भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 215

215.1

कथं दक्षिणमार्गेण विशन्ति पापिनः पुरम्
श्रोतुम् इच्छाम तद् ब्रूहि विस्तरेण तपोधन ॥

215.2

सुघोरं तन् महाघोरं द्वारं वक्ष्यामि भीषणम्
नानाश्वापदसंकीर्णं शिवाशतनिनादितम् ॥

215.3

फेत्काररवसंयुक्तम् अगम्यं लोमहर्षणम्
भूतप्रेतपिशाचैश् च वृतं चान्यैश् च राक्षसैः ॥

215.4

एवं दृष्ट्वा सुदूरान्ते द्वारं दुष्कृतकारिणः
मोहं गच्छन्ति सहसा त्रासाद् विप्रलपन्ति च ॥

215.5

ततस् ताञ् शृङ्खलैः पाशैर् बद्ध्वा कर्षन्ति निर्भयाः
ताडयन्ति च दण्डैश् च भर्त्सयन्ति पुनः पुनः ॥

215.6

लब्धसंज्ञास् ततस् ते वै रुधिरेण परिप्लुताः
व्रजन्ति दक्षिणं द्वारं प्रस्खलन्तः पदे पदे ॥

215.7

तीव्रकण्टकयुक्तेन शर्करानिचितेन च
क्षुरधारानिभैस् तीक्ष्णैः पाषाणैर् निचितेन च ॥

215.8

क्वचित् पङ्केन निचिता निरुत्तारैश् च खातकैः
लोहसूचीनिभैर् दन्तैः संछन्नेन क्वचित् क्वचित् ॥

215.9

तटप्रपातविषमैः पर्वतैर् वृक्षसंकुलैः
प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः ॥

215.10

क्वचिद् विषमगर्ताभिः क्वचिल् लोष्टैः सुपिच्छलैः
सुतप्तवालुकाभिश् च तथा तीक्ष्णैश् च शङ्कुभिः ॥

215.11

अयःशृङ्गाटकैस् तप्तैः क्वचिद् दावाग्निना युतम्
क्वचित् तप्तशिलाभिश् च क्वचिद् व्याप्तं हिमेन च ॥

215.12

क्वचिद् वालुकया व्याप्तम् आकण्ठान्तःप्रवेशया
क्वचिद् दुष्टाम्बुना व्याप्तं क्वचित् कर्षाग्निना पुनः ॥

215.13

क्वचित् सिंहैर् वृकैर् व्याघ्रैर् दशकीटैश् च दारुणैः
क्वचिन् महाजलौकाभिः क्वचिद् अजगरैः पुनः ॥

215.14

मक्षिकाभिश् च रौद्राभिः क्वचित् सर्पविषोल्बणैः
क्वचिद् दुष्टगजैश् चैव बलोन्मत्तैः प्रमाथिभिः ॥

215.15

पन्थानम् उल्लिखद्भिश् च तीक्ष्णशृङ्गैर् महावृषैः
महाशृङ्गैश् च महिषैर् उष्ट्रैर् मत्तैश् च खादनैः ॥

215.16

डाकिनीभिश् च रौद्राभिर् विकरालैश् च राक्षसैः
व्याधिभिश् च महारौद्रैः पीड्यमाना व्रजन्ति ते ॥

215.17

महाधूलिविमिश्रेण महाचण्डेन वायुना
महापाषाणवर्षेण हन्यमाना निराश्रयाः ॥

215.18

क्वचिद् विद्युन्निपातेन दीर्यमाणा व्रजन्ति ते
महता बाणवर्षेण भिद्यमानाश् च सर्वशः ॥

215.19

पतद्भिर् वज्रनिर्घातैर् उल्कापातैः सुदारुणैः
प्रदीप्ताङ्गारवर्षेण दह्यमाना विशन्ति च ॥

215.20

महता पांशुवर्षेण पूर्यमाणा रुदन्ति च
मेघारवैः सुघोरैश् च वित्रास्यन्ते मुहुर् मुहुः ॥

215.21

निःशेषाः शरवर्षेण चूर्ण्यमाणाश् च सर्वतः
महाक्षाराम्बुधाराभिः सिच्यमाना व्रजन्ति च ॥

