भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 211

211.1

इत्य् उक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः
प्रदक्षिणं च बहुशः कृत्वा प्रायाद् यथोदितम् ॥

211.2

स च गत्वा तथा चक्रे द्वारकायां तथार्जुनम्
आनिनाय महाबुद्धिं वज्रं चक्रे तथा नृपम् ॥

211.3

भगवान् अपि गोविन्दो वासुदेवात्मकं परम्
ब्रह्मात्मनि समारोप्य सर्वभूतेष्व् अधारयत् ॥

211.4

स मानयन् द्विजवचो दुर्वासा यद् उवाच ह
योगयुक्तो ऽभवत् पादं कृत्वा जानुनि सत्तमाः ॥

211.5

संप्राप्तो वै जरा नाम तदा तत्र स लुब्धकः
मुशलशेषलोहस्य सायकं धारयन् परम् ॥

211.6

स तत्पादं मृगाकारं समवेक्ष्य व्यवस्थितः
ततो विव्याध तेनैव तोमरेण द्विजोत्तमाः ॥

211.7

गतश् च ददृशे तत्र चतुर्बाहुधरं नरम्
प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः ॥

211.8

अजानता कृतम् इदं मया हरिणशङ्कया
क्षम्यताम् आत्मपापेन दग्धं मा दग्धुम् अर्हसि ॥

211.9

ततस् तं भगवान् आह नास्ति ते भयम् अण्व् अपि
गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गेश्वरास्पदम् ॥

211.10

विमानम् आगतं सद्यस् तद्वाक्यसमनन्तरम्
आरुह्य प्रययौ स्वर्गं लुब्धकस् तत्प्रसादतः ॥

211.11

गते तस्मिन् स भगवान् संयोज्यात्मानम् आत्मनि
ब्रह्मभूते ऽव्यये ऽचिन्त्ये वासुदेवमये ऽमले ॥

211.12

अजन्मन्य् अजरे ऽनाशिन्य् अप्रमेये ऽखिलात्मनि
त्यक्त्वा स मानुषं देहम् अवाप त्रिविधां गतिम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc