भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 212

212.1

अर्जुनो ऽपि तदान्विष्य कृष्णरामकलेवरे
संस्कारं लम्भयाम् आस तथान्येषाम् अनुक्रमात् ॥

212.2

अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास् तु याः
उपगृह्य हरेर् देहं विविशुस् ता हुताशनम् ॥

212.3

रेवती चैव रामस्य देहम् आश्लिष्य सत्तमाः
विवेश ज्वलितं वह्निं तत्सङ्गाह्लादशीतलम् ॥

212.4

उग्रसेनस् तु तच् छ्रुत्वा तथैवानकदुन्दुभिः
देवकी रोहिणी चैव विविशुर् जातवेदसम् ॥

212.5

ततो ऽर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि
निश्चक्राम जनं सर्वं गृहीत्वा वज्रम् एव च ॥

212.6

द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः
वज्रं जनं च कौन्तेयः पालयञ् शनकैर् ययौ ॥

212.7

सभा सुधर्मा कृष्णेन मर्त्यलोके समाहृता
स्वर्गं जगाम भो विप्राः पारिजातश् च पादपः ॥

212.8

यस्मिन् दिने हरिर् यातो दिवं संत्यज्य मेदिनीम्
तस्मिन् दिने ऽवतीर्णो ऽयं कालकायः कलिः किल ॥

212.9

प्लावयाम् आस तां शून्यां द्वारकां च महोदधिः
यदुश्रेष्ठगृहं त्व् एकं नाप्लावयत सागरः ॥

212.10

नातिक्रामति भो विप्रास् तद् अद्यापि महोदधिः
नित्यं संनिहितस् तत्र भगवान् केशवो यतः ॥

212.11

तद् अतीव महापुण्यं सर्वपातकनाशनम्
विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात् प्रमुच्यते ॥

212.12

पार्थः पञ्चनदे देशे बहुधान्यधनान्विते
चकार वासं सर्वस्य जनस्य मुनिसत्तमाः ॥

212.13

ततो लोभः समभवत् पार्थेनैकेन धन्विना
दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः ॥

212.14

ततस् ते पापकर्माणो लोभोपहतचेतसः
आभीरा मन्त्रयाम् आसुः समेत्यात्यन्तदुर्मदाः ॥

212.15

अयम् एको ऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम्
नयत्य् अस्मान् अतिक्रम्य धिग् एतत् क्रियतां बलम् ॥

212.16

हत्वा गर्वसमारूढो भीष्मद्रोणजयद्रथान्
कर्णादींश् च न जानाति बलं ग्रामनिवासिनाम् ॥

212.17

बलज्येष्ठान् नरान् अन्यान् ग्राम्यांश् चैव विशेषतः
सर्वान् एवावजानाति किं वो बहुभिर् उत्तरैः ॥

212.18

ततो यष्टिप्रहरणा दस्यवो लोष्टहारिणः
सहस्रशो ऽभ्यधावन्त तं जनं निहतेश्वरम्
ततो निवृत्तः कौन्तेयः प्राहाभीरान् हसन्न् इव ॥

212.19

निवर्तध्वम् अधर्मज्ञा यदीतो न मुमूर्षवः ॥

212.20

अवज्ञाय वचस् तस्य जगृहुस् ते तदा धनम्
स्त्रीजनं चापि कौन्तेयाद् विष्वक्सेनपरिग्रहम् ॥

212.21

ततो ऽर्जुनो धनुर् दिव्यं गाण्डीवम् अजरं युधि
आरोपयितुम् आरेभे न शशाक स वीर्यवान् ॥

212.22

चकार सज्जं कृच्छ्रात् तु तद् अभूच् छिथिलं पुनः
न सस्मार तथास्त्राणि चिन्तयन्न् अपि पाण्डवः ॥

212.23

शरान् मुमोच चैतेषु पार्थः शेषान् स हर्षितः
न भेदं ते परं चक्रुर् अस्ता गाण्डीवधन्वना ॥

212.24

वह्निना चाक्षया दत्ताः शरास् ते ऽपि क्षयं ययुः
युध्यतः सह गोपालैर् अर्जुनस्याभवत् क्षयः ॥

212.25

अचिन्तयत् तु कौन्तेयः कृष्णस्यैव हि तद् बलम्
यन् मया शरसंघातैः सबला भूभृतो जिताः ॥

212.26

मिषतः पाण्डुपुत्रस्य ततस् ताः प्रमदोत्तमाः
अपाकृष्यन्त चाभीरैः कामाच् चान्याः प्रवव्रजुः ॥

212.27

ततः शरेषु क्षीणेषु धनुष्कोट्या धनंजयः
जघान दस्यूंस् ते चास्य प्रहाराञ् जहसुर् द्विजाः ॥

212.28

पश्यतस् त्व् एव पार्थस्य वृष्ण्यन्धकवरस्त्रियः
जग्मुर् आदाय ते म्लेच्छाः समन्तान् मुनिसत्तमाः ॥

212.29

ततः स दुःखितो जिष्णुः कष्टं कष्टम् इति ब्रुवन्
अहो भगवता तेन मुक्तो ऽस्मीति रुरोद वै ॥

212.30

तद् धनुस् तानि चास्त्राणि स रथस् ते च वाजिनः
सर्वम् एकपदे नष्टं दानम् अश्रोत्रिये यथा ॥

212.31

अहो चाति बलं दैवं विना तेन महात्मना
यद् असामर्थ्ययुक्तो ऽहं नीचैर् नीतः पराभवम् ॥

212.32

तौ बाहू स च मे मुष्टिः स्थानं तत् सो ऽस्मि चार्जुनः
पुण्येनेव विना तेन गतं सर्वम् असारताम् ॥

212.33

ममार्जुनत्वं भीमस्य भीमत्वं तत्कृतं ध्रुवम्
विना तेन यद् आभीरैर् जितो ऽहं कथम् अन्यथा ॥

212.34

इत्थं वदन् ययौ जिष्णुर् इन्द्रप्रस्थं पुरोत्तमम्
चकार तत्र राजानं वज्रं यादवनन्दनम् ॥

212.35

स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम्
तम् उपेत्य महाभागं विनयेनाभ्यवादयत् ॥

212.36

तं वन्दमानं चरणाव् अवलोक्य सुनिश्चितम्
उवाच पार्थं विच्छायः कथम् अत्यन्तम् ईदृशः ॥

212.37

अजारजोनुगमनं ब्रह्महत्याथवा कृता
जयाशाभङ्गदुःखी वा भ्रष्टच्छायो ऽसि सांप्रतम् ॥

212.38

सांतानिकादयो वा ते याचमाना निराकृताः
अगम्यस्त्रीरतिर् वापि तेनासि विगतप्रभः ॥

212.39

भुङ्क्ते प्रदाय विप्रेभ्यो मिष्टम् एकम् अथो भवान्
किं वा कृपणवित्तानि हृतानि भवतार्जुन ॥

212.40

कच्चिन् न सूर्यवातस्य गोचरत्वं गतो ऽर्जुन
दुष्टचक्षुर् हतो वापि निःश्रीकः कथम् अन्यथा ॥

212.41

स्पृष्टो नखाम्भसा वापि घटाम्भःप्रोक्षितो ऽपि वा
तेनातीवासि विच्छायो न्यूनैर् वा युधि निर्जितः ॥

212.42

ततः पार्थो विनिःश्वस्य श्रूयतां भगवन्न् इति
प्रोक्तो यथावद् आचष्ट विप्रा आत्मपराभवम् ॥

212.43

यद् बलं यच् च नस् तेजो यद् वीर्यं यत् पराक्रमः
या श्रीश् छाया च नः सो ऽस्मान् परित्यज्य हरिर् गतः ॥

212.44

इतरेणेव महता स्मितपूर्वाभिभाषिणा
हीना वयं मुने तेन जातास् तृणमया इव ॥

212.45

अस्त्राणां सायकानां च गाण्डीवस्य तथा मम
सारता याभवन् मूर्ता स गतः पुरुषोत्तमः ॥

212.46

यस्यावलोकनाद् अस्माञ् श्रीर् जयः संपद् उन्नतिः
न तत्याज स गोविन्दस् त्यक्त्वास्मान् भगवान् गतः ॥

212.47

भीष्मद्रोणाङ्गराजाद्यास् तथा दुर्योधनादयः
यत्प्रभावेन निर्दग्धाः स कृष्णस् त्यक्तवान् भुवम् ॥