215.22

महाशीतेन मरुता रूक्षेण परुषेण च
समन्ताद् दीर्यमाणाश् च शुष्यन्ते संकुचन्ति च ॥

215.23

इत्थं मार्गेण पुरुषाः पाथेयरहितेन च
निरालम्बेन दुर्गेण निर्जलेन समन्ततः ॥

215.24

अतिश्रमेण महता निर्गतेनाश्रमाय वै
नीयन्ते देहिनः सर्वे ये मूढाः पापकर्मिणः ॥

215.25

यमदूतैर् महाघोरैस् तदाज्ञाकारिभिर् बलात्
एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ॥

215.26

शोचन्तः स्वानि कर्माणि रुदन्ति च मुहुर् मुहुः
प्रेतीभूता निषिद्धास् ते शुष्ककण्ठौष्ठतालुकाः ॥

215.27

कृशाङ्गा भीतभीताश् च दह्यमानाः क्षुधाग्निना
बद्धाः शृङ्खलया केचित् केचिद् उत्तानपादयोः ॥

215.28

आकृष्यन्ते शुष्यमाणा यमदूतैर् बलोत्कटैः
नरा अधोमुखाश् चान्ये कृष्यमाणाः सुदुःखिताः ॥

215.29

अन्नपानीयरहिता याचमानाः पुनः पुनः
देहि देहीति भाषन्तः साश्रुगद्गदया गिरा ॥

215.30

कृताञ्जलिपुटा दीनाः क्षुत्तृष्णापरिपीडिताः
भक्ष्यान् उच्चावचान् दृष्ट्वा भोज्यान् पेयांश् च पुष्कलान् ॥

215.31

सुगन्धद्रव्यसंयुक्तान् याचमानाः पुनः पुनः
दधिक्षीरघृतोन्मिश्रं दृष्ट्वा शाल्योदनं तथा ॥

215.32

पानानि च सुगन्धीनि शीतलान्य् उदकानि च
तान् याचमानांस् ते याम्या भर्त्सयन्तस् तदाब्रुवन्
वचोभिः परुषैर् भीमाः क्रोधरक्तान्तलोचनाः ॥

215.33

न भवद्भिर् हुतं काले न दत्तं ब्राह्मणेषु च
प्रसभं दीयमानं च वारितं च द्विजातिषु ॥

215.34

तस्य पापस्य च फलं भवतां समुपागतम्
नाग्नौ दग्धं जले नष्टं न हृतं नृपतस्करैः ॥

215.35

कुतो वा सांप्रतं विप्रे यन् न दत्तं पुराधमाः
यैर् दत्तानि तु दानानि साधुभिः सात्त्विकानि तु ॥

215.36

तेषाम् एते प्रदृश्यन्ते कल्पिता ह्य् अन्नपर्वताः
भक्ष्यभोज्याश् च पेयाश् च लेह्याश् चोष्याश् च संवृताः ॥

215.37

न यूयम् अभिलप्स्यध्वे न दत्तं च कथंचन
यैस् तु दत्तं हुतं चेष्टं ब्राह्मणाश् चैव पूजिताः ॥

215.38

तेषाम् अन्नं समानीय इह निक्षिप्यते सदा
परस्वं कथम् अस्माभिर् दातुं शक्येत नारकाः ॥

215.39

किंकराणां वचः श्रुत्वा निःस्पृहाः क्षुत्तृषार्दिताः
ततस् ते दारुणैश् चास्त्रैः पीड्यन्ते यमकिंकरैः ॥

215.40

मुद्गरैर् लोहदण्डैश् च शक्तितोमरपट्टिशैः
परिघैर् भिन्दिपालैश् च गदापरशुभिः शरैः ॥

215.41

पृष्ठतो हन्यमान्याश् च यमदूतैः सुनिर्दयैः
अग्रतः सिंहव्याघ्राद्यैर् भक्ष्यन्ते पापकारिणः ॥

215.42

न प्रवेष्टुं न निर्गन्तुं लभन्ते दुःखिता भृशम्
स्वकर्मोपहताः पापाः क्रन्दमानाः सुदारुणाः ॥

215.43

तत्र संपीड्य सुभृशं प्रवेशं यमकिंकरैः
नीयन्ते पापिनस् तत्र यत्र तिष्ठेत् स्वयं यमः ॥

215.44

धर्मात्मा धर्मकृद् देवः सर्वसंयमनो यमः
एवं पथातिकष्टेन प्राप्ताः प्रेतपुरं नराः ॥

215.45

प्रज्ञापितास् तदा दूतैर् निवेश्यन्ते यमाग्रतः
ततस् ते पापकर्माणस् तं पश्यन्ति भयानकम् ॥

