ब्रह्म पुराण · अध्याय 218
अधर्मस्य गतिर् ब्रह्मन् कथिता नस् त्वयानघ
धर्मस्य च गतिं श्रोतुम् इच्छामो वदतां वर ॥
कृत्वा पापानि कर्माणि कथं यान्त्य् अशुभां गतिम्
कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥
कृत्वा पापानि कर्माणि त्व् अधर्मवशम् आगतः
मनसा विपरीतेन निरयं प्रतिपद्यते ॥
मोहाद् अधर्मं यः कृत्वा पुनः समनुतप्यते
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥
यदि विप्राः कथयते विप्राणां धर्मवादिनाम्
ततो ऽधर्मकृतात् क्षिप्रम् अपराधात् प्रमुच्यते ॥
यथा यथा नरः सम्यग् अधर्मम् अनुभाषते
समाहितेन मनसा विमुञ्चति तथा तथा ॥
यथा यथा मनस् तस्य दुष्कृतं कर्म गर्हते
तथा तथा शरीरं तु तेनाधर्मेण मुच्यते ॥
भुजंग इव निर्मोकान् पूर्वभुक्ताञ् जहाति तान्
दत्त्वा विप्रस्य दानानि विविधानि समाहितः ॥
मनःसमाधिसंयुक्तः स्वर्गतिं प्रतिपद्यते
दानानि तु प्रवक्ष्यामि यानि दत्त्वा द्विजोत्तमाः ॥
नरः कृत्वाप्य् अकार्याणि ततो धर्मेण युज्यते
सर्वेषाम् एव दानानाम् अन्नं श्रेष्ठम् उदाहृतम् ॥
सर्वम् अन्नं प्रदातव्यम् ऋजुना धर्मम् इच्छता
प्राणा ह्य् अन्नं मनुष्याणां तस्माज् जन्तुः प्रजायते ॥
अन्ने प्रतिष्ठिता लोकास् तस्माद् अन्नं प्रशस्यते
अन्नम् एव प्रशंसन्ति देवर्षिपितृमानवाः ॥
अन्नस्य हि प्रदानेन स्वर्गम् आप्नोति मानवः
न्यायलब्धं प्रदातव्यं द्विजातिभ्यो ऽन्नम् उत्तमम् ॥
स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना
यस्य त्व् अन्नम् उपाश्नन्ति ब्राह्मणाश् च सकृद् दश ॥
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर् भवेत्
ब्राह्मणानां सहस्राणि दशाभोज्य द्विजोत्तमाः ॥
नरो ऽधर्मात् प्रमुच्येत पापेष्व् अभिरतः सदा
भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः ॥
स्वाध्यायनिरते विप्रे दत्त्वेह सुखम् एधते
अहिंसन् ब्राह्मणस्वानि न्यायेन परिपाल्य च ॥
क्षत्रियस् तरसा प्राप्तम् अन्नं यो वै प्रयच्छति
द्विजेभ्यो वेदमुख्येभ्यः प्रयतः सुसमाहितः ॥
तेनापोहति धर्मात्मा दुष्कृतं कर्म भो द्विजाः
षड्भागपरिशुद्धं च कृषेर् भागम् उपार्जितम् ॥
वैश्यो ददद् द्विजातिभ्यः पापेभ्यः परिमुच्यते
अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् ॥
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात् प्रमुच्यते
औरसेन बलेनान्नम् अर्जयित्वा विहिंसकः ॥
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते
न्यायेनावाप्तम् अन्नं तु नरो हर्षसमन्वितः ॥
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात् प्रमुच्यते
अन्नम् ऊर्जस्करं लोके दत्त्वोर्जस्वी भवेन् नरः ॥
सतां पन्थानम् आवृत्य सर्वपापैः प्रमुच्यते
दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः ॥
तेष्व् अप्य् अन्नस्य दातारस् तेभ्यो धर्मः सनातनः
सर्वावस्थं मनुष्येण न्यायेनान्नम् उपार्जितम् ॥
कार्यान् न्यायागतं नित्यम् अन्नं हि परमा गतिः
अन्नस्य हि प्रदानेन नरो याति परां गतिम् ॥
सर्वकामसमायुक्तः प्रेत्य चाप्य् अश्नुते सुखम्
एवं पुण्यसमायुक्तो नरः पापैः प्रमुच्यते ॥
तस्माद् अन्नं प्रदातव्यम् अन्यायपरिवर्जितम्
यस् तु प्राणाहुतीपूर्वम् अन्नं भुङ्क्ते गृही सदा ॥
अवन्ध्यं दिवसं कुर्याद् अन्नदानेन मानवः
भोजयित्वा शतं नित्यं नरो वेदविदां वरम् ॥
न्यायविद्धर्मविदुषाम् इतिहासविदां तथा
न याति नरकं घोरं संसारं न च सेवते ॥
सर्वकामसमायुक्तः प्रेत्य चाप्य् अश्नुते सुखम्
एवं कर्मसमायुक्तो रमते विगतज्वरः ॥
रूपवान् कीर्तिमांश् चैव धनवांश् चोपजायते
एतद् वः सर्वम् आख्यातम् अन्नदानफलं महत्
मूलम् एतत् तु धर्माणां प्रदानानां च भो द्विजाः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0