212.48

निर्यौवना हतश्रीका भ्रष्टच्छायेव मे मही
विभाति तात नैको ऽहं विरहे तस्य चक्रिणः ॥

212.49

यस्यानुभावाद् भीष्माद्यैर् मय्य् अग्नौ शलभायितम्
विना तेनाद्य कृष्णेन गोपालैर् अस्मि निर्जितः ॥

212.50

गाण्डीवं त्रिषु लोकेषु ख्यातं यद् अनुभावतः
मम तेन विनाभीरैर् लगुडैस् तु तिरस्कृतम् ॥

212.51

स्त्रीसहस्राण्य् अनेकानि ह्य् अनाथानि महामुने
यततो मम नीतानि दस्युभिर् लगुडायुधैः ॥

212.52

आनीयमानम् आभीरैः सर्वं कृष्णावरोधनम्
हृतं यष्टिप्रहरणैः परिभूय बलं मम ॥

212.53

निःश्रीकता न मे चित्रं यज् जीवामि तद् अद्भुतम्
नीचावमानपङ्काङ्की निर्लज्जो ऽस्मि पितामह ॥

212.54

श्रुत्वाहं तस्य तद् वाक्यम् अब्रवं द्विजसत्तमाः
दुःखितस्य च दीनस्य पाण्डवस्य महात्मनः ॥

212.55

अलं ते व्रीडया पार्थ न त्वं शोचितुम् अर्हसि
अवेहि सर्वभूतेषु कालस्य गतिर् ईदृशी ॥

212.56

कालो भवाय भूतानाम् अभवाय च पाण्डव
कालमूलम् इदं ज्ञात्वा कुरु स्थैर्यम् अतो ऽर्जुन ॥

212.57

नद्यः समुद्रा गिरयः सकला च वसुंधरा
देवा मनुष्याः पशवस् तरवश् च सरीसृपाः ॥

212.58

सृष्टाः कालेन कालेन पुनर् यास्यन्ति संक्षयम्
कालात्मकम् इदं सर्वं ज्ञात्वा शमम् अवाप्नुहि ॥

212.59

यथात्थ कृष्णमाहात्म्यं तत् तथैव धनंजय
भारावतारकार्यार्थम् अवतीर्णः स मेदिनीम् ॥

212.60

भाराक्रान्ता धरा याता देवानां संनिधौ पुरा
तदर्थम् अवतीर्णो ऽसौ कामरूपी जनार्दनः ॥

212.61

तच् च निष्पादितं कार्यम् अशेषा भूभृतो हताः
वृष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम् ॥

212.62

न किंचिद् अन्यत् कर्तव्यम् अस्य भूमितले ऽर्जुन
ततो गतः स भगवान् कृतकृत्यो यथेच्छया ॥

212.63

सृष्टिं सर्गे करोत्य् एष देवदेवः स्थितिं स्थितौ
अन्ते तापसमर्थो ऽयं सांप्रतं वै यथा कृतम् ॥

212.64

तस्मात् पार्थ न संतापस् त्वया कार्यः पराभवात्
भवन्ति भवकालेषु पुरुषाणां पराक्रमाः ॥

212.65

यतस् त्वयैकेन हता भीष्मद्रोणादयो नृपाः
तेषाम् अर्जुन कालोत्थः किं न्यूनाभिभवो न सः ॥

212.66

विष्णोस् तस्यानुभावेन यथा तेषां पराभवः
त्वत्तस् तथैव भवतो दस्युभ्यो ऽन्ते तदुद्भवः ॥

212.67

स देवो ऽन्यशरीराणि समाविश्य जगत्स्थितिम्
करोति सर्वभूतानां नाशं चान्ते जगत्पतिः ॥

212.68

भवोद्भवे च कौन्तेय सहायस् ते जनार्दनः
भवान्ते त्वद्विपक्षास् ते केशवेनावलोकिताः ॥

212.69

कः श्रद्दध्यात् सगाङ्गेयान् हन्यास् त्वं सर्वकौरवान्
आभीरेभ्यश् च भवतः कः श्रद्दध्यात् पराभवम् ॥

212.70

पार्थैतत् सर्वभूतेषु हरेर् लीलाविचेष्टितम्
त्वया यत् कौरवा ध्वस्ता यद् आभीरैर् भवाञ् जितः ॥

212.71

गृहीता दस्युभिर् यच् च रक्षिता भवता स्त्रियः
तद् अप्य् अहं यथावृत्तं कथयामि तवार्जुन ॥