215.46

पापापविद्धनयना विपरीतात्मबुद्धयः
दंष्ट्राकरालवदनं भ्रुकूटीकुटिलेक्षणम् ॥

215.47

ऊर्ध्वकेशं महाश्मश्रुं प्रस्फुरदधरोत्तरम्
अष्टादशभुजं क्रुद्धं नीलाञ्जनचयोपमम् ॥

215.48

सर्वायुधोद्यतकरं तीव्रदण्डेन संयुतम्
महामहिषम् आरूढं दीप्ताग्निसमलोचनम् ॥

215.49

रक्तमाल्याम्बरधरं महामेघम् इवोच्छ्रितम्
प्रलयाम्बुदनिर्घोषं पिबन्न् इव महोदधिम् ॥

215.50

ग्रसन्तम् इव त्रैलोक्यम् उद्गिरन्तम् इवानलम्
मृत्युं च तत्समीपस्थं कालानलसमप्रभम् ॥

215.51

प्रलयानलसंकाशं कृतान्तं च भयानकम्
मारीचोग्रा महामारी कालरात्री च दारुणा ॥

215.52

विविधा व्याधयः कष्टा नानारूपा भयावहाः
शक्तिशूलाङ्कुशधराः पाशचक्रासिधारिणः ॥

215.53

वज्रदण्डधरा रौद्राः क्षुरतूणधनुर्धराः
असंख्याता महावीर्याः क्रूराश् चाञ्जनसप्रभाः ॥

215.54

सर्वायुधोद्यतकरा यमदूता भयानकाः
अनेन परिवारेण महाघोरेण संवृतम् ॥

215.55

यमं पश्यन्ति पापिष्ठाश् चित्रगुप्तं विभीषणम्
निर्भर्त्सयति चात्यर्थं यमस् तान् पापकारिणः ॥

215.56

चित्रगुप्तस् तु भगवान् धर्मवाक्यैः प्रबोधयन् ॥

215.57

भो भो दुष्कृतकर्माणः परद्रव्यापहारिणः
गर्विता रूपवीर्येण परदारविमर्दकाः ॥

215.58

यत् स्वयं क्रियते कर्म तत् स्वयं भुज्यते पुनः
तत् किम् आत्मोपघातार्थं भवद्भिर् दुष्कृतं कृतम् ॥

215.59

इदानीं किं नु शोचध्वं पीड्यमानाः स्वकर्मभिः
भुञ्जध्वं स्वानि दुःखानि नहि दोषो ऽस्ति कस्यचित् ॥

215.60

य एते पृथिवीपालाः संप्राप्ता मत्समीपतः
स्वकीयैः कर्मभिर् घोरैर् दुष्प्रज्ञा बलगर्विताः ॥

215.61

भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः
अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥

215.62

राज्यलोभेन मोहेन बलाद् अन्यायतः प्रजाः
यद् दण्डिताः फलं तस्य भुञ्जध्वम् अधुना नृपाः ॥

215.63

कुतो राज्यं कलत्रं च यदर्थम् अशुभं कृतम्
तत् सर्वं संपरित्यज्य यूयम् एकाकिनः स्थिताः ॥

215.64

पश्यामो न बलं सर्वं येन विध्वंसिताः प्रजाः
यमदूतैः पाट्यमाना अधुना कीदृशं फलम् ॥

215.65

एवं बहुविधैर् वाक्यैर् उपालब्धा यमेन ते
शोचन्तः स्वानि कर्माणि तूष्णीं तिष्ठन्ति पार्थिवाः ॥

215.66

इति कर्म समादिश्य नृपाणां धर्मराट् स्वयम्
तत्पातकविशुद्ध्यर्थम् इदं वचनम् अब्रवीत् ॥

215.67

भो भोश् चण्ड महाचण्ड गृहीत्वा नृपतीन् इमान्
विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निषु ॥

215.68

ततः शीघ्रं समुत्थाय नृपान् संगृह्य पादयोः
भ्रामयित्वा तु वेगेन क्षिप्त्वा चोर्ध्वं प्रगृह्य च ॥

215.69

तत्तत्पापप्रमाणेन यमदूताः शिलातले
आस्फोटयन्ति तरसा वज्रेणेव महाद्रुमम् ॥

215.70

ततस् तु रक्तं स्रोतोभिः स्रवते जर्जरीकृतः
निःसंज्ञः स तदा देही निश्चेष्टश् च प्रजायते ॥

215.71

ततः स वायुना स्पृष्टः शनैर् उज्जीवते पुनः
ततः पापविशुद्ध्यर्थं क्षिपन्ति नरकार्णवे ॥

215.72

अन्यांश् च ते तदा दूताः पापकर्मरतान् नरान्
निवेदयन्ति विप्रेन्द्रा यमाय भृशदुःखितान् ॥

215.73

एष देव तवादेशाद् अस्माभिर् मोहितो भृशम्
आनीतो धर्मविमुखः सदा पापरतः परः ॥

215.74

एष लुब्धो दुराचारो महापातकसंयुतः
उपपातककर्ता च सदा हिंसारतो शुचिः ॥

215.75

अगम्यागामी दुष्टात्मा परद्रव्यापहारकः
कन्याक्रयी कूटसाक्षी कृतघ्नो मित्रवञ्चकः ॥

215.76

अनेन मदमत्तेन सदा धर्मो विनिन्दितः
पापम् आचरितं कर्म मर्त्यलोके दुरात्मना ॥

215.77

इदानीम् अस्य देवेश निग्रहानुग्रहौ वद
प्रभुर् अस्य क्रियायोगे वयं वा परिपन्थिनः ॥

215.78

इति विज्ञाप्य देवेशं न्यस्याग्रे पापकारिणम्
नरकाणां सहस्रेषु लक्षकोटिशतेषु च ॥

215.79

किंकरास् ते ततो यान्ति ग्रहीतुम् अपरान् नरान्
प्रतिपन्ने कृते दोषे यमो वै पापकारिणाम् ॥

215.80

समादिशति तान् घोरान् निग्रहाय स्वकिंकरान्
यथा यस्य विनिर्दिष्टो वसिष्ठाद्यैर् विनिग्रहः ॥

215.81

पापस्य तद् भृशं क्रुद्धाः कुर्वन्ति यमकिंकराः
अङ्कुशैर् मुद्गरैर् दण्डैः क्रकचैः शक्तितोमरैः ॥

215.82

खड्गशूलनिपातैश् च भिद्यन्ते पापकारिणः
नरकाणां सहस्रेषु लक्षकोटिशतेषु च ॥

215.83

स्वकर्मोपार्जितैर् दोषैः पीड्यन्ते यमकिंकरैः
शृणुध्वं नरकाणां च स्वरूपं च भयंकरम् ॥

215.84

नामानि च प्रमाणं च येन यान्ति नराश् च तान्
महावाचीति विख्यातं नरकं शोणितप्लुतम् ॥

215.85

वज्रकण्टकसंमिश्रं योजनायुतविस्तृतम्
तत्र संपीड्यते मग्नो भिद्यते वज्रकण्टके ॥

215.86

वर्षलक्षं महाघोरं गोघाती नरके नरः
योजनानां शतं लक्षं कुम्भीपाकं सुदारुणम् ॥

215.87

ताम्रकुम्भवती दीप्ता वालुकाङ्गारसंवृता
ब्रह्महा भूमिहर्ता च निक्षेपस्यापहारकः ॥

215.88

दह्यन्ते तत्र संक्षिप्ता यावद् आभूतसंप्लवम्
रौरवो वज्रनाराचैः प्रज्वलद्भिः समावृतः ॥

215.89

योजनानां सहस्राणि षष्टिर् आयामविस्तरैः
भिद्यन्ते तत्र नाराचैः सज्वालैर् नरके नराः ॥

215.90

इक्षुवत् तत्र पीड्यन्ते ये नराः कूटसाक्षिणः
अयोमयं प्रज्वलितं मञ्जूषं नरकं स्मृतम् ॥

215.91

निक्षिप्तास् तत्र दह्यन्ते बन्दिग्राहकृताश् च ये
अप्रतिष्ठेति नरकं पूयमूत्रपुरीषकम् ॥

215.92

अधोमुखः पतेत् तत्र ब्राह्मणस्योपपीडकः
लाक्षाप्रज्वलितं घोरं नरकं तु विलेपकम् ॥

215.93

निमग्नास् तत्र दह्यन्ते मद्यपाने द्विजोत्तमाः
महाप्रभेति नरकं दीप्तशूलमहोच्छ्रयम् ॥

215.94

तत्र शूलेन भिद्यन्ते पतिभार्योपभेदिनः
नरकं च महाघोरं जयन्ती चायसी शिला ॥

215.95

तया चाक्रम्यते पापः परदारोपसेवकः
नरकं शाल्मलाख्यं तु प्रदीप्तदृढकण्टकम् ॥

215.96

तया लिङ्गति दुःखार्ता नारी बहुनरंगमा
ये वदन्ति सदासत्यं परमर्मावकर्तनम् ॥

215.97

जिह्वा चोच्छ्रियते तेषां सदस्यैर् यमकिंकरैः
ये तु रागैः कटाक्षैश् च वीक्षन्ते परयोषितम् ॥

215.98

तेषां चक्षूंषि नाराचैर् विध्यन्ते यमकिंकरैः ॥

215.99

मातरं ये ऽपि गच्छन्ति भगिनीं दुहितरं स्नुषाम्
स्त्रीबालवृद्धहन्तारो यावद् इन्द्राश् चतुर्दश
ज्वालामालाकुलं रौद्रं महारौरवसंज्ञितम् ॥

215.100

नरकं योजनानां च सहस्राणि चतुर्दश
पुरं क्षेत्रं गृहं ग्रामं यो दीपयति वह्निना ॥

215.101

स तत्र दह्यते मूढो यावत् कल्पस्थितिर् नरः
तामिस्रम् इति विख्यातं लक्षयोजनविस्तृतम् ॥

215.102

निपतद्भिः सदा रौद्रः खड्गपट्टिशमुद्गरैः
तत्र चौरा नराः क्षिप्तास् ताड्यन्ते यमकिंकरैः ॥

215.103

शूलशक्तिगदाखड्गैर् यावत् कल्पशतत्रयम्
तामिस्राद् द्विगुणं प्रोक्तं महातामिस्रसंज्ञितम् ॥

215.104

जलौकासर्पसंपूर्णां निरालोकं सुदुःखदम्
मातृहा पितृहा चैव मित्रविस्रम्भघातकः ॥

215.105

तिष्ठन्ति तक्ष्यमाणाश् च यावत् तिष्ठति मेदिनी
असिपत्त्रवनं नाम नरकं भूरिदुःखदम् ॥

215.106

योजनायुतविस्तारं ज्वलत्खड्गैः समाकुलम्
पातितस् तत्र तैः खड्गैः शतधा तु समाहतः ॥

215.107

मित्रघ्नः कृत्यते तावद् यावद् आभूतसंप्लवम्
करम्भवालुका नाम नरकं योजनायुतम् ॥

215.108

कूपाकारं वृतं दीप्तैर् वालुकाङ्गारकण्टकैः
दह्यते भिद्यते वर्ष लक्षायुतशतत्रयम् ॥

215.109

येन दग्धो जनो नित्यं मिथ्योपायैः सुदारुणैः
काकोलं नाम नरकं कृमिपूयपरिप्लुतम् ॥

215.110

क्षिप्यते तत्र दुष्टात्मा एकाकी मिष्टभुङ् नरः
कुड्मलं नाम नरकं पूर्णं विण्मूत्रशोणितैः ॥

215.111

पञ्चयज्ञक्रियाहीनाः क्षिप्यन्ते तत्र वै नराः
सुदुर्गन्धं महाभीमं मांसशोणितसंकुलम् ॥

215.112

अभक्ष्यान्ने रतास् ते ऽत्र निपतन्ति नराधमाः
क्रिमिकीटसमाकीर्णं शवपूर्णं महावटम् ॥

215.113

अधोमुखः पतेत् तत्र कन्याविक्रयकृन् नरः
नाम्ना वै तिलपाकेति नरकं दारुणं स्मृतम् ॥

215.114

तिलवत् तत्र पीड्यन्ते परपीडारताश् च ये
नरकं तैलपाकेति ज्वलत्तैलमहीप्लवम् ॥

215.115

पच्यते तत्र मित्रघ्नो हन्ता च शरणागतम्
नाम्ना वज्रकपाटेति वज्रशृङ्खलयान्वितम् ॥

215.116

पीड्यन्ते निर्दयं तत्र यैः कृतः क्षीरविक्रयः
निरुच्छ्वास इति प्रोक्तं तमोन्धं वातवर्जितम् ॥

215.117

निश्चेष्टं क्षिप्यते तत्र विप्रदाननिरोधकृत्
अङ्गारोपचयं नाम दीप्ताङ्गारसमुज्ज्वलम् ॥

215.118

दह्यते तत्र येनोक्तं दानं विप्राय नार्पितम्
महापायीति नरकं लक्षयोजनम् आयतम् ॥

215.119

पात्यन्ते ऽधोमुखास् तत्र ये जल्पन्ति सदानृतम्
महाज्वालेति नरकं ज्वालाभास्वरभीषणम् ॥

215.120

दह्यते तत्र सुचिरं यः पापे बुद्धिकृन् नरः
नरकं क्रकचाख्यातं पीड्यन्ते तत्र वै नराः ॥

215.121

क्रकचैर् वज्रधारोग्रैर् अगम्यागमने रताः
नरकं गुडपाकेति ज्वलद्गुडह्रदैर् वृतम् ॥

215.122

निक्षिप्तो दह्यते तस्मिन् वर्णसंकरकृन् नरः
क्षुरधारेति नरकं तीक्ष्णक्षुरसमावृतम् ॥

215.123

छिद्यन्ते तत्र कल्पान्तं विप्रभूमिहरा नराः
नरकं चाम्बरीषाख्यं प्रलयानलदीपितम् ॥

215.124

कल्पकोटिशतं तत्र दह्यते स्वर्णहारकः
नाम्ना वज्रकुठारेति नरकं वज्रसंकुलम् ॥

215.125

छिद्यन्ते तत्र छेत्तारो द्रुमाणां पापकारिणः
नरकं परितापाख्यं प्रलयानलदीपितम् ॥

215.126

गरदो मधुहर्ता च पच्यते तत्र पापकृत्
नरकं कालसूत्रं च वज्रसूत्रविनिर्मितम् ॥

215.127

भ्रमन्तस् तत्र च्छिद्यन्ते परसस्योपलुण्ठकाः
नरकं कश्मलं नाम श्लेष्मशिङ्घाणकावृतम् ॥

215.128

तत्र संक्षिप्यते कल्पं सदा मांसरुचिर् नरः
नरकं चोग्रगन्धेति लालामूत्रपुरीषवत् ॥

215.129

क्षिप्यन्ते तत्र नरके पितृपिण्डाप्रयच्छकाः
नरकं दुर्धरं नाम जलौकावृश्चिकाकुलम् ॥

215.130

उत्कोचभक्षकस् तत्र तिष्ठते वर्षकायुतम्
यच् च वज्रमहापीडा नरकं वज्रनिर्मितम् ॥

215.131

तत्र प्रक्षिप्य दह्यन्ते पीड्यन्ते यमकिंकरैः
धनं धान्यं हिरण्यं वा परकीयं हरन्ति ये ॥

215.132

यमदूतैश् च चौरास् ते छिद्यन्ते लवशः क्षुरैः
ये हत्वा प्राणिनं मूढाः खादन्ते काकगृध्रवत् ॥

215.133

भोज्यन्ते च स्वमांसं ते कल्पान्तं यमकिंकरैः
आसनं शयनं वस्त्रं परकीयं हरन्ति ये ॥

215.134

यमदूतैश् च ते मूढा भिद्यन्ते शक्तितोमरैः
फलं पत्त्रं नृणां वापि हृतं यैस् तु कुबुद्धिभिः ॥

215.135

यमदूतैश् च ते क्रुद्धैर् दह्यन्ते तृणवह्निभिः
परद्रव्ये कलत्रे च यः सदा दुष्टधीर् नरः ॥

215.136

यमदूतैर् ज्वलत् तस्य हृदि शूलं निखन्यते
कर्मणा मनसा वाचा ये धर्मविमुखा नराः ॥

215.137

यमलोके तु ते घोरा लभन्ते परियातनाः
एवं शतसहस्राणि लक्षकोटिशतानि च ॥

215.138

नरकाणि नरैस् तत्र भुज्यन्ते पापकारिभिः
इह कृत्वा स्वल्पम् अपि नरः कर्माशुभात्मकम् ॥

215.139

प्राप्नोति नरके घोरे यमलोकेषु यातनाम्
न शृण्वन्ति नरा मूढा धर्मोक्तं साधु भाषितम् ॥

215.140

दृष्टं केनेति प्रत्यक्षं प्रत्युक्त्यैवं वदन्ति ते
दिवा रात्रौ प्रयत्नेन पापं कुर्वन्ति ये नराः ॥

215.141

नाचरन्ति हि ते धर्मं प्रमादेनापि मोहिताः
इहैव फलभोक्तारः परत्र विमुखाश् च ये ॥

215.142

ते पतन्ति सुघोरेषु नरकेषु नराधमाः
दारुणो नरके वासः स्वर्गवासः सुखप्रदः
नरैः संप्राप्यते तत्र कर्म कृत्वा शुभाशुभम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc