत्र गामिनः ॥
न ते दूतान् न तन् मार्गं न यमं न च तां पुरीम्
प्रणम्य विष्णुं पश्यन्ति नरकाणि कथंचन ॥
कृत्वापि बहुशः पापं नरा मोहसमन्विताः
न यान्ति नरकं नत्वा सर्वपापहरं हरिम् ॥
शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम्
ते ऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकम् अनामयम् ॥
अत्यन्तक्रोधसक्तो ऽपि कदाचित् कीर्तयेद् धरिम्
सो ऽपि दोषक्षयान् मुक्तिं लभेच् चेदिपतिर् यथा ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0