212.72

अष्टावक्रः पुरा विप्र उदवासरतो ऽभवत्
बहून् वर्षगणान् पार्थ गृणन् ब्रह्म सनातनम् ॥

212.73

जितेष्व् असुरसंघेषु मेरुपृष्ठे महोत्सवः
बभूव तत्र गच्छन्त्यो ददृशुस् तं सुरस्त्रियः ॥

212.74

रम्भातिलोत्तमाद्याश् च शतशो ऽथ सहस्रशः
तुष्टुवुस् तं महात्मानं प्रशशंसुश् च पाण्डव ॥

212.75

आकण्ठमग्नं सलिले जटाभारधरं मुनिम्
विनयावनताश् चैव प्रणेमुः स्तोत्रतत्पराः ॥

212.76

यथा यथा प्रसन्नो ऽभूत् तुष्टुवुस् तं तथा तथा
सर्वास् ताः कौरवश्रेष्ठ वरिष्ठं तं द्विजन्मनाम् ॥

212.77

प्रसन्नो ऽहं महाभागा भवतीनां यद् इष्यते
मत्तस् तद् व्रियतां सर्वं प्रदास्याम्य् अपि दुर्लभम् ॥

212.78

रम्भातिलोत्तमाद्याश् च दिव्याश् चाप्सरसो ऽब्रुवन् ॥

212.79

प्रसन्ने त्वय्य् असंप्राप्तं किम् अस्माकम् इति द्विजाः ॥

212.80

इतरास् त्व् अब्रुवन् विप्र प्रसन्नो भगवन् यदि
तद् इच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तमम् ॥

212.81

एवं भविष्यतीत्य् उक्त्वा उत्ततार जलान् मुनिः
तम् उत्तीर्णं च ददृशुर् विरूपं वक्रम् अष्टधा ॥

212.82

तं दृष्ट्वा गूहमानानां यासां हासः स्फुटो ऽभवत्
ताः शशाप मुनिः कोपम् अवाप्य कुरुनन्दन ॥

212.83

यस्माद् विरूपरूपं मां मत्वा हासावमानना
भवतीभिः कृता तस्माद् एष शापं ददामि वः ॥

212.84

मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम्
मच्छापोपहताः सर्वा दस्युहस्तं गमिष्यथ ॥

212.85

इत्य् उदीरितम् आकर्ण्य मुनिस् ताभिः प्रसादितः
पुनः सुरेन्द्रलोकं वै प्राह भूयो गमिष्यथ ॥

212.86

एवं तस्य मुनेः शापाद् अष्टावक्रस्य केशवम्
भर्तारं प्राप्य ताः प्राप्ता दस्युहस्तं वराङ्गनाः ॥

212.87

तत् त्वया नात्र कर्तव्यः शोको ऽल्पो ऽपि हि पाण्डव
तेनैवाखिलनाथेन सर्वं तद् उपसंहृतम् ॥

212.88

भवतां चोपसंहारम् आसन्नं तेन कुर्वता
बलं तेजस् तथा वीर्यं माहात्म्यं चोपसंहृतम् ॥

212.89

जातस्य नियतो मृत्युः पतनं च तथोन्नतेः
विप्रयोगावसानं तु संयोगः संचयः क्षयः ॥

212.90

विज्ञाय न बुधाः शोकं न हर्षम् उपयान्ति ये
तेषाम् एवेतरे चेष्टां शिक्षन्तः सन्ति तादृशाः ॥

212.91

तस्मात् त्वया नरश्रेष्ठ ज्ञात्वैतद् भ्रातृभिः सह
परित्यज्याखिलं राज्यं गन्तव्यं तपसे वनम् ॥

212.92

तद् गच्छ धर्मराजाय निवेद्यैतद् वचो मम
परश्वो भ्रातृभिः सार्धं गतिं वीर यथा कुरु ॥

212.93

इत्य् उक्तो धर्मराजं तु समभ्येत्य तथोक्तवान्
दृष्टं चैवानुभूतं वा कथितं तद् अशेषतः ॥

212.94

व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनसमीरितम्
राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम् ॥

212.95

इत्य् एवं वो मुनिश्रेष्ठा विस्तरेण मयोदितम्
जातस्य च यदोर् वंशे वासुदेवस्य चेष्टितम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc